अलङ्कारग्रन्थाः अलङ्कारशास्त्रस्य निरूपणं कुर्वन्ति। अलङ्कारशास्त्रेतिहासशब्दस्य योऽभिप्रायः साम्प्रतिकयुगे गृह्यते, भारतीयपण्डितैः सोऽभिप्रायो न गृहीतः । विश्रुतानां सर्वेषामेवालङ्कारिकाणामितिहासं ते न प्रमाणयन्ति, केवलमलङ्कारसंवर्धने कृत सहायकानामेवे। | चरितं तैरग्रथ्यत । प्राचीनालङ्कारिकाणां, बहवो ग्रन्थाः प्रकाशं नायाताः। क्वचन गृहकोणे सीदत्सु तेषु वर्तमानोऽपीतिहासोऽवर्तमान इव । कतृ नामानि येषु ग्रन्थेषुपलभ्यन्तेऽपि तत्राऽपि रचनाविषये परिचयविषये च औदासीन्यमेव । एवं स्थितौ तिथिक्रमनिर्धारणं परिचयप्रदानं च शिलालिप्यादिस्वल्पप्रमाणाधारकं परोक्तमेव विश्वसितुं बाध्यते । अपि चालङ्कारशास्त्रेतिहासो न केवलमालङ्कारिकानां जीवनकथामात्रविषयीकरोति, तत्र तदीय कृतिमूल्यनिर्धारणादि प्रधानतयाऽपेक्ष्यते, तत्कार्यञ्च गम्भीरमध्ययनमपेक्षते । अपि चालङ्कारिकानामाचार्याणां पौर्वापर्यस्य प्रामाणिकपरिचयमपेक्षितो भवति । इतिहासकाराणां मध्ये परस्परसमयनिर्धारणे मतमतान्तरमपि विद्यते । अतएवालङ्कारिकाणां पौर्वापर्यक्रमे समयनिर्धारणे च मतमतान्तरं विहायात्रं मया मात्रनिर्णायककालस्यैव यथासम्भव उल्लेखः कृतः ।

अलङ्कारनिबन्धकर्तारः प्राचीन अर्वाचीनाश्चाचार्याः बुडवो हि सजाताः । तत्रालङ्काराणां विकासक्रमदष्ट्यैव मयाऽलङ्कारिकाणां द्वौ वग निधारित तद्यथा प्रथमवर्गे–भरत-महषिव्यास-भट्टि-भामह-दण्डी-उद्धट-वामन-रुद्रट-व्यासभोजराज-मम्मट-रूय्यक-शोभाकरमित्र-अमृतानन्दयोगी-जयदेव-जयरथ-द्वितीय वाग्भट-विश्वनाथ-केशवमिश्र-अप्पयदीक्षित-जगन्नाथप्रभुतयः ग्रन्थकर्तारः सन्ति । द्वितीयवर्गे च मेधावी-श्रीमत्स्थविर-आनन्दवर्धन-राजशेखर-मुकुलभट्ट-प्रतीहारेन्दुराज-भट्टतौत-भट्टनायक-कुन्तक–अभिनवगुप्त-धनञ्जय-धनिक-राजानक महिमभट्ट-क्षेमेन्द्र-नमिसाधु-सागरनन्दी-हेमचन्द्र-वाग्भट्ट-रामचन्द्र-गुणचन्द्र-अरि सिंह-शारदातनय-देवेश्वर-विद्याधर-विद्यानाथ-शिङ्गभूपाल-भानुदत्तंमिश्र-रूपगोस्वामी-कविकर्णपूर-कविचन्द्र-आशाधरभट्ट-नरसिंहकवि-विश्वेश्वरपण्डित-अच्युतरायप्रभृतयः अलङ्कारनिबन्धकर्तारः सन्ति । एतेषामाचार्याणां समयादि निरूपणे मया प्राञ्च इतिहासकाराः अनुसृताः स्युः । ग्रन्थस्य कायो यथा न स्थूलः स्यात् विवक्षितश्चार्यों न हीयते इति सावधानेन मया संक्षिप्ता सरणिराश्रिता, तथापि दुर्बोधतां दवयितुमतीव सतकीदृगाश्रितैवेति ।

शारदातनयस्य भावप्रकाशेन विदितो भवति यद्भरतो हि नन्दिकेश्वरेण नाट्यशिक्षां सम्प्राप्याभिनयस्य प्रचारं कर्तुमग्रेसरो बभूव । (सम्प्रत्यपि नन्दिकेश्वर कृताभिनयदर्पणः उपलब्ध एवाऽस्ति । अस्मिन्ग्रन्थे यत्र तत्र भरतस्य नामोल्लेखपूर्व कनाट्यशास्त्रस्य संकेतों मिलति । तेन चाभिनय दपर्ण इति भरतोत्तरकालीनर्वाचीनरचना प्रतीतो भवति । भरतार्णवनामकस्या प्येकस्य ग्रन्थस्योल्लेखो मिलति । अस्य ग्रन्थस्यापि कर्ता नन्दिकेश्वर एवासीत् । अस्य ग्रन्थस्य विषयस्तु तालाभिनय एवाऽस्ति । अभिनवभारत्यामभिनवगुप्ते नाऽपि भरतपूर्वकालीनकश्यपमुनेः रागसम्बन्धिनश्चर्चा कृताऽस्ति । काव्यादशंस्य हृदयङ्गमा नामकटीकायां लिखितमस्ति-पूर्वेषां कश्यप-वररुचि प्रभृतीनामाचार्याणां लक्षणशास्त्राणि संहृत्य पर्यालोच्य' इति । अनेकोद्घरणेन सिद्धो भवति यदिमे आचार्याः कतिपयकाव्यशास्त्रीयग्रन्थान् प्रणीतवन्तः । काव्यादर्शस्यैव वादिजङ्घालकृत-श्रुतानुपालिनी-नामकव्याख्यायामाचार्य दण्डि पूर्ववतनः काव्यशास्त्रीयाचार्याणां वर्णनप्रसङ्ग काश्यप नन्दिस्वामी-ब्रहादसा नामप्युल्लेखो मिलति भावप्रकाशने शारदातनयेनाऽपि नाट्यविशेषज्ञरूपे सदाशिव-गौरि-वासुकि-नारद-अगस्त्य-व्यास-आञ्जनेयादिकमाचार्याणां स्मरणञ्च कृतम् । संगीतरत्नाकरेऽपि नाट्यसंगीतादिवर्णनप्रसङ्गे श्रूयमाणानामध्ये यानां कतिपयाचार्याणां सदाशिव-ब्रह्मा-भरत-कश्यप-मतङ्ग-कोहल-नारदआञ्जनेय-नन्दिकेश्वरादीनां वर्णनं मिलति ।

मिथिलाप्रान्तस्य कर्णाटकवंशीयराज्ञा नान्यदेवेन भरतकृतनाट्यशास्त्रस्य सरस्वतीहृदयालङ्कारहारनामिकैका टीका लिखिता। मूलतः एष ग्रन्थो रूपेणाऽस्ति । ग्रन्थमहार्णवनामकमपरोऽपि ग्रन्थमनेन लिखितम् । तर तेनायं मिथिलेश्वरेण रचितोऽध्यायोपनद्धाभिधः ।

अस्मिन् ग्रन्थेऽपि कश्यप-बृहत्कश्यप-दत्तिल-नारदादीनाम् आचाधि वर्णनं मिलति । अनेन सम्भाव्यते यदि तेषामाचार्याणां पुरा बहवो शन्थाः आसन् । किञ्चाधुना तेष्वेकोऽपि ग्रन्थः नोपलभ्यते । उपलब्धेषु प्राचीनन्थेध्वस्मिन्विषये भरतमुनिप्रणीत-नाट्यशास्त्रमेव मया प्राचीनतम रूपेण प्रस्तुतः ।

अत्रालङ्कारशास्त्रस्याचार्याणां पौर्वापर्यस्य संक्षिप्तपरिचयोऽपेक्षितत्वात्तेषामाचार्याणां समयनिरूपणे मतमतान्तराणां विचारञ्च विहाय मात्रनिर्णयात्मककालस्यैव यथासम्भव उल्लेखः कृतो मया । सर्वप्रथममाचार्याणामुल्लेखः वर्गद्वये कृतम्। 'क' वर्गे तेषामेवाचार्याणां संग्रहणं कृतम् मया यैरलङ्काराणां विकासक्रमे नवनवोद्भावनं कृतम् । ‘ख’वर्गे अलङ्कारशास्त्रस्य प्रसिद्धानामाचार्याणां विवरण प्रस्तुतम् ।

नाट्यशास्त्रम् सम्पादयतु

मुनिभरतो हि रससम्प्रदायस्य प्राचीनतमाचार्यः । एतन्मतेन नाटके रसस्यैव प्राधान्यं तिष्ठति । कविकुलचक्रैचूडामणिना महाकविकालिदासेन तु आचार्यमेनं देवतानां नाट्यचौर्यरूपेणोल्लिख्य नाटकेष्वष्टरसानां विकासस्तथाप्सरोद्वारा तदभिनयः पूर्वसञ्जात इति निर्दिष्टम् तथा च विक्रमोर्वश्याम्---

मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयः प्रयुक्तः ।

ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः।।[1]

अनेनाप्यस्य समयः कालिदासात्पूर्ववादीशर्वीय द्वितीयशताब्द्याः पूर्व-. मेवासीदिति प्रतिपादयन्तीतिहासकाराः । एतस्य नाट्यशास्त्रस्य राहुलकृता टीकाभिनवगुप्तेन स्मर्यते । राहुलकस्य नाम तमिलमहाकाव्ये ‘मणिमेकलये ( Manimekalai ) समायातम् । मणिमेकलये नामकस्य तस्य तमिलग्रन्थस्य रचनाकालः द्वितीयशताब्दी ई० पूर्व एव मन्यते । अतोऽपि भरतस्य तत्पूर्वकालिकता समायाति । भरतस्य प्राचीनाष्टीकाकारा एव तस्य प्राचीनतरतां साधयन्ति । एतस्यैव महामुनेर्नामान्तरं वृहद्भरतश्चादिभरतश्च कथयन्ति । साहित्यशास्त्रीयपर्यालोचनेन पौराणिकवंशक्रमानुसारेण चाप्ययं महानुभावो हि व्यासवाल्मीकिभ्यां पश्चाद्वर्ती भवन्नपि इतरेभ्यः समेभ्यः संस्कृतालङ्कारशास्त्रीयलेखकेभ्यः प्राचीनः प्रतीयते ।

भरतद्वयं प्रथमे एको वृद्धभरत आदिभरतो वो, अपरो भरतः। वृद्धभरतस्य कृति द्वादशसाहस्रीशब्देन व्यवहृता, भरतस्य कृतिश्च शतसाहस्रीशब्देन । अनेनाऽपि भरतस्य प्राचीनतयैव तं मुनिमाहुः । कतिपयसमालोचकाः काल्पनिकपुरुषरूपेणामुं प्रतिपादयन्ति । किन्तु तेषामिदं भ्रममेवास्ति । एतन्निश्चप्रचं वर्तते यदयं प्राचीनतमोऽलङ्कारशास्त्री, रसशास्त्री, नाट्यशास्त्री चेति ।।

एतन्निमतं नाट्यशास्त्रमस्ति । ग्रन्थोऽयं साम्प्रतं द्विविधरूपेण प्राप्तो भवति- 'नाट्यवेदागमः' नाटयशास्त्रञ्चेति नाम्ना । प्रथमस्यैव ग्रन्थस्य नामान्तरं द्वादशसाहस्री, द्वितीयस्य षट्साहस्रीति । शारदातनयमतानु प्रथमग्रन्थस्यैव षट्साहस्रीति संक्षिप्तरूपं वर्त्तते । एतदेव भावप्रकाशेऽप्युक्तम् -

एवं द्वादशसाहस्रैः श्लोकैरेकं तदर्थतः ।।

षड्भिः श्लोकसहस्रर्यो नाटयवेदस्य संग्रहः ॥ इति

नाट्यशास्त्रमिदं भारतीयललितकलायाः विश्वकोषः, यतो ह्यत्र नाट्यत्व प्राधान्येऽपि तदपकारकछन्दोऽलङ्कारसंगीतशास्त्राणां मूलसिद्धान्तस्यापार पादनं वयमवलोकयामः । ग्रन्थेऽस्मिन् त्रयोंऽशाः कारिका-सूत्रभाष्यानु१२५ श्लोकाः । तत्र मूलग्रन्थे सूत्रभाष्ययोरेव समावेश आसीत् । अन्येऽशाश्च विकास क्रमेण सम्मिलिताः । मुलग्रन्थाभिप्रायस्य बोधनाय विस्तरेण कारिकाया निमितिः सञ्जाता। गुरुशिष्यपरम्परया समागतानि आर्याऽनुष्टुप्छन्दसरूिपनिबद्धानि प्राचीनपद्यानि आनुवंश्यश्लोकेषु विद्यमानानि सन्ति । अभिनवगुप्तटीकानुसारेणानुवंश्यश्लोकाः हि प्राचीनतराचार्यनिर्मिताः सन्तीति प्रतीयते । - तथा चोक्तमभिनवभारत्याः षष्ठाध्याये—'ता एता ह्याचार्या एकप्रघट्टकतया पूर्वाचार्यैः लक्षणत्वेन पठिता मुनिना तु सुखसंग्रहाय यथास्थानं निवेशिताः ।' नाट्यशास्त्रमेतदभिनवगुप्तष्टीकाकारः भरतसूत्रमितिनाम्ना निदिशति- 'षट्त्रिंशकं भरतसूत्रमिदम् विवृण्वन् ।' इति । नान्यदेवस्तु भरतं 'सूत्रकृत्' शब्देन परामृशति-- 'कलानामानि सूत्रकृदुक्तानि यथा' इत्यादिना । अभिनवगुप्तोऽपि ग्रन्थमिदं भरतसूत्रनाम्नाभिहितम् । स्वयं मुनिना भरतेनाऽपि लिखितम् -

विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।

निबन्धो यः समासेन संग्रहं तं विदुर्बुधाः ।।

रसाभावाह्यभिनया धर्मीवृत्ति प्रवृत्तयः ।

सिद्धिः स्वरास्तथातोद्यं गानं रङ्गञ्च संग्रहः ॥

अल्पाभिधानेनार्थो यः समासेनोच्यते बुधैः ।

सूत्रतः सा तु विज्ञेया कारिकार्थं प्रयोगिनी ॥

एवमेषोऽर्थं सूत्रार्थो व्यादिष्टो नाट्यसंग्रहः ।

अतः परं प्रवक्ष्यामि सूत्रग्रन्थविकल्पनम् ॥[6]

अनेन ग्रन्थेऽस्मिन् भरतेन सूत्रभाष्यकारिकानां संग्रहः कृत इति सिद्धयति ।। अभिनवगुप्तोऽपि कथयति यदस्मिन् ग्रन्थे भरतेन सूत्रमुक्त्वा पश्चात्तस्य वृत्तिस्तथा सूत्रविवरणस्वभावानां कारिकानामुल्लेखः कृतः । तद्यथाऽभिनवभारत्याम्-'सूत्र-सूत्रकं लक्षणं वक्ष्यामि । तेनैव च कारिका सङगृहीता। ग्रन्या भाष्यं तत्कृतं च विकल्पनमाक्षेपप्रतिसमाधानात्मकमितिपरीक्षा निरुक्तराम वाच्या प्रतिज्ञाता। सूत्रविवरणस्वभावा तु कारिकासूत्रमपि प्रकाशयन्ती बहुराक्षेपसमाधानव्याकुलशिष्यजनस्थितिपक्षं निरूपणेनोपकरोति इति भाष्यबादस्याः पाठः । अभिनवटीकातः एव विदितो भवति कतिपयनास्तिकाण मतेऽस्य नाट्यशास्त्रस्य त्रयः आचार्याः आसन् । ते च सदाशिव, भारतश्चेति । किञ्चाभिनवगुप्तेन खण्डितेयं मान्यता-'एतेन सदाशिवसाभारतमतत्रयविवेचनेन ब्रह्ममतसारप्रतिपादनाय मतत्रयी सारासाररचनं तद्ग्रन्थखण्डप्रक्षेपेण विहितमिदं शास्त्रं न तु मुनिविरचितमिति दाहर्नास्तिकधुर्योपाध्यायास्तत्प्रयुक्तम् सर्वान पह्ववनीया बाधितशब्दलोकप्रसिद्धिविरोधाच्च ।' तत्रैवान्यदपि—'एकस्य ग्रन्थस्यानेकवक्तृवचनसन्दर्भमयत्वे प्रमाणाभावात् स्वपरव्यवहारेण पूर्वपक्षोत्तरपक्षादीनां श्रुतिस्मृतिव्याकरणतर्कादिशास्त्रेष्वेकविरचितेष्वपि दर्शनात् ।

सम्प्रत्युपलभ्यमानं नाट्यशास्त्रं भरतस्यैव कृतिः नात्र सन्देहः । इदं क्वचिषट्त्रिंशदध्यायात्मकं क्वचिच्च सप्तत्रिंशदध्यायात्मकं कथ्यते । मन्ये लेखकप्रमादात् कोप्यध्यायो विभक्तः स्यात् । अभिनवगुप्तः स्वीयायां भरतसूत्रस्य टीकायां सप्तत्रिंशतोऽध्यायां विलखितवान् । प्रत्यध्यायप्रारम्भेऽसौ श्लोकमेकं शिवनमस्कारात्मकं लिखति येन काश्मीरकशैवप्रत्यभिज्ञा शास्त्रीय षट्त्रिंशत्तत्त्वानि निर्दिशितानि भवन्ति । सप्तत्रिशे चाध्यायोऽणुत्तरं शिवं स्तौति -

आकाङ्क्षाणां प्रशमनविधेः पूर्णभावावधीनाम्,

धाराप्राप्तस्तुति गुरुगिरां गुह्यतत्त्व प्रतिष्ठा ।

ऊर्ध्वादन्यः परभुविनवा यत्समानं चकास्ति,

प्रौढानन्तं तदहमधुनाऽनुत्तरं धाम वन्दे ॥'

इदमपि सम्भवति यदभिनवगुप्त एव तत्त्वानि अनुत्तरं च निर्देष्टुमिच्छुः कमप्यध्यायं विभज्याध्यायसंख्या वधितवान् स्यात् । प्राप्ते भरतसूत्रे ५००० श्लोकास्तथा कियद् गद्यमपि विद्यते । षष्ठे सप्तमे, अष्टाविंशे चाध्याये केवले गद्यभागो लभ्यते । ये केचनेतिहासविदः कथयन्ति यन्नाट्यशास्त्रं नैकस्मिन्काले रचितमपितु दीर्घकालिकस्यालङ्कारिकतत्वनिर्णयप्रयासस्य फलमिदं शास्त्रमिति तन्न युक्तम् । सम्प्रत्युपलब्धेऽस्मिन्नाट्यशास्त्र षट्त्रिंशद् लक्षणातिरिक्त चतुर्णामलङ्काराणामपि निरूपणोऽभवत् । मुख्यतः भरतो रससम्प्रदायस्याचार्यः । एतन्मते नाटकेषु रस एव प्रधानम् । अलङ्कारास्त्वनेन प्रसङ्गतो निरूपिता ६-७-१६ अध्यायेष्वेव ।

विष्णुधर्मोत्तरपुराणम् सम्पादयतु

(पञ्चदशाभिनवालङ्काराः १५+३=१८) - प्राचीनमुनीनां समयनिर्धारणमतिकष्टसाध्यं कार्यम्, यतस्तैः स्वविषये कमपि कुत्रापि च न लिखितम् । अस्यां स्थितौ विष्णुधर्मोत्तरपुराणस्याऽपि कर्तुर्मुनिव्यासस्यान्यकृतैरुल्लेखैः अनुमानेन च समयो व्यवस्थापनीयो भवति । अस्मादेव हेतोर्मुनिव्यासस्य विष्णुधर्मोत्तरपुराणस्य च समयसम्बन्धेऽपि मतभेदा वर्तन्ते ।

विष्णुधर्मोत्तरस्य मूलतः धार्मिकदृष्ट्या एवाधिक महत्त्वं वर्तते । समाजस्य तात्कालिकस्वरूपबोधनायाप्यस्य पुराणस्य महानुपयोगः । अस्मिन्पुराणे प्राचीनभारतस्येतिहासोऽपि निहितः । अस्योक्तानामितिवृत्तानां प्रामाणिकत्वं शिलालेखादिभिरपि कर्तुमारब्धम्, अतो विदेशीयाः अपि विद्वांसः पुराणेऽस्मिन् धृतादराः प्रतिभान्ति । पुराणेऽस्मिन् सर्वाण्यपि ज्ञातव्यवस्तूनि वणतानि, येन तत् ‘भारतीयज्ञानकोषः' इत्यभिधीयते ।

भारतीयैतिहासिकपरम्परया कौटिल्यकृतमर्थशास्त्रं विष्णुधर्मोत्तरं निर्दशति तत्र हि विनेयेभ्यो राजपुत्रेभ्यः पुराणमिममुपदेष्टव्यमिति निदष्टम्।। अर्थशास्त्रञ्चेदं चन्द्रगुप्तराज्यकालिकमिति ततः पूर्वं पुराणरचनं सिद्धयति । विष्णुधर्मोत्तरपुराणे एव मौर्यवंशस्य प्रामाणिक विवरणं लभ्यते । तदिमानि सर्वाणि तत्त्वानि पुराणस्यास्य चन्द्रगुप्तात्पूर्वतनकालेऽस्तित्वं समर्थयन्ते । ईसवीयशतकात् षट्शतकपूर्वतनकालेऽस्य विष्णुपुराणस्यास्तित्वमासीदिति कल्पनाऽपि सत्यानुमोदिता । इदं तु सत्यम् यदस्य पुराणस्यादिमं रूपं सम्प्रति नावाप्यते । पुराणमिदं कदाचिदेकत्र समये नारच्यत, समये-समये तत्राध्याया योजिताः गुप्तकालपर्यन्तं तेषां वर्तमानरूपमुपपन्नमासीत् ।

विष्णुधर्मोत्तरपुराणस्य तृतीयखण्डस्य पञ्चत्रिंशत् अध्यायेष्वलङ्कारशास्त्रीयविषयस्य वर्णनमस्ति । तत्र प्रथमध्याये चित्र सूत्रविधानानुसारेण देवाचैनं विहितम् । तद्यथा -

चित्रसूत्रविधानेन देवता विनिमताम् ।

सुरूपां पूजयेद्विद्वान् तत्र सन्निहिता भवेत् ।।[6]

अस्य खण्डस्य चतुर्दशाध्याये सप्तदशाऽलङ्काराणां वर्णनमस्ति । तद्यथाअनुप्रास-रूपक-यमक-व्यतिरेक-श्लेष-उत्प्रेक्षा-अर्थान्तरन्यास-उपन्यास-विभावनाअतिशयोक्ति-वार्ता-यथासंख्य-विशेषोक्ति-विरोध-निन्दास्तुति-निदर्शन-अनन्वयाश्च एतेष्वलङ्कारेषु पञ्चदशाऽभिनवालङ्काराः सन्ति । अस्यैव सप्तदशाध्याये रूपकानो निरूपणमस्ति । अत्रैव रङ्गे दृश्यनियोजनमप्यस्ति । तद्यथा -

मरणं राज्यविभ्रंशो नगरस्योपरोधनम्,

एतानि दर्शयेन्न तथा युद्धं च पार्थिव ।

प्रवेशकेन कर्तव्यं तेषामाख्यानकं बुधैः ।।[7]

अत्रैव चतुस्त्रिशदध्याये नृत्यस्य महिमावर्णनप्रसङ्गे -

देवताराधनं कुर्यात् यस्तु नृत्तेन धर्मवित् ।

स सर्वकामानाप्नोति मोक्षोपायं च विन्दति ।।

धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा ।

ईश्वराणां विलासं तु चार्तानां दुःखनाशनम् ।

मूढानामुपदेशं तत् स्त्रीणां सौभाग्यवर्णनम् ॥[2]

तत्रैव स्थायीसञ्चारीभावयोर्भेदं वर्णयति

बहूनां समवेतानां रूपं यस्य भवेद् बहु ।

स मन्तव्यो रसस्थायी शेषाः सञ्चारिणः स्मृता ।।[3]

भरतमुनेः पश्चात् विष्णुधर्मोत्तरपुराणस्य नामोल्लेखनेऽत्र अलङ्काराणां विकासक्रमे विष्णुधर्मोत्तरस्य द्वितीय स्थानमस्त्येतावतेव नान्यदिति । यतो हि विष्णुधर्मोत्तरपुराणस्यालङ्कारशास्त्रीयभागे नाट्यशास्त्रस्यानेकानि पद्यानि उद्धृतानि सन्ति । येनास्य स्वतः परर्वात्तत्वं सिद्धयति । म० म० काणेमहोदयस्तु स्व ‘हिस्ट्री आफ संस्कृत पोयेटिक्स' नामकग्रन्थे विष्णुधर्मोत्तरस्य काव्यशास्त्रीयभागम् षष्ठशतकात् प्राचीनतरं मन्यते ।

भट्टिकाव्यम् सम्पादयतु

( नवीनालङ्काराः २१+१७ ) व्याकरणसम्बन्धिपदप्रयोगनियमानां ज्ञानायान्यशास्त्रीयज्ञानसौलभ्याय च भट्टिकाव्यं प्रसिद्धतरमस्ति -

दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम् ।

हस्तादर्श इवान्धानां भवेद् व्याकरणादृते ॥[4]

काव्यमिदं भट्टिस्वामिना प्रणीतम् । तन्नाम्नैव चास्य प्रसिद्धिरपि जाता । अस्य काव्यस्य रचयितुः समयः भट्टिस्वामिना स्वयमेव स्वग्रन्थे लिखितम् -

काव्यमिदं लिखितं मया बलभ्यां श्रीधरसेननरेन्द्रपालितायाम् ।

कीत्तरतो भवतान्नृपस्य तस्य क्षेमकरः क्षितिपो यतः प्रजानाम् ॥[5]

अनेनास्य काव्यस्य रचना श्रीधरसेनर्नामकनृपस्य प्रशासनकाले सौराष्ट्रस्य राजधान्यां बलभीनामकनगर्यामेवाभवत् । अतः भट्टिस्वामिनः समयं निश्चेतं बलभीनृपतेः श्रीधरसेनस्य समयस्य निर्धारणमावश्यकम् । सौराष्ट्र श्रीधर सेननामकाश्चत्वारो राजानः ५०० ई० तः ६५० ई० पर्यन्तमजायन्त, तेषु कत -मस्य श्रीधरसेनस्य समये भट्टिः जायतेति निश्चेतव्यम् । म. म. पी. वी. काणे महोदयमतानुसारेण महाकविभट्टिस्वामिना प्रथमश्रीधरसेनस्य नाम निजमहाकाव्ये निदष्टः । तेनास्य कालः षष्ठशतकस्योत्तराद्धेऽनुमीयते । श्रीधरसेनद्वितीयस्यैकः शिलालेखः प्राप्यते, यत्र भट्टिनाम्ने विदुषे राज्ञा कृतस्य भूमिदानस्य वार्ता मिलति । यद्ययं भट्टि: भट्टिकाव्यस्यैव प्रणेता तदा तस्य समयः ६१० ई० मन्तुं शक्यते । अलङ्काराणां विकासक्रमदृष्ट्याऽस्य कवेः ४७० ई० तः ५७० ई० पर्यन्तमेव निश्चितं भवति । अन्यकल्पनायामपि अलङ्कारविकासक्रम दृष्ट्या षष्टशतकाद्ध्र्वं नानेतुं योग्यः ।

अत्र काव्ये द्वाविंशतिः सर्गाः येषु संहत्य १६२९ मिताः श्लोकाः विद्यन्ते । अस्य काव्यस्य निर्माणउद्देश्यं मनोविनोदेन सह संस्कृतव्याकरणस्य ज्ञानमिति । तत्र प्रथमप्रकीर्णकाण्डे १-५ सर्गाः सन्ति । द्वितीयेऽधिकारकाण्डे ६ तः ९ सर्गाः, तृतीयप्रसन्नकाण्डे १० तः १३ सर्गाः, चतुर्थतिङन्तकाण्डे १४-२२ सर्गाः सन्ति । प्रसन्नकाण्डे एवानेन काव्यशास्त्रीयविषयस्य प्रतिपादनं कृतः । दशमसर्गेऽनेनाष्टत्रिंशदलङ्काराणां प्रदर्शनं कृतः, येषु द्वौ शब्दालङ्कारौ स्तः । एकादशसर्गे माधुर्यगुणस्य तथा द्वादशसर्गे भाविकाऽलङ्कारस्योदाहरणानि च सन्ति । त्रयोदशसर्गस्य पञ्चाशत् श्लोकेषु भावसमस्योदाहरणान्यनेन प्रस्तुतानि । भट्टिस्वामिनैकविंशतिः अभिनवालङ्काराणां सप्तदशपूर्वप्रतिपादितालङ्काराणां निरूपणं कृतः ।

भट्टिकाव्यमिदं किमपि प्राचीनमीदृशं काव्यमालोक्यैव प्रणीतवान् । पातजलमहाभाष्ये कतिपयानि व्याकरणप्रयोगपराणि पद्यान्युधृतानि सन्ति । तेन ज्ञायते यत् पतञ्जलेरपि समये किमपि तादृशं काव्यमासीत् । तदेव किमपि काव्यमाधारीकृत्य भट्टिना स्वकाव्यं विरचितं स्यात् । भट्टिकाव्यस्य निम्नलिखितः श्लोकस्तु एकावलीनामकस्यालङ्कारस्य प्रसिद्धमुदाहरणम् -

न तज्जलं यन्न सुचारूपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् ।

न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ।।

अस्य काव्यस्यादिमेषु चतुषु सर्गेषु प्रकीर्णविषयाः सन्ति । तदनु त्रयोदशसर्गान्तमलङ्काराणां निवेशः, ततो द्वाविंशं सर्गं यावत् लकारप्रयोगाश्चेति सर्वात्मना काव्यशास्त्रमिदम् । किञ्चालङ्कारशास्त्रीयविषयाणां निरूपणादेवात्र भट्टिरलङ्कारशास्त्रस्याचार्य रूपेण निर्दष्टोऽस्ति।

काव्यालङ्कारः सम्पादयतु

( नवीनालङ्कारौ २+३६= ३८ ) भामहः काश्मीरदेशे समुत्पन्नः प्रसिद्धो विद्वानासीत् । तदेतत् ‘काव्यालङ्कार' ग्रन्थस्य ‘सुजनावगमाय भामहेन ग्रथितं रक्रिलगोमि सूनुनेदम्' इति श्लोकेन परिबोध्यते । गोमिपदं बौद्धसाहित्ये बाहुल्येन प्रयुज्यते चन्द्रगोमीत्यादिवतएन चन्द्रगोमिनं केचित् ‘रक्रिलगोमिनो भ्रातरमाहुः । अतोऽयं बौद्ध इति, किञ्च स्वीयस्य काव्यालङ्कारस्यारम्भेऽयं सार्वसर्वज्ञस्य स्तुति कृतवानतश्च बौद्धोऽयमिति बहुभिः सन्दिह्यते । वस्तुतस्त्वयं हिन्दूधर्मावलम्बी आसीत् यतोऽनेन यागादीनां सोमपानस्य च रामायणीपात्राणाञ्च प्रशंसा यथाप्रसङ्गं कृता । नैतावदेव, अपोहवादस्यालोचनापीमं हिन्दूधर्मावलम्बिनं गमयति । अनेनालङ्कारशास्त्रविषयकः कश्चिद्ग्रन्थो विरचित आसीत्, यस्य विवरणं विदुषा भट्टोद्भटेन कृतम् । यस्य च नाममुद्रिते' पुस्तके 'काव्यालङ्कारः' इत्येव लभ्यते । तदेतदुक्तमुद्भटालङ्कारसारसंग्रहे लघुवृत्तौ प्रथमे वर्गे प्रतीहारेन्दुराजेन–‘स्पष्टमिदं भामहविवरणे भट्टोद्भटेन कृतम्' इति । अयं हि भामहूः प्राचीनतरः अतएव प्रतापरुद्रयशोभूषणे विद्यानाथेनोक्तम् -

पूर्वेभ्यो भामहादिभ्यः सादरं विहिताञ्जलिः ।

वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसङ्ग्रहम् ॥ इति ।

अलङ्कारसर्वस्वे रुय्यकेणाप्युक्तम्-‘भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः इति । ध्वन्यालोकलोचने द्वितीयोद्योते-‘ध्वन्यात्मभूते शृङ्गारे०' इति कारिकाया वृत्तिव्याख्यानावसरे ‘उक्तः' इति प्रतीकमुपादायाभिनवगुप्तपादाचार्यंरप्युक्तम्--‘भामहादिभिरलङ्कारलक्षणकारैः' इति । अपि च काव्यप्रकाशस्य दशमोल्लासे कारणमालाऽलङ्कारस्यान्तिमे वृत्तिग्रन्थे-‘इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलङ्कारकल्पनया' इत्येवंरूपे ‘समाम्नासिषुः' इतिपदमुपादाय ‘प्राञ्चो भामहादयः' इति शेषमुपयोजितवन्तः टीकाकाराः । भामहस्य प्राचीनतरत्वादेव मम्मटभटेनापि स्वोक्तेऽर्थे सम्मतिं दर्शयितुं षष्ठोल्लासे 'रूपकादिरलङ्कारः' इत्यादिः, देशमोल्लासे विषमालङ्कारस्थले च ‘सैषा सर्वत्र वक्रोक्तिः' इत्यादिश्च भामहस्य ग्रन्थ उपन्यस्तः ।

भामहस्य समयः कः ? इति विषये महान् मतभेदो विद्यते । दण्डिभामयोः कः पूर्ववर्तीति निर्णयोऽत्र प्रकाशमाधातुमलम् । सौभाग्येनाधुना दण्डी भामहात् परवर्ती एव स्वीकृतो विद्वद्भिः। तेहि, दण्डी सप्तमशतकप्रारम्भकालिको मतस्ततश्च भामहस्य षष्ठशतकवतत्वं स्वतः सिद्धयति । अष्टमशतकोद्भवो' भट्टोद्भटो भामहकृतस्य काव्यालङ्कारग्रन्थस्य व्याख्यां कृतवान्, अतो भट्टोद्भटात् पूर्वकालिकतामपि पूर्वोक्तमतेऽनुकूलतां भजते । भामहं दिङ्नागात् परवर्ती तथा धर्मकीत्तबाणभट्टयोः पूर्ववर्तीति निर्णयोऽत्र समुचितमेव । दिङ्नागस्य समयः ५०० ई० अस्ति तथा धर्मकीतिस्तु सप्तमशतकस्य पूर्वार्द्धवर्ती आसीत् । बाणस्तु हर्षवर्द्धनस्य राजकविरासीत् । हर्षवर्द्धनस्य समयस्तु इतिहासप्रसिद्ध एवेति । बौद्धदार्शनिकेन दिङ्नागेन प्रत्यक्षस्य लक्षणं कृतः-- ‘प्रत्यक्ष कल्पनापोढं नाम जात्याद्यसंयुक्तम्' भामहेन स्वकाव्यालङ्कारस्य पञ्चमपरिच्छेदे न्यायनिर्णयस्य वर्णनप्रसङ्ग लिखितः---

प्रत्यक्ष कल्पनापोढ ततोऽर्थादिति केचन

कल्पनानामजात्यादियोजनां प्रतिजानते ।।[6]

भामहेन दिङ्नागस्य प्रत्यक्ष कल्पनापोढमित्यंशं यथावदुधृतम्, किञ्च धर्मकीत्तस्तु स्वकीयन्यायविन्दौ दिङ्नागोक्तप्रत्यक्षलक्षणे किञ्चित् संशोधनं कृतवान् ‘कल्पनापोडं भ्रान्तं प्रत्यक्ष निवकल्पम्' अनेन ज्ञातो भवति यद्भामहम् धर्मकीत्तेः प्रत्यक्ष लक्षणस्य ज्ञानो नासीत् । तेन हि भामहः दिङ्नागात् पश्चात् एवं धर्मकीत्तेः पूर्ववर्ती आसीत् । आनन्दवर्धनस्याप्युल्लेखेन सिद्धो भवति यत् भामहस्य समयः बाणात्पूर्वमेवासीत् । ध्वन्यालोकस्येकेन प्रसङ्गेन स्पष्टो भवति तद्यथा -

दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् ।

सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ।।[7]

उदाहरणेन स्पष्टं करोत्यानन्दवर्धनः-‘तथाहि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यप्रकार-समाश्रयेण नवत्वम् । यथा—धरणीधरणायाधुनात्वं शेषः इत्यादौ--

शेषो हिमगिरिस्त्वं च महान्तो गुरुवः स्थिराः ।

यदलङ्घितमर्यादाश्चलन्तीं विभ्रते भुवम् ॥

इत्यादिषु सत्स्वपि । तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्गयसमाश्रयेण नवत्वम् । आनन्दवर्धनाभिमते ‘शेषो हिमगिरिस्त्वमित्यादि प्राचीनं वाक्यं भामहस्य काव्यालङ्कारे ( ३।३७ ) अस्ति तथा च ‘धरणीधारणायाधुनात्वं शेषः' इदं नवीनं वाक्यं हर्षचरितस्य चतुर्थउच्छ्वासे १५ अनुच्छेदेऽस्ति । तेन हि स्पष्टो भवति बाणभट्टात् भामहः प्राचीनोऽस्ति । अतोऽनेन ६०० ई० तः पूर्वमेव भामहस्य समयो निश्चितः । केचन पाश्चात्या विद्वांसो भामहकृतौ न्यासपदप्रयोगं दृष्ट्वा भामहं जिनेन्द्रबुद्धेन्यसकारात् परर्वात्तनं मत्वा सप्तमशतकपरर्वात्तत्वमातिष्ठन्ते, परमिदं निर्मलम् अन्येषामेव न्यासग्रन्थस्य भामहेन स्मृतत्वस्य कल्पनीयत्वात् । धर्मकीत्तिदिङ्नागयोर्मध्यकालिकोऽयमिति तदीयप्रत्यक्षलक्षणं दृष्ट्वा कथयन्तो षष्ठशतकमध्यवर्त्तत्वमाहुः अतः विद्वांसो भामहे षष्ठशतकमध्यर्वात्तनमेवाहुः ।

अलङ्कारशास्त्रं कदा केन प्रथमाविष्कृतमिति प्रश्नस्योत्तरविचारे भरतस्य नाट्यशास्त्रमेवालङ्कारशास्त्रस्यादिमं मूलमिति यद्यपि वक्तुं शक्यम् तथापि लौकिककाव्यादिषु तेषामलङ्कारादीनां विषयाणां चिन्तनस्य प्रथा प्रथमं भामहेनैव प्रवत्तता स्यात् ततः प्राचीनस्यान्यस्यानुपलम्भादिति बहूनां विश्वासः । यद्यपि भामहस्य मतमतिचिरन्तनं तथाऽपि प्रामाणिका सर्वेप्याचार्यास्तं प्रमाणयन्ति विषयविशेषेषु । भामहेन विरचितः ‘काव्यालङ्कार'नामा एक एव ग्रन्थः प्राप्यते । वृत्तरत्नाकरे भामहनाम्ना लभ्यमानैः श्लोकैरनुमीयते यदनेन कोऽपि छन्दो ग्रन्थोऽपि व्यरच्यत । भामहेन वररुचिकृते प्राकृतप्रकाशे विवरणमप्येक लिखितं प्रकाशितं चानेकै र्मुद्रणालयैरूपलभ्यते । काव्यालङ्कारे षट्परिच्छेदाः । प्रथमे परिच्छेदे काव्यसाधनतल्लक्षणतद्भ दा वणताः । द्वितीये तृतीये चालङ्कारा विवेचिताः । चतुर्थे भरतोक्ता दशदोषाः प्रपञ्चिताः । पञ्चमे न्यायविरोधि दोषो मीमांसितः । षष्ठे विवादास्पदपदशुद्धिः विचारिताः । संहृत्यात्र ४०० श्लोकाः । भरतादनन्तर मयमेव ग्रन्थोऽलङ्कारशास्त्रस्य सर्वमान्यः । काव्यालङ्कारेशब्दार्थयुगलस्य काव्यत्वम्, भरतोक्तदशगुणानां माधुयजः प्रसादेष्वन्तर्भावः, वक्रोक्तेः सकलालङ्कारमूलत्वमिति विशिष्टसिद्धान्ताः । दण्डिनाऽप्यस्य ग्रन्थस्य वह्ननुकृतम् । भामहस्येयं प्रशंसा विश्रूयते -

‘आलङ्कारिक' इत्याख्या भामहात् भामविन्दत ।

तस्या द्विवचनं जातं जाते दण्डिनि पण्डिते ।। इति ।

काव्यादर्शः सम्पादयतु

(६६०-७२० ई० ) । ( त्रयोऽभिनवालङ्काराः ३+३४= ३७ )

जाते जगति वाल्मीको कविरित्यभिधाऽभवत् ।

कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ।।

अलङ्कारशास्त्रस्यायं प्रसिद्ध आचार्यः काव्यादर्शस्य रचयिता । अलङ्कारशास्त्रीयलेखकेषु दण्डी स्वं विशिष्ट स्थानं रक्षति । अस्य महापुरुषस्य वासदेशस्य निर्णयेऽनुक्रम्यमाणे अवन्तिसुन्दरी कथा एव प्रमाणम् तदनुसारेण दण्डिनः पूर्वपुरुषाः गुर्जरप्रान्तस्थिते आनन्दपुरेऽतिष्ठन् । ततस्ते दक्षिणदेशावस्थिते सम्प्रति एलिचपुरसंज्ञया प्रथमानमचलपुरं नाम स्थानमायाताः, तदेवं क़वेर्दाक्षिणात्यभावः सिद्धयति । काञ्ची-काबेरी-चोल-कलिङ्ग-मलयानिलप्रभृतिदक्षिणप्रसिद्धस्थानादीनां दण्डिना कृतो भूयसोल्लेख एव प्रामाण्यतयाऽत्रोपस्थाप्यते । दण्डिनो दाक्षिणात्यत्वे इदमपि प्रमाणान्तरमुपन्यस्यते यत् काश्मीरदेशभवा आलङ्कारिको दण्डिनो मतं प्रायशो नोदधृतवन्तः, तन्मतं नालोचितवन्तः । अतः सुदूरदक्षिणवासित्वं 'निश्चीयते । कौशिकगोत्रोद्भवोऽयं स्वप्रपितामहस्य भारवेराश्रयदातुनू पस्याश्रये काञ्चीनगरे वसतिस्म । काञ्चीराजे शत्रुभिराक्रमणेन पराभूतोऽयं काननेषु निलीय स्थितः । सोऽयं विप्लवः ६५५ तमे खीष्ट्राब्दे बभूव । तदा दण्डी बाल एवाऽसीत् । एतेन दण्डिनः कालोऽपि प्रकाशमानीयते । दण्डिनो वास्तविक नाम न ज्ञायतेऽद्यापि । यथा भवभूतेर्माघस्य च नामविषये श्रूयते, तथैव ‘ब्रह्माण्डच्छत्रदण्डः' इत्यादि दशकुमारमङ्गलाचरणस्य दण्डपदप्रयोगेण दण्डिनाम्नायं ख्यातः ।

दण्डिनः समयनिरूपणे निम्नलिखित विषया ध्यातव्या भवन्ति । खीष्ट्रदशमशतकोत्पन्नोऽभिनवगुप्तः लोचननामके स्वग्रन्थस्य तृतीयोद्योते सप्तमकारिकायां लिखति–'यथाह दण्डी–गद्यपद्यमयीचम्पू ख्रीष्टदशमशतकपूर्वार्द्धसमुद्भूतेन प्रतीहारेन्दुराजेनोद्भटरचितस्य काव्यालङ्कारसारसंग्रहस्य लघुवृत्तौ , लिखितम्-‘अत एव दण्डिना -

लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।

असत्पुरुषसेवेव दृष्टिनिष्फलतां गता ॥

कन्नडभाषायां 'कविराजमार्ग' नामक एको ग्रन्थः राष्ट्रकूटराजकुमारेण अमोघवर्षेण लिखितः । सः स्पष्टभावेन काव्यादर्शमाधारीकृत्य प्रणीत इति प्रतीयते । कविराजमार्गनामकस्य तस्य ग्रन्थस्य रचनाकालः ८१५ ख्रीष्टाब्दतः ९०५ खीष्टाब्दमध्यवर्ती मन्यते । सिंहलभाषायां प्रथमराजसेनः सियासलकारा (स्वभाषाऽलङ्कार) नामकमेकं ग्रन्थं प्रणीतवान् । महावंशानुसारेण तस्य ग्रन्थस्य रचनाकालः ८४६ ख्रीष्टाब्दतः ८६६ ख्रीष्टाब्दो वर्तते । तस्मिन् ग्रन्थे न केवलं काव्यादर्शस्य प्रभावो लक्ष्यतेऽपितु तत्र काव्यादर्शस्य नामाप्युल्लिख्यते । काव्यदर्शस्याधारेण निर्मितोऽयं ग्रन्थ इति डॉ० वार्नेटेन ‘जर्नल आफ द रायल एशियाटिक सोसायटी' नाम्नि पुस्तके निर्णीतम् । हेत्वतिशयोक्त्यादिषु तु पूर्वरूपेण दण्डिन एव साम्यमवलोक्यतेऽतो नवमशताब्द्याः पूर्ववर्यैवायमित्यत्र न कश्चन सन्देहलेशः । काव्यादर्शीय -

अरत्नालोकसंहार्यमवार्य सूर्यरश्मिभिः ।

दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।।

इति पद्ये बाणभट्टकृतकादम्बर्या चन्द्रापीडाय शुकनासोपदेशे विद्यमानगद्यस्य छाया समापतति । अपि चाग्र तत्रैव -

भिन्नतीक्ष्णमुखेनाऽपि चित्र बाणेन निर्व्यथः ।

व्याहारेषु जही लीलां न मयूरः•••••••••••• ।।

इति पद्येन मयूरभट्टेन सह बाणस्याऽपि प्रशस्तप्रशंसा कृता । सप्तमशतकपूर्वार्द्ध विद्यमानस्य वाक्यकर्तुः भर्तृहरेरनुसारेण काव्यादर्शे दण्डिना प्राप्यनिर्वयंविकार्य हेतूनां विभागः कृतः । एवञ्च सप्तमशताब्द्याः पूर्वार्द्ध एव वर्तमानस्य महाकवेर्बाणस्यानन्तरं सप्तमशतकान्ते तथाऽष्टमशतकप्रारम्भ एव दण्डिनः समयः ।

वामनेन काव्यालङ्कारसूत्रे यस्या रीतेः काव्यात्मत्वमास्थाय विस्तृता । विवेचना कृता सा रीतिर्दण्डिनः काव्यादरें वणिता मार्गपदेन । दण्डिप्रकाशितो मार्ग एव वामनेन रीतिरुक्ता, अतो दण्डी वामनपूर्ववत्ततया स्वीकर्तव्यो भवति । वामनस्य कालश्च ७७९ ख्रीष्टाब्दतः ८१३ ख्रीष्टाब्दो मन्यते ।

नीलोत्पलदलश्यामां विज्जिकां मामजानता ।

वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती ॥

इति विज्जिकानामकस्त्रीकवेरुक्तिः प्रसिद्धाः । यदीयं विज्जिका द्वितीयपुलकेशिनो ज्येष्ठसुतस्य चन्द्रादित्यस्य विदुषी पत्नी विजयभट्टारिका एवं तदा तस्याः समयः ६६० तमाब्दनिकटस्थित एव ।

एभिः प्रमाणैर्दण्डिनः समयस्य परिसीमा अष्टमशतकमितिमन्तव्यं भवति । वासवदत्ता नामके सुबन्धुप्रणीते प्रसिद्ध गद्यग्रन्थे–'छन्दोविचितिरिव कुसुमविचित्रा', 'छन्दोविचित्तिरिव मालिनी सनाथा' ईदृशं गद्यमस्ति । 'छन्दो• विचित्यां सकलस्तत्प्रपञ्चः प्रदशितः' इति दण्डिनो वाक्येन ‘छन्दोविचिति' नामकग्रन्थस्य दण्डिकृतित्वमास्थातुं शक्यते । तस्य ग्रन्थस्य सुबन्धुना स्मृतत्वे दण्डिनः सुबन्धु पूर्वत्वमायाति । एतेन दण्डिनः समयस्य पूर्वसीमा षष्ठशतकमिति मन्तव्यं भवति । सर्वमुपरितनं सन्दर्भ विभाव्य मैक्समूलर-बेवर-मैकडोनल-याकोविप्रभृतयः पाश्चात्या विद्वांसोऽपि दण्डिनः समयः सप्तमशतकस्योत्तरार्द्ध ( ६६० ई० ) तथाऽष्टमशतकस्य पूर्वाद्धे ( ७२० ई० ) एवं निर्णीताः ।

त्रयोऽग्नयस्त्रयो वेदास्त्रयोदेवास्त्रयो गुणाः ।

त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ।।[6]

एतदुक्तिमनुसृत्य 'काव्यादर्शः ‘दशकुमारचरितम्' ‘अवन्तिसुन्दरीकथा' इति त्रयो ग्रन्था दण्डिनः कथ्यन्ते । ये तु 'छन्दोविचिति' नामकमपि दण्डिग्रन्थमेव कथयन्ति तन्न युक्तम् । छन्दोविचितिशब्दस्य छन्दः शास्त्र परत्वात् । " दण्डिना निजग्रन्थस्य 'काव्यादर्श' इति नाम विधाय भामहापेक्षयाऽधिकचमत्कारः प्रदशितः । एतेन हि काव्यशोभोत्पादकानेवालङ्कारान् ( काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ) मत्वा गुणानां विशेषमहत्ता प्रदर्शिता । यदपि भामहोऽपि गुणानङ्गीकरोत्येव परन्तु दण्ड्यपेक्षया स्वल्पमेव प्रदर्शितवान् स्वग्रन्थे । अत्र हि यत्र तत्र भामहसिद्धान्तस्य खण्डनमपि दृश्यते अलङ्कारशास्त्रस्यानुयायी ह्ययम् । भामहेन तु गौडीवैदर्भीरीत्योविभाजनं गतानुगतिकन्यायेन समथतम्, किन्तु गौडी-वैदर्भीरीत्योः पारस्परिकभेदसम्बन्धः सर्वप्रथम स्पष्टतया प्रदर्शनस्य श्रेयः अस्मिन्नेव विद्वद्वरे इत्यवगन्तव्यम् ।

एतदीयः 'काव्यादर्शः' परमलोकप्रियो ग्रन्थो यतोऽस्य कन्नडभाषायां ‘कविराजमार्ग' नाम्ना, सिंहलभाषायाञ्च ‘सियवसलका' नाम्नानुवादः कृतः । अत्र ग्रन्थे ४ परिच्छेदाः ६६० श्लोकाः सन्ति । प्रथमपरिच्छेदे-काव्यलक्षणम् तस्य विस्तृतभेदाः, गौडी-वैदर्भीरीत्योर्दशगुणानां सविस्तर वर्णनम् । द्वितीयपरिच्छेदे—सुन्दररूपेण सप्तत्रिशदलङ्काराणां लक्षणोदाहरणानि, तत्रोपमालङ्कारस्यानेकभेदाः निरूपिताः । तृतीयपरिच्छेदे-शब्दालङ्काराणां मध्ये विशेषतया यमकालङ्कारस्य व्यापकरूपेण वर्णनम् । चतुर्थपरिच्छेदे–दशविधदोषाणां लक्षणोदाहरणानि प्रदर्शितानि । अयमलङ्कारसम्प्रदायस्थोऽपि रीतिविवेचकतया ख्यातः । त्रयोऽभिनवालङ्काराः-३+ ३४= ३७ अलङ्काराः ।

काव्यालङ्कारसारसंग्रहः सम्पादयतु

( ७५०-८५० ई० ) ( अभिनवालङ्काराः षट् ६+ ३५ = ४१ )

विद्वान् दीनारलक्षेण प्रत्यहं कृतवेतनः ।

भट्टोऽभूदुद्भटस्तस्य भूमिभर्तुः सभापतिः ।।[7]

अयं हि भट्टोद्भट इति उद्भटभट्ट इति उद्भटाचार्य इति व्यपदिश्यते । अयं हि विद्वान् काश्मीरदेशे जनिमलभत । उपर्युक्त राजतरङ्गिण्याश्चतुर्थतरङ्गस्थे ४९५ संख्याके श्लोके कल्हणवचनाज्ज्ञायते यदयं विद्वान् सवेतनः काश्मीराधिपतेर्जयापीडस्य राज्ञः सभायाः पतिरप्यासीत् । तस्य राज्ञः राज्यकालः ख्रीष्ट ७७९ वत्सरमारभ्य ८१३ वर्षपर्यन्त इति तत्कालभवत्वं तत्सभापतेरस्य भट्टोद्भटस्येति राजतरङ्गिणीतो निश्चीयते । तत्र प्रतिदिनं चास्य वेतनं दीनारशतलक्ष्यम् (एककोटिस्वर्णमुद्रा) आसीदिति तत एव ज्ञायते । यदीदं पूर्णतस्तथ्य तदायं महान् धनाढ्यो भाग्यशाली चेति निश्चप्रचम् । अवगतानेकशास्त्रतत्त्वोऽपि मुख्यतयाऽयं वैयाकरणः अतएवाऽनेन -

‘क्रियायाः प्रतिषेधेऽपि यत फलस्य विभावनम् । ज्ञेयाविभावना।' इति विभावनाऽलङ्कारलक्षणे ‘कारणस्य निषेधेऽपि' इति प्रयोक्तव्ये कारणपदस्थाने क्रियापदं प्रयुक्तम् । ‘अलङ्कारसर्वस्व' ग्रन्थे राजानकरुय्यकेन 'अलङ्कारविमशिनी' नामिकायां तट्टीकायां तु जयरथेन प्रोक्ताद् ‘भट्टोद्भटादिभिः कारणपदस्थाने क्रियाग्रहणं कृतम् वैयाकरणैः क्रियाफलमेव कार्यमित्यभ्युपगमात्' इति वचनात् प्रतीयते ।

किञ्चालङ्कारशास्त्रस्य विकासक्रमे विचार्यमाणे राजानकरुय्यक उद्भटभट्टस्य मतं विवेचयन्नाह -

‘उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम्, विषयमात्रेण भेदप्रतिपादनात् संघटनाधर्मेण चेष्टेः' इति ।

असौ वामनसमकालिकः । वामनो जयापीडराजाश्रित एवासीदिति सजतरङ्गिणीत एव प्रतीयते । तद्यथा---

मनोरथः शङ्खदत्तश्चटकः सन्धिमांस्तथा ।

बभूवुः कवयस्तस्य वामनायाश्च मन्त्रिणः ॥[१]

एकस्यैव राज्ञ आश्रये विद्यमानयोरपि वामनोद्भटयोः साहित्यक्षेत्र प्रतिस्पधत्वं प्रतीयते । यदि वामनो रीतिसम्प्रदायस्योन्नायकस्तदा चोद्भटोऽलङ्कारसम्प्रदायस्य पृष्टपोषक आसीत् । वामनो जयापीडनाम्नः काश्मीरराजस्य राष्ट्रकूटवंशस्य गोविन्दतृतीयस्य च सभापण्डितः सचिवान्यतमश्चासीत् । जयापीडस्य शासनकालश्च ७९४-८१३ ई० मन्यतेऽतोः उद्भटस्य वामनसमकालिकत्वात् अष्टमशतकस्योत्तरार्द्धभागो नवमशतकस्य पूर्वार्द्धभागश्च निश्चीयते।

उद्भटः ‘अलङ्कारसारसंग्रह'-नामकमलङ्कारग्रन्थं जग्रन्थ यस्योपरि प्रतिहारेन्दुराजनामकेन विदुषा विरचिता वृत्तिरद्यापि उपलभ्यते । तस्यां वृत्ती प्रतिहारेन्दुराजस्य ‘अनेन ग्रन्थकृती भट्टोद्भटेन स्वोपरिचितकुमारसम्भवैकदेशोऽत्रालङ्कारसारसंग्रहे उदाहरणत्वेनोपन्यस्तः' इति लेखेन ज्ञायते यत् कुमारसम्भवनामा कालिदासीय कुमारसंभव व्यतिरिक्तः कश्चित् काव्यप्रबन्धोऽप्यनेन विरचित इति । माणिक्यचन्द्रसरस्वतीतीर्थ भट्टवामनप्रभृतिभिष्टीकाकृभिरुदाहृतः -

"या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता।

तपसा तां सुदीपॅण दूराद् विदधतीमधः ॥"

इत्येष गौरीस्तुतौ प्रयुक्तः ‘तपसा' इति माघमासकृच्छचान्द्रायणरूपार्थद्वये श्लिष्टेन विशेषणेनौपम्याक्षेपे जायमानस्य व्यतिरेकस्योदाहरणत्वेन समुपन्यस्तः कश्चिच्छ्लोकोऽपि समुपलभ्यते ।

भट्टोद्धटप्रणीतो ‘भामहविवरण' नामा व्याख्या ग्रन्थोऽपि लोचनादौ स्मर्यंते । तद्यथा-‘भामहोक्तं शब्दछन्दोऽभिनार्थः' इत्यभिधानस्य शब्दाद भेदं व्याख्याते ‘भट्टोद्भटोवभाषे।' अलङ्कारसारसंग्रहलघुवृत्तिटीकायामपि‘विशेषोक्तिलक्षणे च भामहविवरणे भट्टोद्धटेन ‘एकदेश' शब्द एव व्याख्यातो यथैवास्माभिनिरूपितः ।'

उद्भटप्रणीते काव्यालङ्कारसारसंग्रहे षड्वर्गाः ७९ कारिकाश्च यत्र षट् नवीनालङ्काराः पञ्चत्रिशत्पूर्वाख्याताः इति सङ्कलनेन एक चत्वारिंशदलङ्काराः निरूपिताः । भामहवदलङ्कारसम्प्रदायानुयायी भूत्वाप्ययं भामहात् कतिपय सिद्धान्तेषु पार्थक्यं स्वस्मिन् प्रदर्शयति । तथाहि विशिष्टसिद्धान्तो ह्यस्य -

( १ ) अर्थशब्देन तावत् शब्दा भिद्यन्त इति ।

( २ ) श्लेषस्य शब्दार्थभेदेन द्वौ भेदौ, किन्तुभयोरप्यर्थालङ्कारत्वम् । एतस्यैव विशिष्टरूपेण खण्डन मम्मटेन काव्यप्रकाश नवमोल्लासे विश्वनाथेन दशमपरिच्छेदे च कृतम्

( ३ ) ध्वन्यालङ्कारयोगे श्लेषस्य प्रबलता

( ४ ) वाक्यस्य त्रिप्रकारेणाभिधाव्यापारः

(५) विचारितसुस्थाविचारितरमणीय इत्येवं रूपेणार्थस्य द्विविधकल्पना

( ६ ) गुणानां सङ्घटना धर्मत्वम् । अनेन वाक्ये त्रिधाऽभिधाव्यापारः, अर्थद्वैविध्यं चेत्यादयो विषया नूतनतया सिद्धान्तिताः ।

वामनकाव्यालङ्कारसूत्रम् सम्पादयतु

(७८०-८८० ई० ) ( द्वौ नवीनाऽलङ्कारौ त्रिंशद् पूर्वोक्ता=३२ ) प्रसिद्ध आलङ्कारिको वामनः काश्मीरेषु जन्माससाद । वामनोऽयं काश्मीरनरेशस्य सचिव आसीत् । जयापीडस्य समयोऽष्टमशतकस्यान्तिमो भागः । तथा चोक्तम् -

मनोरथः शङ्खदत्तश्चटकः सन्धिमांस्तथा ।

बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥

अनेनासौ जयापीडनाम्नः काश्मीरराजस्य सभापण्डित आसीत् । जयापीडस्य शासनकालस्तु ७७९ ख्रीष्टाब्दतः ८१९ ख्रीष्टाब्दपर्यन्त आसीत् । वामनः कदाचिद् राष्ट्रकूटवंशस्य तृतीयगोविन्दस्य सचिवान्यतमोऽप्यभूत् । गोविन्दस्य शासनकालस्तु ७९४ ख्रीष्टाब्दतः ८१३ ख्रीष्टाब्दपर्यन्तो मन्यते । अतः वामनस्यापि समयोऽष्टमशतकस्यान्तिमो भागः ( ७८० ) तथा नवमशतकस्य चरमभागः ८८० निर्गीयते ।

अभिनवगुप्तपादाचार्यों ध्वन्यालोकलोचने 'वामनाभिप्रायेणायमाक्षेपः भामहाभिप्रायेण तु समासोक्तिरित्यमुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरिदमेकमेवोदाहरणं व्यतरद् ग्रन्थकृदिति' वामनं स्मरति । अतश्च ख्रीष्टाब्ददशमशतकभवात् अभिनवगुप्तपादाद्वामनस्य पूर्ववर्त्तत्वं स्वतः समायाति । किञ्चायं वामनः कादम्बरीम्, उत्तररामचरितम्, शिशुपालवधम् चोदाहरति, अतस्तद् ग्रन्थकर्तृभ्यो बाणभवभूतिमाघेभ्यः परवत्तत्वमस्य सिद्धयति । एवञ्चाभिनवगुप्ताद-बाणादिमध्यकालवत्तत्वेन वामनस्य पूर्वोक्तसमयवत्तत्वं सर्वथा समर्यते ।

वामनेन काव्याऽलङ्कारसूत्रनामा ग्रन्थोऽग्रन्थि । तस्य वृत्तिरपि तेन स्वयमेव कृता । तद्यथा -

प्रणम्य परमं ज्योतिर्वामनेन कविप्रिया ।

काव्यालङ्कारसूत्राणां स्वेषां वृत्तिविधीयते ।।[२]

अस्मिन्ग्रन्थेऽलङ्कारशास्त्रस्य सर्वेऽपि विषयाः सूत्रैरेवोक्ताः । ग्रन्थेऽस्मिन् पञ्चाध्यायाः ३१९ सूत्राणि च सन्ति । अत्राध्याया अधिकरणशब्देन व्यवहृता । प्रथमेऽधिकरणे काव्यतत्प्रयोजनरीतयो निरूपिताः, द्वितीये पदवाक्यवाक्यार्थदोषाः निरूपिताः, तृतीये गुणविवेचना कृता यत्र दशगुणानां शब्दार्थवृत्तितया विंशतिविधिश्वोक्ता, चतुर्थे शब्दार्थाऽलङ्काराः, पञ्चमे कतिचनाशुद्धयो निर्दिष्टाः ।

काव्यालङ्कारसूत्रग्रन्थस्य प्राचीनष्टीकाकारः सहदेवः कथयति यद् ‘वामनस्य कृतिर्नष्टाऽभूत्, सम्प्रति यो ग्रन्थः प्राप्यते, तदुद्धारो मुकुलभट्टेन कृत' इति । वामनस्य विशिष्टसिद्धान्ताः -

( १ ) गुणालङ्कारयोभिन्नता,

( २ ) रीतेस्त्रैविध्यम्,

( ३ ) वक्रोक्तेर्लक्षणारूपता,

( ४ ) विशेषोक्तेर्लक्षणवैचित्र्यम्,

(५) समग्रस्याप्यर्थालङ्कारप्रपञ्चस्योपमारूपता ।

वामनो रीतिमात्मानं काव्यस्याभिधत्ते । यद्यपि प्राचीना अपि विद्वांसो रीति न्यरूपयन्, परं काव्यात्मतया रीतिर्वामिनेनैवोक्ताः ।

रुद्रटः, तदीयः काव्यालङ्कारः सम्पादयतु

( ८२५-८७५ ई० )। ( पञ्चत्रिशदभिनवालङ्काराः+ एकत्रिंशत्पूर्वोक्ताः=६६ अलङ्काराः )

शतानन्दापराख्येन भट्टवामुक-सुनुना ।

साधितं रुद्रटेनेदं सामाजाधीमता हितम् ।।[३]

नमिसाधोः टीकातः । काश्मीर एव वसतिरस्याऽपि महानुभावस्य । सामवेदी शतानन्दापरनामा रुद्रटः वामुकनामस्य विदुषः, पुत्राश्नासीत् । अनेन प्रणीतस्य काव्यालङ्कारस्य उद्धरणानि राजशेखरेण, भोजराजेन, प्रतिहारेन्दुराजेन च स्वीयग्रन्थेषु दत्तानि तद्यथा राजशेखरेण–‘काकुवक्रोक्तिर्नामशब्दालङ्कारोऽयम् इति रुद्रटः ।' ( का० मी० ७ अ० पृ० ३१ द्रष्टव्यम् । ) अतोऽयं नवमशतकोत्तरभागे अवर्ततेति कल्पना कर्तुं शक्यते । जैकोबी महाशयो रुद्रटं शङ्करवर्मनाम्नोऽवन्तिवर्मपुत्रस्य समसामयिकं मन्यते । अतोऽपि पूर्वोक्त एव समयः सिद्धयति । रुद्रटकृतयस्तिस्रः -

( १ ) काव्यालङ्कारः,

( २ ) शृङ्गारतिलकम,

( ३ ) त्रिपुरवधकाव्यञ्चेति ।

तत्र रुद्रटस्य काव्याऽलङ्कारो विषयविवेचनदृष्ट्या अतीव व्यापकः ।

अत्रालङ्कारशास्त्रस्य समस्तसिद्धान्तानां विस्तृतसमीक्षा कृताऽस्ति । काव्यस्य प्रयोजनोददेश्यकविसामग्रचादि प्रतिपादनानन्तरमलङ्काराणां विस्तृत सुव्यवस्थितञ्च वर्णनं कृतमस्त्यत्र ग्रन्थे । यद्यपि भाषा-रीति-रस-वृत्तीनामपि सम्यक्तया विचारस्तथाप्यलङ्कारसमीक्षणमेव ग्रन्थस्य मुख्योद्देश्यम् । सर्वाणि चोदाहरणानि निजनिमतान्येव । अयमेव हि नवरसातिरिक्तं प्रेयो (वात्सल्य) नामक रसमङ्गीकृतवान् ।

अलङ्कारसम्प्रदायानुयायी चायं रुद्रटः । अलङ्काराणां व्यवस्थाकरणमेव ' ग्रन्थस्य मुख्योद्देश्यम् । सर्वप्रथममलङ्काराणां वैज्ञानिक रूपमनेनैव दत्तम् । अलङ्काराणां वास्तवोपम्य ( औदार्य ) अतिशय-श्लेषाख्यानि चत्वारि मूलतत्त्वानि । ये च भामहोद्भटादिभिरलङ्काराः व्याख्यातास्तेष्वनेकानलकारान् परित्यज्य तदर्थ नूतननामानि ग्रन्थे निर्दिष्टानि सन्ति । यथा भामहस्य यो 'व्याजस्तुतिः अलङ्कारः स रुद्रटस्य 'व्याजश्लेष' इति । पञ्चत्रिशदभिनवालङ्कारोद्भावनमप्येतेन कृतम् । यद्यपि रसानामतिविस्तरेण निरूपणं वर्तते तथाप्यलङ्कारोपर्येव ग्रन्थकृदाग्रहो दृश्यते । यतः अलङ्कारशास्त्रस्य क्रमिक-. विकासे विचार्यमाणे रुद्रटस्याऽपि मतं विकासस्यैकं सोपानमभूदिति राजानकरूय्यकस्तन्मतमित्थं विविनक्ति-‘रुद्रटेन तु भावालङ्कारो द्विधैवोक्तः ।। उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता । रसवत्प्रेयः प्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्यं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव इति ।

अस्मिन् ग्रन्थे षोडशाध्यायाः । पद्यानि च ७३४ मितानि सन्ति । अलङ्काराणां विभाजनं वर्गीकरणञ्च सर्वप्रथममनेनैव कृतम् । प्राचीनैरुक्ता कतिपयेऽलङ्कारास्त्यक्ताः, कतिचन नवा उक्ताः, कतीनाञ्च संज्ञा परिवत्तता । तदेवं सर्वथा परिष्कृतोऽलङ्कारमार्गः । अस्मिन् ग्रन्थे ७१४ आर्याः सन्ति । आर्या देव्याः पार्वत्याः अनुरागी सर्वज्ञरुद्रस्य प्रतीकरूपोऽस्ति आर्याछन्दसोऽनुरागी रुद्रटं। तद्रूपमेव स्वीकृतम् । तद्यथा -

अतिलोकमलङ्कारमाविभ्रदमृतस्तुतम् ।

आयनुरागी सर्वज्ञः सत्यं रुद्रः सरुद्रटः ।।[४]

अग्निपुराणम् सम्पादयतु

(३३६-३४६ अध्यायः ) ( चतुर्दशाभिनवालङ्काराः पूर्वप्रतिपादिताश्च सप्तदशालङ्काराः )( १४+१७=३१ ) ऐतिहासिकवर्णनक्रमे रुद्रटस्य पश्चादग्निपुराणस्यास्य काव्यशास्त्रीयभागस्य स्थापने तात्पर्यमिदमस्ति यदस्मिन्भागे चतुर्दशानामेतादृशामलङ्काराणां प्रतिपादनोऽभूद्येषामलङ्काराणामलङ्काररूपेण विवेचनं कुत्राऽपि नाभूदुद्रटकालपर्यन्तम् ।

एषामलङ्काराणामुद्भावनमस्मिनग्निपुराणस्य काव्यशास्त्रीयभागे रुद्रटकालानन्तरमेव बभूव । तेनेदं स्थापनमग्निपुराणस्योचितमेव प्रतिभाति ।

अग्निपुराणस्य विशेषरूपेण काव्यशास्त्रीयभागस्य रचनाकालः स्वविषये विवादग्रस्त एवाऽस्ति । कतिपायानां विदुषां मते भरतमुनिनाऽग्निपुराणादेवरसालङ्कारादितत्त्वान् गृहीत्वा नाट्यशास्त्रस्वरूपनिर्माणावसरे प्रसंङ्गत एवालङ्कारशास्त्रस्यापीयं रचना कृता । एषामालोचकानां मतानुसारेण भरतस्येदं नाट्यशास्त्रमग्निपुराणोत्तरकालीनमेव सिद्धो भवति । किञ्चाग्निपुराणे ‘भारती रीत्याः' वर्णनप्रसङ्गे–‘भरतेन प्रणीतत्वाद्भारतीरीतिरिष्यते'[५] इति कथनेन सिद्धो भवति यद्भरतेन प्रणीतत्वादेवेयं रीतिः ‘भारतीरीतिः' इति नाम्ना ख्याता । अनेन नाट्यशास्त्रेणाऽपि प्रमाणितो भवति, यद्भरतैः कृतानां प्रयोगेणैव इयं ‘भारतीवृत्ति' कथ्यते । अतः भरतमुनेः नाट्यशास्त्रम् अग्निपुराणस्य काव्यशास्त्रीयभागात्प्राचीनतरमस्ति । तद्यथा-

मया काव्यक्रियाहेतोः प्रक्षिप्ताहिणाज्ञया ।।

स्वनामधेयैः भरतैः प्रयुक्ता सा भारतीनाम भवेत्तु वृत्तिः ।।[६]

भामहेनाऽपि काव्यालङ्कारे लिखितम् यदलङ्काराणां लक्षणोदाहरणानि तैः स्वकृतैरेवेति । यथा लिखितमस्ति -

"स्वयं कृतैरेव निदर्शनैरियं प्रक्लुप्ता खलु वाग्लङ्कृतिः ।”[७]

‘गिरामलङ्कारविधिः सविस्तरः स्वयं विनिश्चित्य धिया मयोदितः ।।[८]

भामहालङ्कारस्य रूपक-आक्षेप-अप्रस्तुतप्रश्र, समासोक्ति-पर्यायादिभिरलङ्काराणां लक्षणानि, अग्निपुराणोक्तलक्षणतुल्यान्येव सन्ति । अतः भामहोक्तलक्षणोदाहरणान्येव मौलिक मत्वा भामहस्य काव्यालङ्कारादग्निपुराणस्य काव्यशास्त्रीयभागमर्वाचीनं मन्यन्ते विद्वद्भिः।

अग्निपुराणस्य रूपक-उत्प्रेक्षा-विशेषोक्ति-विभावना-अपह्नति-समाधि-प्रभृत्यलङ्काराणां लक्षणानि काव्यादर्शे प्रतिपादितलक्षणतुल्यानि, एव सन्ति । अस्मिन्ग्रन्थे एतदतिरिक्ता स्थलेष्वप्यतीव साम्यं वर्तते । काव्यशास्त्रे सर्वथा मान्यसिद्धान्तमस्ति यत् काव्यादर्शः न कोऽपि संग्रहात्मकग्रन्थमस्ति, प्रत्युदिदं दण्डिनः स्वरचितग्रन्थमस्ति । अतः म० म० काणे, डॉ० राघवन्, डॉ० डे प्रभृतिभिः विद्वद्भिरग्निपुराणस्य काव्यशास्त्रीयभागम् काव्यादर्शादप्यर्वाचीनमेव मन्यन्ते अर्थात् ख्रीष्टाब्द १०५० ई० तः अपि पश्चाद्वर्ती मन्यन्ते । आचार्यआनन्दवर्द्धनोऽपि ध्वन्यालोके 'तथाचेदमुच्यते' एवं लिखित्वा -

अपारे काव्यसंसारे कविरेकः प्रजापतिः ।

यथाऽस्मै रोचते विश्वं तथेदं परिवर्तते ।।

शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् ।

स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।।उद्धरणे दोषः : <ref> त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम्

इदं श्लोकद्वयं लिखितम् । इमौ श्लोकौ अग्निपुराणेऽपि मिलति ।[९] म० म० काणे प्रभृति स मालोचकानां मते उभावपि श्लोकौ आनन्दवर्द्धनस्यैव स्तः । यतः ‘तदिदमुक्तम्' तथा 'चेदमुच्यते' एवंविधप्रसङ्गेऽभिनवगुप्तेनाऽपि निजलोचने ‘ममैवेत्यर्थः' इत्येवार्थं कृतम् । अभिनवभारत्यां स्पष्टरूपेणाभिनवगुप्तेनेमौ श्लोकौ आनन्दवर्द्धन कृतावेव मन्यते । यथा-कविह सामाजिकतुल्य एव । तत एवोक्तम् - 'शृङ्गारीचेत्कविः' इत्याद्यानन्दवर्द्धनाचार्येण ना० शा० ६३६-३७ कारिकोपरि द्रष्टव्यम् । अतः इदं कथनं युक्तितरमस्ति यदग्निपुराणादेव 'ध्वन्यालोक' इति शब्दमुद्धतमस्ति । आनन्दवर्द्धनस्य कालस्तु नवमशतक एव निश्चितमस्ति । अतोऽग्निपुराणस्य काव्यशास्त्रीयभागः ध्वन्यालोकादप्यर्वाचीनः । भोजराजकृत शृङ्गारप्रकाशस्य रसप्रकरणस्याग्निपुराणस्य च रसप्रकरणयोरतीव साम्यं वर्तते,[१०] अग्निपुराणस्य काव्यशास्त्रीयभागे संग्रहात्मकप्रवृत्तिम् दृष्ट्वैव म० म० काणे प्रभृतिभिः विद्वद्भिरग्निपुराणस्य काव्यशास्त्रीयभागस्य भोजराजादप्यर्वाचीनः कथ्यन्ते । अस्य रचनाकालः १०५० ई० तः अपि पश्चादस्ति ।

सरस्वतीकण्ठाभरणम् सम्पादयतु

(१९१-१०५४ ई० ) ( एकविंशत्यभिनवालङ्काराः, 'एकपञ्चाशत्पूर्वोक्ताः (२१+५१=७२ ) महाराजो भोजो धारानगरशासकः परमारवंश्यश्वासीत् सहि १०१८ ईशवीये सिंहासनारूढो भूत्वा १०५४ पर्यन्तं राज्यमकृतेति तस्य काल एकादशशतकम् । भोजस्य कविजनप्रियत्वं प्रसिद्धम् । शेषगिरिशास्त्रिणो लिखन्ति यदयं भोजो धारातः स्वां राजधानीम् उज्जयिनीमानीतवानिति ‘आइने अकबरी' पुस्तके लिखितं वर्तते ।

भोजराजस्य स्थितिकालस्तु ख्रीष्ट ९९१ ई० वत्सरादारभ्य १०५४ वत्सरपर्यन्तम् इति सकलविद्वज्जनं प्रसिद्धमेव । तथा कश्मीरिककल्हणकविकृतायां काश्मीरेतिहासराजतरङ्गिण्यां सप्तमे तरफ्नो विद्यमानः

स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ ।।

सूरी तस्मिन् क्षणे तुल्यं द्वावास्तां कविबान्धवौ ॥

इति श्लोकोऽपि १०२९ मिते ख्रीष्टाब्दे काश्मीरदेशे राज्यपदाधिष्ठितस्य अनन्तराजस्य मालवाधीशस्य भोजराजस्य च समकालत्वं दानशूरत्वं विद्वत्वं च प्रतिपादयन् भोजराजस्य पूर्वोक्तमेव स्थितिकाले प्रत्यायति । एवञ्च भोजराजीयहस्ताक्षरसहितं ख्रीष्ट्र १०२२ मिते वत्सरे भट्टगोविन्दसुताय धनपतिभट्टाय ब्राह्मणाय दत्तं दानपत्रमपि भोजराजस्य पूर्वोक्तमेव स्थितिकालं स्पष्टमावेदयति । धारानगराधिपतेः सुप्रसिद्धस्य भोजराजस्य दानपत्रम्

जयति व्योमकेशोऽसौ यः सर्गाय विर्भात ताम् ।

ऐन्दवीं शिरसालेखां जगबीजाङ्कुराकृतिम् ।।

तन्वन्तुवः स्मरारातेः कल्याणामनिशे जटाः ।

कल्पान्तसमयोदवाततडिद्वलयपिङ्गलाः ॥"

परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीसीयकदेवपादानुध्यात परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवाक्पतिराजदेवपादानुध्यात - परमभट्टारकमहाराजाधिराज-परमेश्वरश्रीसिन्धुराजदेवपादानुध्यात - परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीभोजदेवः कुशलीनागहृदपश्चिमपथकान्तः पातिवीराणके समुपगतान् राजपुरुषान् ब्राह्मणोत्तरान् प्रतिनिवासिप ( पटेल, पाटील ) किलजनपदादींश्च समादिशति । अस्तु वः संविदितं यथा अतीताष्टसप्तत्यधिकसाहस्रिकसंवत्सरे माघासिततृतीयायां रवावुदगयनपर्वणि कल्पितहयानां लेख्ये श्रीमद्धारायां ( धारानगर्याम् ) अवस्थितरस्माभिः स्नात्वा चराचरगुरु भगवन्तं भवानीपति समभ्यर्च संसारस्यासारतां दृष्ट्वा -

वाताभ्रविभ्रममिदं वसुधाधिपत्यमापातमात्रमधुरो विषयोपभोगः ।

प्राणास्तृणाग्रजलबिन्दुसमानराणां धर्मः सखा परमहो परलोकयाने ।।

भ्रमत्सं सारचक्रोग्रधारा धारामिमां श्रियम् ।

प्राप्य येन ददुस्तेषां पश्चात्तापः परं फलम् ।।

इति जगतो विनश्वरं स्वरूपमाकलय्य उपरिलिखितग्रामः स्वसीमातृणगोचर यूतिपर्यन्तः सहिरण्यभागभोगः सपरिकरः सर्वादाय समेतः ब्राह्मणधनपतिभट्टाय भट्टगोविन्दसुताय वह वृचाश्वलायनशाखाय त्रिप्रवराय वेल्लवल्लप्रतिप्रतिबद्धश्रीवादाविनिर्गतराधसुरसङ्गकर्णाढाय मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये अदृष्टफलमङ्गीकृत्य आचन्द्राकीर्णवक्षितिसमकालं यावत् परया भक्त्या शासनेनोदकपूर्व प्रतिपादित इति मत्वा यथा दीयमानभाग भोगकर हिरण्यादिकमाज्ञाश्रवणविधेयैर्भूत्वा सर्वमस्मै समुपनेतव्यम् । सामान्यं चैतत्पुण्यफलं बुद्धाऽस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मादायोऽयमनुमन्तव्यः पालनीयश्च । उक्तं -

बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।

यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ।।

यानीह दत्तानि पुरा नरेन्द्रेर्दानानि धर्मार्थयशस्कराणि ।

निर्माल्य वान्त प्रतिमानि तानि को नाम साधुः पुनराददीत ।।

अस्मत्कुलक्रममुदारमुदाहरद्भिरन्यैश्च दानमिदमभ्यनुमोदनीयम् ।

लक्ष्म्यास्तडित्सलिलबुदबुदचञ्चलायादानं फलं परयशः परिपालनञ्च ।।

सर्वानेतान् भाविनः पार्थिवेन्द्रान भूयो भूयो याचते रामभद्रः ।

सामान्योऽयं धर्मसेतुर्नराणां काले काले पालनीयो भवद्भिः ।।

इति कमलदलाम्बुविन्दुलोला- श्रियमनुचिन्त्य मनुष्यजीवितञ्च ।।

सकलमिदमुदाहृतं च बुद्ध्वा नहि पुरुषैः परकीर्तयो विलोप्याः ।

इति संवत् १०७८ चैत्रशुदि १४ स्वयमाज्ञामङ्गलंमहाश्रीः । स्वहस्तोऽयं भोजदेवस्य । मम्मटेन च दशमोल्लासे उदात्तलङ्कारोदाहरणतयोपन्यस्तः । मुक्ताः केलिः••••••। यद्विद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ।' इति पद्ये भोजराजस्य नाम स्पष्टमेवोल्लेखितम् । एवञ्च मम्मटात् प्राचीन एव भोजराजः ।।

भोजराजेन साहित्यविद्यामधिकृत्य पुस्तकद्वयं प्रणीतम्-(१) सरस्वतीकण्ठाभरणम् ( २ ) शृङ्गारप्रकाशः । इमौ चालङ्कारग्रन्थौ विशालकायौ । तत्र व्यापकतया मार्मिकतया च रसनिरूपणं शृङ्गारप्रकाशे । शृङ्गाररस एव सर्वरसानां मूलभूत आदिमः प्रहतरसः अन्ये च रसा एतद्विकाररूपा एव इति हि भोजराजामतम् । तद्यथा--

शृङ्गारवीरकरुणाद्भुतरौद्रहास्य-बीभत्सवत्सलभयानकशान्तनाम्नः ।

आम्नासिपुर्दशरसान् सुधयो वयं तु शृङ्गारमेव रसनात् रसमामनामः ॥[११]

रसोभिमानऽहङ्कार शृङ्गार इति गीयते ।।

योऽर्थस्तस्यान्वयात् काव्यं कमनीयत्वमश्नुते ।[१२]

अपि च--

शृङ्गारीचेत्कविः काव्यजातं रसमयं जगत्

स एवं चेदशृङ्गारी नीरसं सर्वमेव तत् ।।[१३]

भुङ्गारप्रकाशचित्रकाव्यनिरूपणाय नितान्तं प्रथते । रसस्य च वैज्ञानिकरूपप्रस्तुतकरणे भोजेन हि स्वकीया सूक्ष्मविवेचनशक्तिः प्रदर्शिता प्रस्तुतग्रन्थे । सरस्वतीकण्ठाभरणे च गुणदोषालङ्काराणां सम्यक्तया विवेचनं विद्यते । वस्तुतोऽयं ग्रन्थः विदुषां कण्ठाभरणः । अलङ्कारसम्बन्धे भोजराजस्य मान्यता स्पष्टमेव । यथा—“इत्युक्तं तत्र अलङ्कारसृष्टेः इतीयत्येव वक्तव्ये नानालङ्कारग्रहणं गुणरसानामुपसंग्रहार्थम् । तेषामपि काव्यशोभाकरत्वेनालङ्कारत्वात् । यदाह--

काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ।

ते चाद्यापि विकल्प्यन्ते कस्ता कार्येन वक्षति ॥

काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलङ्क्रियाः ।।

साधारणमलङ्कारजातमन्यत् प्रदर्श्यते ॥

तत्र काव्यशोभाकरान् इत्यनेन श्लेषोपमादिवत् गुणरसतदाभासप्रशमादीनप्युपगृह्णन्ति ।[१४] भोजराजस्य प्रशस्तिविषये उचितमेवेदमुक्तिः -

साधितं विहितं दत्तं ज्ञातं तद्यन्न केनचित् ।

विमन्यत् कविराजस्य श्रीभोजस्य प्रशस्यते ।।[१५]

काव्यप्रकाशः सम्पादयतु

मुख्यलेखः : काव्यप्रकाशः

(१०५०-११०० ई० ) ( नवीनालङ्काराः ७+ ६७=७४ ) यावदस्य महापुरुषमम्मदस्योदयो नाजायत तावत्काले ध्वनिविरोधिनां शिरांस्युदनमन् ध्वनिविरोधिनो ग्रन्थाः अरचिषत । परमनेन मम्मटेन ध्वनिविरोधिनस्तथाऽधिक्षिप्ता यथा ते पुनर्वनि विरोद्ध साहसं नाकुर्वन् । अतएव त्वयं काव्यप्रकाशकर्ता मम्मटः वाग्देवतावतारः ध्वनिप्रस्थापनपुरमाचार्यश्वोच्यते ।

श्रीमम्मटभट्टोऽयं साहित्यगगनचन्द्रः ख्रीष्टाब्दीयैकादशशतकस्य चरमभागे | काश्मीरभुवमलञ्चकार इति विद्वद्भिनश्चितम् । यतो ह्ययं मालवाधीशात्, सिन्धुराजसूनोः 'सरस्वतीकण्ठाभरणाद्यनेकग्रन्थकर्तुः श्रीभोजराजादवक्तन इति तद्रचिते काव्यप्रकाशे दशमोल्लासे उदात्तालङ्कारोदाहरणतयोपन्यस्तः -

“भोजनृपतेस्तत्त्यागलीलायितम्' इति पद्यांश एव प्रमाणयति । भोजराजस्य | कालस्तु ९५१ ख्रीष्टवत्सरादारभ्य १०५६ वत्सरपर्यन्तः इति पूर्वमेव निश्चितम् । माणिकचन्द्रकृतायां टीकायां न कस्याश्चिदपि टीकाः , टीकाकारस्य ‘बा नाम समुपलभ्यते, तेनास्माभिनिश्चीयते-अयं माणिक्यचन्छः उपलव्धकाव्यप्रकाशटीकाकारेषु प्रथमः इति । अयं हि जैनो गुर्जरदेशीयः विक्रमार्कसमंयात् षोडशाधिकद्वादशशतीमिते ( १२२६ ) ख्रीष्ट ११६० संवत्सरे आसीत् । तद्यथा -

रसवक्त्र-ग्रहाधीश-वत्सरे ( १२१६ ) मासिमाधवे ।।

काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः ।।

भोजराजस्य दानशौण्डत्वप्रशंसनात् भोजराजार परवर्ती तथा माणिक्यचन्द्रात्पूर्ववत्तित्वान्मम्मटस्य समयः १०५० ई० तः ११००पर्यन्तमासीत् ।

मम्मटरचितस्य काव्यप्रकाशस्य निदर्शनाख्यटीकायाम्-‘इति शिवागम प्रसिद्धया षत्रिशत्तत्त्वदीक्षाक्षपितसकलमलपटलः, प्रकटितसत्स्वरूपचिदानन्दघनः, राजानककुलकोमम्मटनामादैशिकवरः' इत्येवमेको लेख उपलभ्यते । तेन प्रतीयते यत्-मम्मट: काश्मीरप्रसिद्धः शैवागमानुयायीति ।।

काव्यप्रकाशस्य सुधासागराख्यटीकाकर्ता भीमसेनो लिखति–“अयं मम्मटः काश्मीरदेशीयः, जैयटपुत्रः वाराणसीमागत्याधीतशास्त्रः । अस्य च मम्मटस्य पतञ्जलिप्रणीतव्याकरणमहाभाष्यटीकाकर्ता कैयटः, वेदचतुष्टयभाष्यकर्ता उवटापरनामा औवटश्चेति द्वावपि कनिष्ठौ भ्रातरौ' इति । श्लोकैश्चापि मम्मट स्तौति भीमसेनः

शब्दब्रह्मसनातनं न विदितं शास्त्रैः क्वचित् केनचित्,

तद्देवी हि सरस्वती स्वयमभूत्काश्मीरदेशे पुमान् ।

श्रीमज्जैयटगेहिनी सुजठराज्जन्माप्ययुग्मानुजः,

श्रीमन्मम्मटसंज्ञया श्रिततनं सारस्वतीं सूचयन् ।

श्रीमान्कयट औवटो ह्यवरजो यच्छात्रतामागतो,

भाष्याब्धि निगमं यथाक्रममनुव्याख्याय सिद्धि गतः ।

इत्यादि किञ्च भीमसेनस्योक्तमिदं सर्वाशे प्रमाणयितुं न शक्यते, औव्वटस्य मम्मटभ्रातृत्वे सन्देहोद्भवात् । औव्वटकृते यजुर्वेदभाष्ये हि -

ऋष्यादींश्च पुरस्कृत्य अवन्त्यामुव्वटो वसनु,

मन्त्रभाष्यमिदं चक्रे भोजे राष्ट्र प्रशासति । इति पद्यं प्राप्यते ।

तस्यैव भाष्यस्य पुस्तकान्तरेऽन्यदेकं पद्यमन्यथैवोपलभ्यते । तद्यथा---

आनन्दपुरवास्तव्य वज्रटाख्यस्य सुनूना

मन्त्रभाष्यमिदं क्लुप्तं भोजे पृथ्वीं प्रशासति ।

पदद्वयेनानेन औव्वटस्य पिता वज्रटः सिद्धयति, समयश्च तस्य भोजशासनकालिकः । औग्वटस्य मम्मटभ्रातृत्वे जैयटपुत्रत्वे च वटपुत्रत्वं सोक्तम्। विरोधमावहेत् । यद्यपि काश्मीरदेशीयस्य जैयटसगोत्रस्य वज्रटस्य दत्तकपुत्रत्वकल्पनायामौव्वंटस्य वज्रटपुत्रत्वं संगच्छते, तथापि पूर्वोक्तरीत्या मम्मटस्य । भोजराजादवक्तनत्वे सिद्धे, तदनुजस्यौव्वटस्य भोजराजसमकालित्वं कथमिव सिध्येत् । अतो नेयं भीमसेनकल्पना प्रामाणिकतामवगाहते ।।

राजानकमम्मटस्य सुप्रसिद्धः पाण्डित्यपूर्णो ग्रन्थः ‘काव्यप्रकाशः' अन्योप्येकः ‘शब्दव्यापारविचारः', इत्याख्यो ग्रन्थः पूजानगरस्थ दक्षिणकालेजसंज्ञकसंस्थाद्वारा प्रकाशितः समुपलभ्यते । काव्यप्रकाशग्रन्थो मम्मटेन परिकरालङ्कारपर्यन्त एव रचितः, अवशिष्टस्तु अल्लटसूरिणा, अलकसूरिणा वा पूरित इति टीकाकृतां प्रवादः ।

अनेन प्रकारेणाथ चायं ग्रन्थोऽन्येनारोऽपरेण च समापित इति द्विखण्डोऽपि सङ्घटनावशाखण्डायते । रूय्यकेने के संकेतनामकटीकायाम् एतेन महामतीनां प्रसरणहेतुरेषग्रन्थो ग्रन्थकृतानेन कथमप्यसमाप्तत्वादपरेण च पूरि- : तावशेषत्वात् द्विखण्डोऽपि । तथा च ते समुदीरयन्ति -

कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः ।

प्रबन्धः पूरितः शेषो विधयाल्लटसुरिणा।

इति निदर्शनाख्यायां काव्यप्रकाशटीकायामानन्दकविः । अयमेव कविर्दशमोल्लाससमाप्तिटीकायोमपि ‘इत्येषमार्गो विदुषां' इति श्लोकव्याख्यानावसरे प्रजल्पति -

काव्यप्रकाश इह कोऽपि निबन्धकृभ्यांद्वाभ्यां कृतेऽपि कृतिनां रसवत्वलाभः ।

लोकेऽस्ति विश्रुतमिदं नितरां रसालम् बन्धप्रकाररचितस्य तरोः फलं यत् ।। इति ।

काव्यप्रकाशस्य त्रयोंऽशाः–कारिकावृत्तिरुदाहरणश्च अनेन कारिका कच्चित् भरतस्याऽपि गृहीताः शेषाः स्वयं रचिताः, वृत्तिस्तु स्वीया एव, उदाहरणानि परेषांमदीयन्त । अस्य ग्रन्थस्योल्लासाभिधेया, दशविभागाः । तेन ‘तददोषौ शब्दार्थी सगुणावनलङ्कृती पुनः क्वापि' इति काव्यलक्षणं विधाय तदनुरोधेनैव निर्मिताः । तथापि प्रथमे उल्लासे मङ्गलाचरणानन्तरं यथाक्रम काव्यस्य फलं कारणं तददोषौ' इत्यादिना स्वरूपञ्च निरूपितम् । अनन्तरं काव्यभेदस्य जिज्ञासितत्वात उत्तममध्यमाधमरूपविविधभेदोऽपि प्रतिपादितः । ततः ‘शब्दार्थी काव्यम्' इत्युक्तत्वात् शब्दार्थभागादेरपि जिज्ञासितत्त्वेन द्वितीये उल्लासे शब्दार्थविभागः आर्थीव्यञ्जना बाचकः शब्दः मतभेदेन सङ्केतितार्थः लक्षणामूलाव्यञ्जना अभिधामूलाव्यञ्जना च प्रतिपादिताः। ततोऽर्यस्य व्यञ्जकता कथमिति जिज्ञासायां तृतीये उल्लासे अर्थस्य व्यञ्जकता प्रतिपादिता । ततः उत्तमकाव्यप्रभेदानामाकांक्षितत्वात् चतुर्थे उल्लासे १०४५५ संख्याका ध्वनिकाव्यप्रभेदाः रसभावादयश्च प्रतिपादिता ।

ततो मध्यमकाव्यप्रभेदानां जिज्ञासितत्वात् पञ्चमे उल्लासे ४५१५८४ संख्याका गुणीभूतव्यङ्गय काव्यप्रभेदा प्रसङ्गात् व्यञ्जनावृत्तिसंस्थानयुक्तयश्च प्रतिपादिताः ततोऽधमकाव्यप्रभेदजिज्ञासायां षष्ठे उल्लासे चित्रकाव्यप्रभेदयोः स्वरूपं प्रतिपादितम् । ततः काव्यलक्षणे दोषाणां पूर्वप्रतिपादनात् सप्तमे उल्लासे सप्ततिसंख्यकाः . ( १६ पददोषाः २१ वाक्यदोषाः २३ अर्थदोषाः १० रसदोषाः ) दोषाः प्रतिपादिताः । कुत्रचित्तेषां प्रतिप्रसवोऽपि ( अदोषताऽपि ) प्रतिपादिताः । ततः सगुणौ इति विशेषणात् गुणनिरूपणस्य जिज्ञासिततया अष्टमे उल्लासे गुणलक्षणम् ‘गुणालङ्कारयोर्नास्ति भेदः' इति प्रतिपादयतां केषांचिन्मतं निराकर्तुम् अलङ्कारलक्षणम् माधुयजः प्रसादाख्यास्त्रयो गुणाः वामनोक्त दशविधगुणानां स्वोक्तगुणेष्वन्तर्भावश्चेत्येतानि प्रतिपादितानि । ततः काव्यलक्षणे 'अनलङ्कृती' इति विशेषणात् अलङ्काराणां जिज्ञासितत्त्वात् तत्रापि शब्दस्य प्राथम्यात् काव्यलक्षणे पूर्वग्रहणाच्च नवमे उल्लासे वक्त्रोक्त्यादयो रीतिसहिता . षट् शब्दालङ्काराः प्रतिपादिताः। ततोऽर्थालङ्काराणामुपस्थितत्त्वात् दशमे उल्लासे उपमादयः एकषष्ठि संख्याकाः अर्थालङ्काराः प्रतिपादिताः वामनाद्युक्तानामलङ्कारदोषाणां स्वोक्तेषु दोषेष्वन्तर्भावश्च प्रतिपादित इति । मम्मटस्य पाण्डित्येन प्रायः सर्वे एव टीकाकारा मुग्धाः सन्ति । तेष्वनेके तं ‘वाग्देवतावतारः' इत्युपाधिना मण्डयन्ति । अस्य निर्मितस्य काव्यप्रकाशस्य महत्त्वमेतेनैव सूच्यते य एतस्य षट्चत्वारिंशट्टीका झलकीकरोपाह्वभट्टवामनाचार्येण स्वटीकाया बालबोधिन्याः पूर्वजाताः परिगणिता अभूवन् । तदीयान् एकत्रिंशत् श्लोकाननिदश्य केवलं सर्वबोधाय टीकानां सूच्येवैका कत्तृनामयुता आचार्यपण्डित हनुमत्प्रसादशास्त्रिणोऽपि दत्तः । काव्यप्रकाशे सप्तनवीनालङ्काराः सप्तषष्टिरलङ्काराः, (७+६७=७४ ) अलङ्काराः निरूपिताः ।

रूय्यक-अलङ्कारसर्वस्वम् सम्पादयतु

( ११००-१५०० ई० ) ( नवीनालङ्काराः ४+७८=८२ ) अयं खलु रूय्यकः ख्रीष्टाब्दीय द्वादशशतकपूर्वार्द्ध ११५० ख्रीष्टाब्दे काश्मीरदेशेऽविद्यत । ‘राजानकरुचकः' इत्यपि तस्यापरनामासीत् । तस्य-पितुनम ‘राजानक तिलकः' इत्यासीत् । येन ‘उद्भटविवेकः' इति ग्रन्थः प्राणायि। मल्लको नाम सुप्रसिद्धः कविः स्वकीयस्य श्रीकण्ठचरितकाव्यस्यान्तिमे सर्गे रूय्यकमेवं स्वगुरूत्वेन वर्णयति । अयं हि मङ्खकः काश्मीरशासकस्य जयसिंहस्य आप्तसचिवः आसीत् । महाराजजयसिंहस्य समयो राजतरङ्गिण्याम् ११२८११४९ ई० उक्तोऽतोऽस्य समयो द्वादशशतकस्यादिभाग एव निश्चीयते । अनेनालङ्कारमात्रविवेचकोऽलङ्कारसर्वस्वनामा एकः ग्रन्थः प्रणीतो यः पाण्डित्यपूर्णविवेचनायां काव्यप्रकाशमप्यतिशेते । जयरथसमुद्रबन्धनामकपण्डिताभ्यां कृते टीकेऽस्य ग्रन्थस्य प्राप्ते भवतः । जयरथकृतया विमशनीत्याख्यया व्याख्यया समेतश्चोक्तग्रन्थोऽद्यापि पुण्यपत्तनस्थ दक्षिणकालेजाख्यविद्यामन्दिरमलङ्करोति । ग्रन्थेऽस्मिन् पञ्चसप्तत्यर्थालङ्काराणां षट् शब्दालङ्काराणां च पाण्डित्यपूर्णविवेचनमस्ति । मम्मटकृतसमीक्षातोऽत्यधिकव्यापकरूपेण विस्तृतरूपेण चात्र समीक्षा कृताऽस्ति । रूय्यकस्यालङ्कारसर्वस्वाख्यनिबन्धकत्र्तृत्वादेव रसगङ्गाधरे विषमालङ्कारे जगन्नाथेन ‘अरण्यानी क्वेयं धृतकनकसूत्रः क्व स मृगः' इत्यलङ्कारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् इति ग्रन्थेन रूट्यकोदाहरणं खण्डितम् । एवमुद्योतकारनागेशभट्टनाऽपि 'एतेन व्यङ्गयस्य प्रकारान्तरेणाभिधानासम्भवात् कार्यमुखेन कारणाभिधानं पर्यायोक्तम्' उदाहरणे राहुबधूकुचनैष्फल्यरूपेण कार्येण राहुशिरश्छेदकारणरूपो गम्यते इति अलङ्कारसर्वस्वोक्तम् ( अलङ्कारसर्वस्वेऽप्रस्तुतप्रशंसाऽलङ्कारप्रकरणे रूय्यकेणोक्तमित्यर्थः ) अपास्तमित्युक्तम् ।

जयरथेन विमशिन्यां रूय्यककृतानां षट्ङ्ग्रन्थानामुल्लेखो विहितः । तद्यथा -

( १ ) काव्यप्रकाशसंकेतः

( २ ) अलङ्कारमञ्जरी

( ३ ) अलङ्कारानुसारिणी

(४) साहित्यमीमांसा

( ५ ) नाटकमीमांसा

( ६ ) अलङ्कारवात्तिकश्चेति ।

एतत् सर्वं काव्यमालापुस्तके विवृतमस्ति । यत्तु ‘केचिदन्तर्भवन्त्येषु' इति ‘शक्ति निपुणता' इति चोपलभ्यमानां काव्यप्रकाशकारिकाद्वय हेतुकृत्य काव्यप्रकाशकत्तु मम्मटात्परभाविनमेनं मन्यन्ते तदुचितमेवेति । अनेन चत्वारोऽभिनवालङ्काराः, अष्टसप्ततिः प्राचीनाः उभयोः ८२ संख्यकाः अलङ्काराः निरूपिता।

अलङ्काररत्नाकरः सम्पादयतु

(१२००-१३०० ई० ) ( नवीनालङ्काराः ३९+७० = १०९) शोभाकरमित्रोऽपि काश्मीरिको विद्वानिति बहूनां डेप्रभृतीतिहासकाराणां मतमस्ति । अस्य पितुर्नाम त्रयीश्वमित्रः आसीत् । काश्मीरदेशीयेन यशस्करेण कविना शोभाकरमित्ररचितालङ्काररत्नाकरस्यानेकानि सूत्राणि उद्धृतानि । तेषामुदाहरणार्थम् ‘देवीस्तोत्रस्याऽपि तेन रचना कृतां (पीटर्सन । पृ० ७७-७८ उद्धरणः, पृ० ८१ अपि द्रष्टव्यम् )। शोभाकरमित्रस्यालङ्काररत्नाकरः, अलङ्कारशास्त्रस्यान्वर्थनामको ग्रन्थोऽस्ति । ग्रन्थोऽयमेवैकोऽस्य परिचायकमस्ति । तत्र च समाप्तौ ग्रन्थस्यास्याः समयः कथञ्चित्सन्निवेशितोऽपि निश्चितकालो न स्फुटीकरोति, दुश्शकमेवास्य समयनिर्धारणम् । अथाप्येतद्वक्तुं शक्यं यन्नायमतिप्राचीनम् । ग्रन्थगतालाराणां संख्या तथा तेषां लक्षणादेव प्रतीतो भवति यदयं रूय्यकादपि अर्वाचीनोऽस्ति । अनेन ३९ तथा ७० प्राचीनालङ्काराणामर्थात् १०९ अलङ्काराणामस्मिन् ग्रन्थे प्रतिपादनम् कृतम् । जयरथेन निजविमशिनीनामकटीकायां शोभाकरमित्रस्यालोचना कृताऽस्ति । अतोऽयं रूय्यकात् पश्चात्तथा जयरथात्पूर्ववर्ती आसीत् । अतोऽस्य समयः १२०० ई० तः १३०० ई० पर्यन्तमस्ति । अलङ्काररत्नाकरे केवलमलङ्काराणामेव विवेचनमस्ति । विवेचिताऽलङ्काराणां संख्या १०९ अस्ति ।

अलङ्कारसंग्रहः सम्पादयतु

(१२५०-१३०० ई० ) ( १ अभिमवालङ्कारनिरूपणम् ) मन्वभूपतिनाऽदेशेनामृतानन्दयोगिनी अलङ्कारसंग्रहस्य रचना कुता काव्यस्यात्मा रीति मत्वाऽनेनाचार्यवामिनकृतसिद्धान्तस्यानुसरणं कृतम् । तद्यथा--

'रीतिरात्मात्र काव्यस्य कथ्यते सा चतुर्विधा ।'[१६]

अस्य ग्रन्थस्य रचना प्रायः त्रयोदशशताब्द्याः उत्तरार्द्ध अभवत् । अस्मिन् ग्रन्थे एक एव नवीनालङ्कारस्य निरूपणोऽभवत् । ग्रन्थेऽस्मिन् पञ्च अध्यायाः सन्ति । विषयविवेचनक्रमे प्रथमेऽध्याये वर्णगणस्य वर्णनमस्ति । द्वितीयेऽध्याये • शब्दार्थस्य निरूपणमस्ति । तृतीयेऽध्याये रसभाववर्णनमस्ति । चतुर्थेऽध्याये नायकभेदमस्ति, पञ्चमेऽध्यायेऽलङ्काराणां वर्णनमस्ति ।

चन्द्रालोकः सम्पादयतु

(१२५० ई०-१३०० ई० ) ( नवीनालङ्काराः ३०+ ७८= १०८) पीयूषवर्षजयदेवविरचितचन्द्रालोकाख्यो ग्रन्थोऽलङ्कारशास्त्रस्य प्रमुखग्रन्थोऽस्ति । पीयूषवर्षापरनामधेयोऽसाविति जयदेवः ।।

चन्द्रालोकममुं स्वयं वितनुते पीयूषवर्षः कृती ।[१७]

पीयूषवर्षापरनामधेयोऽसौ कविरनेकदिनसाध्यसत्रविद्याप्रवीणात याज्ञिकान्महादेवात्सुमित्रायां जन्म लेभे इति तत्कृतचन्द्रालोकग्रन्थादेवावगम्यते । तथाहि -

महादेवः सत्रः प्रमुखमखविचैकचतुरः ।

सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।। [१८]

मातापित्रोर्नामसादृश्यात्प्रसन्नराघवरचयिताऽप्ययमेव बाधकप्रमाणाभावान्निश्चीयते । कौण्डिन्यगोत्रोत्पन्नोऽयं जयदेव इत्यपि ज्ञायते । यथा--

विलासो यद्वाचामसमरसनिष्पन्दमधुरः कुरङ्गाक्षीबिम्बाधरमधुरभावं गमयति ।

कवीन्द्रः कौण्डिन्यः सततजयदेवः श्रवणयोरयासीदातिथ्यं न किमिह महादेवतनयः ॥[१९]

लक्ष्मणस्येव यस्यास्य सुमित्राकुक्षिजन्मनः ।

रामचन्द्रपदाम्भोजे भ्रमभृङ्गायते मनः ॥[२०]

कतिचिद्विदुषां मते मिथिलायाः महानैयायिक: जयदेवापरनामधेयः पक्षधरमिश्रः-‘पक्षधरप्रतिपक्षलक्ष्यीभूतो न क्वाऽपि' प्रसन्नराघवचन्द्रालोकयोः रचयिता जयदेवाद्भिन्न आसीत् । प्रसन्नराघवस्य रचयिता जयदेवः महान् दार्शनिकोऽप्यासीदिदन्तु प्रसन्नराघवस्य प्रस्तावनातः एव प्रस्फुटो भवति ।

नटः – नन्वयं प्रमाणप्रवीणोऽपि

सूत्रधारः - येषां कोमलकाव्य-कौशल-कला लीलावती भारती । तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते ।[२१]

यत्तु प्रसन्नराघवस्य प्रस्तावनायां जयदेवेन लिखितम्-‘कवीन्द्रः कौण्डिल्यः स तव जयदेवः श्रवणयोरयासीदातिथ्यं न किमिह महादेवतनयः।” अस्मिन्श्लोके कौण्डिन्यपदं दृष्ट्वैव केचन पक्षधरापरनामधेयं जयदेवम् चन्द्रालोककाराद् भिन्न इति संशेरते । यतो हि नायं जयदेवः कौण्डिन्यगोत्रीयः । किञ्च झोपाह्नमहामहोपाध्याय परमेश्वरेण निजमिथिलातत्त्वविमर्शनामकग्रन्थे प्रमाणीकृतम् यदाधुनिककौण्डिन्यशब्दस्य स्थाने 'शाण्डिल्यः एव मूलपाठ आसीत् । दक्षिणपश्चिमयोः संस्करणेषु ‘शाण्डिल्यः' शब्दस्य स्थाने एव कौण्डिन्यः पाठः विहितस्तन्न युक्तम् । अतः मिथिलायाः परमदार्शनिकः पक्षधरमिश्र जयदेवः चन्द्रालोक-प्रसन्नराघवयोः रचयिता जयदेवादभिन्न एवेति । समयनिर्धारणदृष्ट्याऽपि कथनेऽस्मिन् न काऽप्यापत्तिरिति ।।

गीतगोविन्दकारो जयदेवस्तु भोजदेवरामादेवीपुत्र इत्यस्त्युभयोः पार्थक्ये साधकं प्रमाणम् । पक्षधरापरनामा जयदेवस्त्वस्मादभिन्न एवेति । अथास्य समय -जयदेवेनानेन धीमता काव्यलक्षणावसरे -

अङ्गीकरोति यः काव्यं शब्दार्थवनलङ्कृती ।

असौ न मन्यते कस्मादनुष्णमनलङ्कृती ॥उद्धरणे दोषः : <ref> त्रुटिपूर्णं कूटम् (code); रिक्तेभ्यः सन्दर्भेभ्यः नामधेयम् अवश्यं भवितव्यम्

इत्यनेन श्रीमम्मटाचार्यमतं खण्डितम् । लक्षणनिरूपणप्रस्तावे च काव्यप्रकाशोक्तलक्षणायाः षड्भेदाः अपि प्रदर्शिता इति सिद्धयत्यस्यैकादशशताब्द्याश्वरमभागस्थित श्रीमम्मटाचार्यानन्तरभावित्वम् । सर्वतः प्रथमं रूय्यकेणालारसर्वस्वे विकल्पविचित्रालङ्कारयोर्ये लक्षणे स्वीकृते ते एवात्र परिष्कृत्य प्रतिपादिते । एतेनास्य ११५५ ई० शताब्दीवर्तमान श्रीरुय्यकादधस्तनत्वम् । मम्मटाचार्येण चतुःसप्ततिः, रूय्यकेण द्वयाधिकाशीति । जयदेवेन तु अष्टोत्तरशतमलङ्काराः स्वीकृता इत्यलङ्काराणां विकासक्रमेणाप्यस्य मम्मटरूय्यकाभ्यां पश्चाद्भावित्वं निश्चीयते । अलङ्कारशेखरनिर्माता केशवमिश्रः षोडशशताब्दी समुपस्थितः आसीत् । एतेन स्वग्रंथे लिखितम् -

ये केप्युत्कलभूपते तव सभासम्भाविताः पण्डिताः ।

पत्रं श्रीजयदेवपण्डितकविस्तन्मुध्नि विन्यस्यति ।।[२२]

श्लोकेऽत्रोत्कलभूपसमाश्रितस्य जयदेवस्य निर्देशो विहितः, स एव चन्द्रालोककन्यो वेति न निश्चयः । परन्तु, तेनैव कविना स्वग्रन्थे प्रसन्नराघवनाटकस्य -

कदली कदली करभः करभः करिराजकरः करिराजकरः ।

भुवनत्रितयेऽपि बिभत्त तुलामिदमूरूयुगं न चमूरदृशः ॥

इत्यादिपद्यं समुद्धतमिति जयदेवस्य केशवकवेः पूर्वोपस्थितिर्विज्ञायते । चन्द्रालोकस्य सर्वतः प्राचीना शरदागमाख्या व्याख्या प्रद्योतनभट्टाचार्येण विरचिता। असौ शरदागमकारो रीवानरेश बधेलवंशशिरोमणि श्रीवीरभद्रदेव समाश्रित आसीदिति व्याख्या प्रारम्भतः स्पष्टम् । वीरभद्रेण च कामसूत्राशयमवलम्ब्य कन्दर्पचूडामणिसमाख्यः श्लोकनिबद्धो ग्रन्थो १५७७ ई० वर्षे विरचित इति । तस्य ग्रन्थादवगम्यते । तद्यथा -

हरलोचन हरलोचनरसशशिभिर्वश्रुते समये ।

फाल्गुनशुक्लप्रतिपदि पूर्णो ग्रन्थः स्मरस्मेरः ॥[२३]

तेन हि चन्द्रालोकस्यास्मात्प्राचीनता प्रतीयते एव ।।

साहित्यदर्पणकारस्य विश्वनाथकविराजस्य समयश्चतुर्दशशताब्दीत्यैतिहासिकानां सिद्धान्तः । साहित्यदर्पणे च पूर्वोक्तस्य 'कदली कदली' इति श्लोकस्य चतुर्थपरिच्छेदे समुद्धरणेन चतुर्दशशताब्दी पूर्वभाविता जयदेवस्य समायाति । शार्गधरपद्धतिः १३६३ ई० वर्षे सङ्कलिता। एतस्यां प्रसन्नराघवनाटकस्य बहूनि पद्यानि संगृहीतानीति सूक्ष्मपर्यालोचने १३६३ ई० वर्षेभ्यः पूर्वतमो जयदेवस्य सत्ताकालः स्थिरीक्रियते । किञ्च शाङ्गधरपञ्चतेः पूर्ववर्ती १६३० ई० वर्षे स्थितः शिङ्गभूपालो सार्णवसुधाकरस्य २५८, २७७ पृष्ठयोः प्रसन्नराघवनाटकं नामतोऽग्रहीदिति निश्चीयते त्रयोदशशताब्दी जयदेवस्य सत्ताकालोपशोभिता ।

अस्य रचना - एतद्विरचितौ चन्द्रालोकप्रसन्नराघवाख्यौ द्वौ ग्रन्थौ स्तः । तत्र चन्द्रालोक शब्दो हि चन्द्रस्यालोक इवालोकः प्रकाशः काव्योपयोगिविषयाणां यस्मिन्निति व्युत्पत्त्या सिद्धयति । इह काव्यप्रकाशादिवत् सर्वेऽपि काव्यविषयाः अलङ्कारध्वन्यादयः सन्निवेशिताः । अत्र दशमयूखाः २९४ श्लोकाश्च । प्रथमे मयूखे-काव्यलक्षणम्, रूढियौगिकादयः शब्दस्य भेदाः, वाक्यखण्डवाक्यादीनि दर्शितानि । द्वितीये-शब्दार्थवाक्यादिदोषास्तत्परिहाराश्च प्रदर्शिताः । तृतीये-अक्षरसंहत्यादीनि काव्यज्ञापकादिलक्षणानि । चतुर्थे–श्लेषादयो गुणाः । पञ्चमे-शब्दालङ्काराः शतमर्थालङ्काराश्च । षष्ठे-रसादयो वृत्तयश्च निरूपिताः । सप्तमे-ध्वनिभेदाः । अष्टमे-गुणीभूतव्यङ्गयानां वर्णनम् । नवमे-लक्षणायाः, दशमे-अभिधायाश्च वर्णनमस्ति ।।

एतेष्वधोलिखितविषयाः काव्यप्रकाशादिभ्योऽधिकाः--

प्रथमे मयूखे-रूढियौगिकानां शब्दानां नव भेदाः । तृतीयेऽक्षरसंहित्यादीनि काव्यज्ञापकलक्षणानि । सप्तमे-वक्तृस्वीतस्वाङ्कुरितादयोव्यङ्गयभेदाः । नवमेतटस्थगतार्थगतत्त्वादयो लक्षणाभेदाः । दशमे-चाभिधायाः षड्भेदे वस्तुयोगनिर्देशाख्यौ द्वौ भेदौ चेति । अपि च काव्यप्रकाशादस्य बहुस्थलेषु मतभेदोऽप्यवलोक्यते यथालङ्कारप्रकरणे । अस्य ग्रन्थस्य महदुपयोगित्वादेव चिरन्तनकालादध्ययनाध्यापनादिषु प्रचुरप्रचार आसीत् । यश्च परवर्ती कुवलयानन्दाख्यः अलङ्कारग्रन्थोऽप्पयदीक्षितविरचितः सोऽपि चन्द्रालोकालङ्कारप्रकरणस्य व्याख्यारूप एव । तथा चोक्तं तत्रैव -

येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यते । इति ।

चन्द्रालोको विजयतां शरदागमसम्भवः रम्यः कुवलयानन्दो यत्प्रसादादभूदयम् । इति च ।।

किं बहुना, श्रीयोधपुराधीशेन १६८३-१७३५ ई० वर्षेषु वर्तमानेन प्रथमेन यशवन्तसिंहमहाराजेन हिन्दीभाषायां छन्दोनिबद्धो भाषाभूषणाख्योऽलङ्कारग्रन्थोऽपि चन्द्रालोकाश्रयेणैव प्रणीत इति व्यक्तमेव । तुलसीदासादीनामुपर्युपरि यत्र तत्र चन्द्रालोकस्य पूर्णरूपेण प्रभाव आसीत् । अस्य ग्रन्थस्यात्राष्टौ प्राचीनाष्टीकाः समुपलभ्यन्ते । तासु प्रथमा प्रद्योतभट्टाचार्यविनिर्मता सर्वतः प्राचीना | शरदागमाख्या चन्द्रालोकप्रकाशापरनाम्नापि व्यवह्रियते।

अपरश्च यो ग्रन्थः प्रसन्नराघवाख्यः । स हि रामायणकथाधारेण निर्मितः । अत्र सप्ताङ्काः, ३९३ श्लोकाश्च सन्ति ।

अविमशनी सम्पादयतु

( १३०० ई० )  ( एकैव नवीनाऽलङ्कारः ) रूय्यकरचितस्य ‘अलङ्कारसर्वस्व' ग्रन्थस्य जयरथनाम्ना काश्मीरिकेण विदुषा ‘विमशिनी' टीका कृता । जयरथोऽयं काश्मीरिको राजराजनृपमन्त्रिप्रवरस्य शृङ्गारकवेरात्मज आसीत् । अमुना कृतस्य ‘विमशनी' नामक व्याख्या मूलग्रन्थयुताऽद्यापि पुण्यपत्तनस्थ दक्षिणकालेजाख्य संस्थातः प्राप्यते । अमुना राजानकजयरथेन 'हरचरितचिन्तामणिकाव्यम्' नाम स्वतन्त्रः काव्यग्रन्थोप्यग्रन्थि, यो मोहमयीस्थेन ‘निर्णयसागरप्रेस' नाम्ना मुद्रणालयेन प्रकाशित आसीत् । अमुना ज्ञातकत्तृ के ‘पृथ्वीराजविजय' काव्ये ‘अलङ्कारविमशिनी' नामक टीका व्यरचि, १२०० ख्रीष्टाब्देऽतस्तत्पश्चादेव राजानकजयरथस्यापि समयः आसीत् । श्रीमदभिनवगुप्तपादरचिते दार्शनिकग्रन्थे ‘प्रकाशिका'ख्ये द्वे टीके अपि तेन विरचिते । अयमेवाचार्याभिनवगुप्तपादानां तन्त्रालोकमहार्णवस्य कर्णधारोऽप्यासीत् । पण्डितराजजगन्नाथेनाऽपि विमशिनीटीकायाः चर्चा कृता । विमशिन्यां जयरथेन 'काव्यप्रकाशः' काव्यप्रकाशसंकेतस्योल्लेखः कृतस्तेनायं माणिक्यचन्द्रादुत्तरवर्ती स्वतः एव प्रमाणितो भवति । अस्य प्रपितामहभ्राता महाराजउच्छलस्य ( ११०१-११११ ई० ) सचिवः आसीत् । जयरथस्य कनिष्ठभ्राता जयद्रथनामासीत् । जयद्रथोऽपि महाकविरासीत् । उभावपि भ्रातरौ १२०३-१२२६ ख्रीष्टाब्दभवस्य राजदेवनाम्नो भूपतेराश्रितावास्ताम् । जयद्रथेन ‘हरचरितचिन्तामणि' नामक महाकाव्यं व्यरच्यत । एतस्य काव्यस्य सर्वे सर्गाः अनुष्टुप् छन्दसैव व्यरचिषतेति विशेषः । अतः काणेमहोदयेनाऽपि जयरथस्य कालः त्रयोदशशताब्दी एव निर्णीतम् विमशिनीटीकायां जयरथेन उदाहरणनामकालङ्कारस्य निरूपणं कृतमिति ।

काव्यानुशासनम् (द्वितीयरुय्यकः) सम्पादयतु

(१४०० ई० ) (द्वौ नवीनालङ्कारी+६७ प्राचीनाः= ६९ अलङ्काराः )

काव्यानुशासनस्य प्रणेता वाग्भट: जैन आसीत् । अस्य पितुर्नाम नेमिकुमार आसीत् । अयं हि मेदपाटस्य ( मेवाडस्य ) नलोटकपुरनिवासी आसीत् । अस्योल्लेखः स्वयमेवानेन काव्यानुशासनस्यालङ्कारतिलकनाम्नीव्याख्यायां कृतः । तद्यथा--

गायन्ति रासकविधाविहमेदपाटनार्योऽधुनाऽपि तव नेमिकुमारकीत्तिम् ।[२४]

काव्यानुशासनादतिरिक्तमनेन ऋषभचरिताख्यमहाकाव्यम् तथा छन्दोऽनुशासननामकस्य ग्रन्थस्यापि रचना कृता । केचित् वाग्भटालङ्कारस्य रचयिता प्रथम वाग्भटः वाभटो वा, द्वितीयवाग्भट्ट इति नाम्ना व्यवहरन्ति । तन्न युक्तम् । वस्तुतस्तु द्वावपि भिन्नावेव । द्वितीयवाग्भटनिमित नेमिनिर्वाणकाव्यमप्यस्ति । एतन्महाकाव्यस्य पञ्चदशसर्गेषु जैनतीर्थङ्करनेमिनाथस्य चरित्रवर्णनमस्ति । एतत्कविताऽपि स्निग्ध-माधुर्य-प्रसा दैः पूर्णा । वाग्भटालङ्कारस्य प्रणेता प्रथमवाग्भटस्तु अस्मात्पूर्ववर्ती आसीदेवेति निश्चितम् यतो हि अनेन काव्यानुशासने प्रथमवाग्भट-वामन-दण्डी प्रभृतीनामाचार्याणां नामोल्लेखपूर्वकेण चर्चा कृता । तद्यथा-‘दण्डि-वामन-वाग्भटादिप्रणीता दशकाव्यगुणाः। वयन्तु माधुयजः प्रसादलक्षणास्त्रीनेव गुणान् मन्यामहे । (काव्यानुशा० पृ० ३१) अस्य समयस्तु १४०० ई० निर्णीतमेव । अनेन द्वावभिनवालङ्कारावुभावितौ । ६९ अलङ्काराणामनेन विवेचनं कृतम् । काव्यानुशासनस्य पञ्चाध्यायाः सन्ति । तत्र प्रथमेऽध्याये-काव्यप्रयोजनम् निरूपितम् । द्वितीयेऽध्याये-दोषगुणयोः विवेचनमस्ति । तृतीयेऽध्याये-अर्थालङ्काराणां विवेचनमस्ति । तेषु-अन्य-अपर-पूर्व-लेश-आशीःपिहित-मत-उभयन्यास-भावादीनां विलक्षणरूपेण वर्णनमस्ति । चतुर्थेऽध्यायेषट्शब्दालङ्काराणां निरूपणमस्ति । पञ्चमेऽध्याये-रस-रसदोषयोः विवेचनमस्ति ।

साहित्यदर्पणम् सम्पादयतु

( १३००-१३८० ई० ) - ( नवीनाऽलङ्काराः २+७५==७७ )

कविराज-विश्वनाथः कलिङ्गवासी समृद्धकुलसम्भवाश्वासीत् । अस्य कुलं पण्डित्ये प्रसिद्धम् । अस्य पितुर्नाम चन्द्रशेखरस्तथा पितामहस्य नाम नारायणदास आसीत् । अस्य कलिङ्गदेशीयत्वे-काव्यप्रकाशपञ्चमोल्लासे 'कुरुरुचिम्' इति पदयोर्वैपरीत्ये इति प्रतीकमुपादाय प्रकाशदर्पणे 'वैपरीत्ये रुचिङकुरु’ इति पाठः । अत्र चिकुपदं काश्मीरादिभाषायामश्लीलार्थबोधकम्, कब्रिङ्गदेशीयभाषायां ‘धृतवांऽकद्रव' इत्यादिविश्वनाथोक्तमेव प्रमाणम् । अस्य चन्द्रशेखरात्मजे तु--

श्रीचन्द्रशेखरमहाकविचन्द्रसूनु श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।

साहित्यदर्पणममुं सुधियो विलोक्य साहित्यतत्त्वमखिलं सुखमेव वित्त ।।

एतत् पित्री चन्द्रशेखरेण प्रणीतम्-पुष्पमाला, भाषावश्चेति ग्रन्थद्वयं प्रथते ।

नारायणदासस्यास्य स्यकीयपितामहत्वमपि साहित्यदर्पणगतरसप्रकरणतोऽवगम्यते । तथाहि - 'यदाहुः-श्रीकलिङ्गभूमण्डलाखण्डलमहाराजाधिराजश्रीनरसिंहदेवसभायां धर्मदत्तं स्थगयन्तः सकलहृदयगोष्ठीगरिष्ठकविपण्डितास्मपितामह श्रीमन्नारायणदासपादाः' इति । दीपिकाकारचण्डीदासश्च नारायणदासानुजस्तदप्युक्तं विश्वनाथेनैव रसप्रकरणे-'इहास्मत्पितामहानुजकविपण्डितमुख्यचण्डीदासपादैरुक्तम्' इति । 'सान्धिविग्रहिक' इत्यादिविशेषणेन प्रधानमन्त्रिपदे स्थितो विश्वनाथो जात्या ब्राह्मण एव तथा कस्यचिन्नृपाधीन महत्त्वपूर्णपदासीन एवेति प्रतिभाति । अयं हि विश्वनाथकविराजो न केवलां संस्कृतभाषामेव नाऽपि वा द्वित्रा अन्यभाषा अपि तु अष्टादशाऽपि भाषास्तथा ज्ञातवान् यथा तासु तास्वपि भाषासु रमणीयान् गुणालङ्कारयुतान् भाषापाठावबोधकप्रबन्धान् रचयितुं समर्थो बभूव । तेन हि स्वयं साहित्यदर्पणस्य प्रथमपरिच्छेदान्तभागे लिखितम् 'अष्टादशभाषावारविलासिनी भुजङ्गः ।' इति । अत्रार्थे साहित्यदर्पणलोचनाख्यक विश्वनाथपुत्रस्यानन्तदासस्य लोचनारम्भोक्तिः प्रमाणम् । तथाहि -

'अशेषभाषारमणीभुजङ्गः साहित्यविद्यार्णवकर्णधारः ।

ध्वन्यध्वनि प्रौढधिया पुरोगः श्रीविश्वनाथः कविचक्रवर्ती ॥'

यः खलु काव्यप्रकाशदर्पणकारो विश्वनाथः स एव साहित्यदर्पणकारोऽपि । अतएव प्रकाशदर्पणद्वितीयोल्लासस्य लक्षणानिरूपणप्रसङ्ग 'एषां च षोडशानां लक्षणाभेदानामिह दर्शितान्युदाहरणानि मम साहित्यदर्पणेऽवगन्तव्यानि' इति सङ्गच्छते । एवं तत्रत्य दशमोल्लासाऽनुमानालङ्कारेऽपि 'तदुक्तं मत्कृते साहित्यदर्पणे' इत्युक्तिरपि सङ्गच्छते।

अथास्य समय:-कविराजविश्वनाथस्य यद्यपि जन्मसमयादिनिरूपणे । स्फूटतरं तादृशं । किमपि प्रमाणं नोपलभ्यते तथापि तन्निरूपणं नातिकठिनमिव प्रतिभाति । तथाहि पूर्वोक्तदिशा चायं विद्वद्विभूतेमम्मटादर्वाचीनः, पण्डितराजजगन्नाथकृतरसगङ्गाधरोद्धृतेन-'यत्तु रसवदेव काव्यमिति साहित्यदर्पणे निर्णीतम् तन्न' इति पङ्क्त्यंशेन जगन्नाथात्प्राचीन इति निश्चप्रचम् । अनयोर्मध्ये कः काल इति विचिकित्सायां चतुर्दश शताब्दयाः ( १४०० ) पूर्वभाग एव पर्यालोचनेन निर्णीतो भवति । विश्वनाथेन गीतगोविन्दतः नैषधीयाच्च साहित्यदर्पणस्य चतुर्थपरिच्छेदे पद्यमिदमुद्धतम् -

सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः

अल्लावदीननृपतौ न सन्धिर्न च विग्रहः ।

स च यवनाधिपतिः 'सुल्तान अलाउद्दीनमुहम्मदखिलजी' इत्यभिधेयेन तत्समो पसिन आसीत। गौडदेशमाक्रम्य तत्रत्यं भुवं शशासायं खिल्जी। कलिङ्गराज्यशासकेन नरसिंहभूपतिना (१३०६ ई०) चायं पराजित आसीत् । अनन्तरं विषप्रयोगेण ख्रीष्टाब्दीय षोडशाधिक त्रयोदशशतके ( १३१६ ) वर्षे चायं यवनाधिपतिव्यपादितः केनचित्प्रच्छन्नपुरुषेण । साहित्यदर्पणस्यैको पाण्डुलिपिः या १४४०-१४८४ ईसवीये लिखिताऽपि जम्मूनगर्यां सुरक्षिताऽस्ति ( द्रष्टव्य--हिस्ट्री अफ संस्कृतपोयटिक्स पृष्ठ २८४) गोविन्दठक्कुरोऽपि निजकाव्यप्रकाशप्रदीपे साहित्यदर्पणस्य काव्यलक्षणस्यालोचना कृतम् । अतः बाह्यान्तरसाक्ष्याधारे साहित्यदर्पणकारविश्वनाथस्य समयः चतुर्दशशताब्दी ( १३००-१३८० ई० ) सुनिश्चितमेवेति ।

एतन्निमितप्रबन्धाः-काव्यप्रकाशदर्पणपञ्चमोल्लासे 'कष्टत्वादीनामनित्यदोषत्वम्' इति प्रतीकमुपादायोक्तं विश्वनाथेन-‘यथा मम नरसिंहविजये--

स्फुटविकटचपेटापातनेनायमष्टी

सपदि कुलगिरीन् वा खण्डशश्चूर्णयामि ।'

इत्यादिना नरसिंहविजयाख्यखण्डकाव्यस्य, तत्राष्टमोल्लासस्थ-तत्र मसृणनिर्वाहो यथा मम चन्द्रकलायां नाटिकायाम् इत्यादिना चन्द्रकलानाटिकायाश्च स्वकृतत्वेनोल्लेखः कृतः । साहित्यदर्पणस्य षष्ठपरिच्छेदे महाकाव्यलक्षणोदाहरणप्रसङ्ग स्वकृतराघवविलास-कुवलयाश्वचरितयोः करम्भकोदाहरणे स्वकृतरत्नावल्या असत्प्रलापवीथ्यङ्गोदाहरणे ‘प्रभावतीपरिणयनाटकस्य' चोल्लेखः स्पष्टरूपेण कृतः । एन्निमितप्रबन्धास्तु बहवो विद्यन्ते इति श्रूयते । किञ्च नेदानीन्तनं यावत् निखिला अपि दृष्टिपथे समायाता इति ।

एतासु कृतिषु प्रसिद्धो ग्रन्थः ‘साहित्यदर्पणः' । अत्र काव्यस्य नाटकस्य च सर्वाङ्गीण विवेचनं प्रस्तुतम् । काव्यप्रकाशशैल्या विरचितोऽप्ययं ग्रन्थः काठिन्यं न स्पृशतीति रचयितुश्चातुर्यम् प्रतीयते । अनेकस्थलेषु काव्यप्रकाशकारोऽप्याक्षिप्तः तत्प्रतिसमाधानं गोविन्दठक्कुरेण, गङ्गाधरशास्त्रिणा, शालिग्रामशास्त्रिणा च कृतम् ।

(नामतः विश्वनाथनिमितप्रबन्धाः स्पष्टप्रतिपत्तयै -

( १ ) राघवविलासः ( महाकाव्यम् )

( २ ) कुवलयाश्वचरितम् ( प्राकृतकाव्यम् )

( ३) चन्द्रकला ( नाटिका )

( ४ ) प्रभावतीपरिणयम् ( नाटकम् )

( ५ ) प्रशस्तरचनावलिः (षोडशभाषानिर्मितकरम्भकम्)

( ६ ) नरसिंहविजयः ( खण्डकाव्यम् )

( ७ ) कंसवधम् ( काव्यम् )

( ८ ) काव्यप्रकाशदर्पणः ( काव्यप्रकाशटीका )

(९) साहित्यदर्पणः ( अलङ्कारशास्त्रीयप्रबन्धः ) ।

साहित्यदर्पणोऽयमलङ्कारग्रन्थेष्वेकतमः मूर्द्धन्यो ग्रन्थः । यद्यपि दर्पणकृता मम्मटाचार्यात्समधिको विषयो गृहीतस्तथापि काव्यलक्षणं विधायि दोषगुणरीत्यलाराणां सर्वेषामेव रसाधीनत्वं प्रदर्य सर्वे सामञ्जस्यं चोपपाद्य रससिद्धान्तस्य प्राधान्यं प्रतिपादितम् । साहित्यदर्पणस्य त्रयोंऽशाः–कारिका, वृत्तिरुदाहरणश्चेति । अनेन कतिचित् कारिका कस्यचित् प्राचीनाचार्यस्य शब्दतः गृहीताः शेषाः स्वयं रचिता, वृत्तिस्तु स्वीया एव, उदाहरणानि परेषामप्यदीयन्त। ग्रन्थोऽयं दशपरिच्छेदे विभक्तः। प्रथमपरिच्छेदे-काव्यप्रयोजनकथनानन्तरं काव्यलक्षणं प्रतिपादितम् । तदन्ते दोष-गुण-रीत्यादीनां वाच्येन सह सम्पर्को वणतः । द्वितीयपरिच्छेदे–वाक्यस्वरूपम्, महावाक्यम्, पदलक्षणम्, अर्थत्रैविध्यम्, अभिधा, लक्षणा, लक्षणाभेदाः, व्यञ्जना व्यञ्जनाभेदाः, तात्पर्यवृत्तिश्चेति वणताः । तृतीयपरिच्छेदे–रसस्वरूपम्, रसोत्पत्तिः, विभावस्वरूपम्, नायकस्वरूपम्, नायिकास्वरूपम्, अनुभावस्वरूपम्, व्यभिचारिभावस्वरूपम्, स्थायिभावप्रतिपादनम्, शृङ्गारादिरसस्वरूपम्, रसविरोधप्रतिपादनम्, भावस्वरूपम्, भावशान्त्यादिनिरूपणञ्चेति । चतुर्थपरिच्छेदे-चासंलक्ष्यक्रमव्यङ्गयध्वनेरुदाहरणेषु रसभावावेव प्रदर्शितौ, न तु मम्मटवद् ध्वनेरन्तर्गतं तयोविस्तरेण वर्णनं कृतम् । पञ्चमपरिच्छेदे-व्यञ्जनावृत्तिस्थापनम् । मतान्तरेण रसनावृत्तिश्च । षष्ठपरिच्छेदे- सपरिकर काव्यलक्षणं, विधायापि दृश्यश्रव्यत्वभेदेन पुनरपि साङ्गोपाङ्ग काव्यं द्विविधमिति समस्तषष्ठपरिच्छेदे ग्रन्थकृता तथा निरूपितं यथान्यत्र क्वाऽपि लक्षणग्रन्थे संकलितरूपेण नोपलभ्यते, एतदेवाधिकं वैशिष्टयं प्रस्तुतग्रन्थकर्तुरिति । सप्तमपरिच्छेदे-दोषनिरूपणं दोषाणां गुणत्वप्रतिपादनम्, तथा तेषां प्रतिप्रसवः कविसमयप्रसिद्धिप्रतिपादनम् अष्टमपरिच्छेदे-गुणस्वरूपप्रतिपादनम्, अन्यकथितगुणानां स्वप्रतिपादितगुणेषु गतार्थत्वोपपादनञ्चेति । नवमपरिच्छेदे-रीतिस्वरूपम्, रीतिभेदप्रतिपादनम्, वक्त्रादिभेदे रीतिभेदस्वीकारश्चेति । दशमपरिच्छेदे- अलङ्कारस्वरूपकथनम्, शब्दार्थोभयालङ्कारकथनम्, शब्दालङ्कारप्रतिपादनम्, चित्रालङ्कारस्वरूपम्, प्रहेलिकाया अर्थालङ्कारत्वखण्डनम्, अर्थालङ्कारप्रतिपादनम्, संसृष्टिसङ्करालङ्कारप्रतिपादनञ्चेति ।

अलङ्कारशेखरः सम्पादयतु

( १५००-१६०० ई० ) ( नवीनालङ्कारः १) मिथिला निवासी केशवमिश्रस्यालङ्कारशेखरः अलङ्कारशास्त्रस्येकः महत्त्वपूर्णग्रन्थोऽस्ति । अनेन हि अलङ्कारसूत्रकारशौद्धोदनिकृतानि कारिकारूपाणि सूत्राणि स्वग्रन्थे मूलत्वेनोपसंगृहय तेषामुपरि वृत्तिरूपनिबद्धा । तदुक्तमलङ्कारशेखरग्रन्थारम्भे-‘अलङ्कारविद्यासूत्रकारो भगवाञ्छौद्धोदनिः परमकारुणिक: स्वशास्त्रे प्रवर्तयिष्यन् प्रथमं काव्यस्वरूपमाह ।' तत्रैव च पुनः --

श्रुतमेवान्यथाकारमक्षराणि कियन्त्यपि ।

काव्यालङ्कारविद्यायां शौद्धोदनिरसूत्रयत् ।।

संभवतः केनाऽपि बौद्धाचार्येण रचितेमाः कारिकाः पश्चाद्भगवान् शौद्धोदनिना मतः प्रचारिताऽभवत् । सम्पूर्ण ग्रन्थोऽयमष्टरत्नेषु विभक्ताः । ग्रन्थेऽस्मिन् द्वाविंशतिः मरीचयः सन्ति। ग्रन्थेऽस्मिन् प्रथमन्तु काव्यस्वरूपमाह -काव्यरसादिमद्वाक्यं श्रुतं सुखविरोधकृत' पश्चात् सर्वानपि. काव्यविषयान् निरूपणं कृतम् । कारिकाप्यैकादशशतकपश्चात्तनी एवेति प्रतीयते । यतो हि अस्यां महिमभट्ट-राजशेखर-वाग्भटालङ्कार-गोवर्द्धन-भोजराज-श्रीपादप्रभृतीनामुल्लेखो कृतः ।। | केशवमिश्रेण अलङ्कारशेखरस्य रचना धर्मचन्द्रसूनुमाणिक्यचन्द्रानुरोधेन । कृताऽस्ति । कनिङ्मस्य कथनानुसारेण धर्मचन्द्रस्य पुत्रः राजा माणिक्यचन्द्रः .. काँगडायाः राजसिंहासने समासीनाऽसीत् ।[२५] असौ दशवर्षपर्यन्तं तस्य देशस्य शासनं कृतवान् । अतः १२वीमश्रस्याऽपि समयः षोडशशताब्दी एव निश्चित अलङ्कारशेखरस्याऽपि रचनाकाल: १५६३ ई० तः १५७३ ई० पर्यन्तमेवासीत् ।

केशवमिश्रेण गौड़ी-वैदर्भीरीतिभ्यां सह मैथिलेन स्वीकृता मागधी किम्वा मैथिली तृतीयारीतिः स्वीक्रियते । अनेनास्य मैथिलब्राह्मणत्वं सिद्धयति । अनन ‘अन्यदेशत्व' नामकस्यैकस्य नवीनालङ्कारस्योद्भावनं कृतम् । मैथिलीतस्वीकरणेऽस्यैव कथनं प्रमाणम् । तद्यथा

गौडीसमासभूयस्त्वात् वैदर्भी च तदल्पतः अनयोः संकरो यस्तु मागधी सातिविस्तरा ।

गौडीयैः प्रथमा मध्या वैधर्म-मैथिलैस्तथा, अन्यैस्तु चरमा रीतिः स्वभावादेव सेव्यते ।।[२६]

कुवलयानन्दः सम्पादयतु

( १५४०-१६१३ ई० ) । ( नवीनाऽलङकाराः २+१२१=१२३ ) भारद्वाजगोत्रोत्पन्नः काञ्च्या निकटे ‘अडपप्पल' ग्रामनिवासी वक्षःस्थलाचार्यापरसंज्ञकस्य आचार्यदीक्षितस्य पौत्रः रङ्गराजाध्वरिणः पुत्रः महामनीषी द्वासप्ततिवर्षपर्यन्तं जीवितः शतसंख्यकान् ग्रन्थान् रचयामास । उक्तञ्च स्वयमेव न्यायरक्षामणौ -

‘आसेतुबन्धतटमा च तुषारशैलादाचार्यदीक्षित इति प्रथिताभिधानम् ।

अद्वैतचित्सुखमहाम्बुधिमग्नभावमस्मत्पितामहमशेषगुरुं प्रपद्ये ।।

चित्रमीमांसायां-यथाऽस्मत्कुलकूटस्थवक्षःस्थलाचार्यविरचितवरदराजवसन्तोत्सवे -

‘काञ्चित् काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम् ।

वरदः संशयापन्नो वक्षःस्थलमवेक्षते ।।

एवञ्च सिद्धान्तलेशसंग्रहान्ते -

‘विद्वगुरोविहितविश्वजिदध्वरस्य श्रीसर्वतोमुखमहाव्रतयोजिसूनोः ।

श्रीरङ्गराजमखिनः श्रितचन्द्रमौलेरस्त्यप्पदीक्षित इति प्रथितः तनूजः ।।

प्रबन्धरचना एवं जीवनादिविषये दीक्षितभ्रातुष्पुत्रनीलकण्ठद्वाराविरचिते ‘शिवलीलार्णव'प्रथमसर्गे चैवं प्रमाणमुपलभ्यते -

कालेन शम्भुः किल तावताऽपि कलाश्चतुःषष्ठिमिताः प्रणिन्ये ।।

द्वासप्तति प्राप्य समान् प्रबन्धाने शतं व्यधादप्पयदीक्षितेन्दुः ॥

चित्रमीमांसायान्त्वतिशयोक्ति-अलङ्कारपर्यन्तमनेन विवेचितम् । यद्यपि ग्रन्थोऽयमपूर्णस्तथापि शङ्करस्याद्धेन्दुवदाह्लादकरः -

अप्यर्द्धचित्रमीमांसा न मुदे कस्य मांसला ।।

अनूरुरिव घशोरद्धेन्दुरिव धर्जटेः । —कूव०

अयं च विजयनगराधीश्वराणां ‘चिनवोम्भनरसिंहदेव-वेङ्कटपतिराव' संज्ञकानां समकालिक आसीत् । तथाहि -

अमुकुवलयानन्दमकरोदप्पदीक्षितः ।

नियोगाद् व्यङ्कटपतेनिरुपाधिकृपानिधेः ।।

पद्यमिदं दीक्षितस्य यात्राप्रबन्ध निजविरचितचित्रमीमांसायां कुवलयानन्दे च समुपलब्धमस्ति । कुवलयानन्दस्य सर्वप्रथम टीकाकर्त्तः वैद्यनाथस्य सत्ताकालः १६८३-१७११ ई० वर्षान्तो व्यवसीयते । तथा चाप्पयदीक्षितस्य १५४०१६१३ ई० वर्षान्तो जीवनकाल इति म० म० काणे तथा सीतारामजोशी प्रभृतीनां महोदयानां मतम् । १५५४-१६२६ ई० वर्षान्तोऽस्य जीवनकाल इति वङ्गभाषामये संस्कृतसाहित्येतिहासे निर्दिष्टम् । अतोऽस्य महोदयस्य कालस्तु १५४०-१६१३ ई० वर्ष एवेति निश्चितम् ।

अयं दीक्षितः स्वपितुः रङ्गराजाध्वरिणः सकाशादेव सर्वविद्याजग्राहेत्यनेकस्थलेषु ‘तातचरणव्याख्यावचः ख्यापितान्’ ‘विद्वद्गुरोविततविश्वजिदध्वरस्य' इत्यादिना स्वयमेव स्पष्टीकृतवान् ।

यद्यप्यनेन विदुषाशतसंख्यकास्ततोऽधिका वा ग्रन्थाः विरचिताः किञ्च तेषु वृत्तिवात्तिकम्, चित्रमीमांसा, कुवलयानन्दश्चेत्यलङ्कारशास्त्रग्रन्थत्रयम् । तत्र कुवलयानन्दो ग्रन्थः पीयूषवर्षकृतश्चन्द्रालोकालङ्कारप्रकरणस्य व्याख्यारूप एव । उक्तञ्चात्रैव -

येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः, प्रायस्त एव तेषां त्वभिनवा विरच्यन्ते ।। इति ।

चन्द्रालोको विजयतां शरदागमसम्भवः । रम्यः कुवलयानन्दो यत्प्रसादादभूदयम् ।। इति च ।

अत्र कुवलयानन्दे त्रयोविंशत्यधिकशतमलङ्काराः । तेषु द्वावभिनवालङ्कारा , विति । अस्य ग्रन्थस्य नव टीकाः समुपलभ्यन्ते ।

रसगङ्गाधरः सम्पादयतु

( १६००-१६७० ई० ) ( एकैवनवीनालङ्कारः १+६८=६९ ) पितुः पेरुभट्टस्य मातुर्लक्ष्म्याश्च पुत्रो तैलङ्गदेशावयवमुनगुण्डाभिधग्रामवासी वेजिनतीजातीयो जगन्नाथो गोदावरीमण्डलस्य भूषणमासीत् । तस्याभिजनं नाम ‘उपद्रष्टा' इत्यासीत् । तद्यथा -

'तैलङ्गान्वय-मङ्गलालय-महालक्ष्मीदयालालितः

श्रीमत्पेरमभट्टसूनुरनिशं विद्वल्ललाटं तपः ।

सन्तुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं

श्रीमत्-पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम् ।।[२७]

स्वस्वाध्यायविषये स्वयं लिखति -

श्रीमज्ज्ञानेन्द्रभिक्षोरधिगतसकलब्रह्मविद्याप्रपञ्चः

काणादीराक्षपादीरपि गहनगिरो यो महेन्द्रादवेदीत् ।

देवा देवाध्यगीष्ट स्मरहरनगरे शासनं जैमनीयम् ।

शेषाङ्कप्राप्तशेषामलभणितिरभूत् सर्वविद्याधरो यत् ॥ इति ।

जगन्नाथः ‘शाहजहाँ नामकस्य मुस्लिमशासकस्य सभायामासीत् । सम्राजा स्वकीयजेष्ठात्मजस्य ‘दाराशिकोहस्य' संस्कृताध्यापनाय निमन्त्रितस्तदर्थं दिल्लीं गतवानयं महात्मा । अथैतत्सामयिकप्रकर्षपाण्डित्येन नितरां तुष्टो राजा ‘पण्डितराज' इत्युपाधिदानेनैनं विभूषयामास । युवावस्थायां दिल्लीपतेरेवाश्रये जीवन व्यतीतः । तद्यथा--

दिल्लीश्वरो वा जगदीश्वरो वा मनोरथान् पूरयितुं समर्थः अन्येन केनाऽपि नृपेन दत्तं शाकाय वा स्याल्लवणाय वा स्यात् । दिल्लीबल्लभपाणिपल्लवतले नीतं नवीनं वयः ।[२८] अस्यामेव युवावस्थायां जगन्नाथः कस्यांचन यवनयुवत्यामासक्तो जातिच्यूतो भूत्वा तामुपयेमे इति प्रवादो जगन्नाथस्य नाम्ना प्रचारिताभिः कविताभिरपि पुष्टि नीयते । यथा -

न याचे गजालिं न वा वाजिराजि न वित्तेषु चित्तं मदीयं कदापि ।

इयं सुस्तनी मस्तंकन्यस्तहस्ता लवङ्गी कुरङ्गीदृगङ्गीकरोतु ।

यवनीनवनीतकोमलाङ्गी शयनीये यदि लभ्यते कदाचित् ।

अवनीतलमेव साधु मन्ये नवनी माधवनी विनोदहेतुः ॥

इत्यादि तस्यां मृतायां जगन्नाथो राजाश्रयं परित्यज्य मथुरा समागतः । मृत्योः | पूर्वं स प्रायश्चित्तं कत्तु काशीं समागतः । एकदा कनश्यां प्रभाते जगन्नाथं शयितं दृष्ट्वाऽप्यदीक्षितेन कथितम् -

किं निःशङ्कं शेषे शेषे वयसि समागते मृत्यौ ।

अथवा सुखं शयीथा निकटे जागत्ति जाह्नवी भवतः ।।

यद्यप्यस्य श्लोकस्य नास्ति कोऽप्यैतिहासिकाधारः । शाहजहाँ १६२८ ई० तः १६३८ ई० पर्यन्तं राज्यमकरोत् । अतो जगन्नाथस्य समयविषये ( १६०० ई० तः १६७० ई० पर्यन्तम् ) कोऽपि संशयो नोदयते । १६७४ ई० वर्षेऽस्य मृत्युरभवत् ।

दिल्लीनिवाससमय एव हि ‘जगदाभरण' नामिकां शाहजहाँपुत्रदाराशिकोहस्य' ‘आसफविलास' नामिकामपि दारासभासद नवाब-आसफखां' नाम्नश्च प्रशस्तिमुपनिबद्धवानयं महाभागः । एतदतिरिक्तं रसगङ्गाधर-कुचमदनी-पीयूष• लहरी-( गङ्गालहरी-सुधालहरी-अमृतलहरी-करुणालहरी-लक्ष्मीलहरी )-यमुना'वर्णनचम्पू-रतिमन्मथनाटक-अश्वघाटीकाव्य-प्राणाभरणकाव्य-भामिनीविलासादीनां प्रणयनञ्चकारेति विश्रुतमस्य पाण्डित्यम् । कुवलयानन्दचित्रमीमांसादिकर्तरप्पयदीक्षितस्य तु जातिगतं वैमनस्यमाधाय प्रतिपदं खण्डनञ्चकार पूर्णपाण्डित्यगर्वेण । यच्चकार कुचमर्दनी कृत्वा भट्टोजिदीक्षितमनोरमाखण्डनं तत्तु प्रक्रियाप्रकाशकर्तुर्वीरेश्वरगुरोर्मनोरमायां खण्डनं दृष्ट्वैव । अतः स्वयमेव तदारम्भे लिखितम् -

लक्ष्मीकान्तपदाम्भोजं प्रणम्य श्रेयसां पदम् ।

पण्डितेन्द्रो जगन्नाथः स्यति गर्वं गुरुद्रुहाम् ।। इति ।

एतदीय रसगङ्गाधरनामाऽलङ्कारग्रन्थः साहित्यस्य सर्वाधिकः प्रौढो मर्म प्रकाशकः शास्त्रीयविवेचनापूर्णः । एतस्य समये नव्यन्यायशास्त्रं प्रचुरप्रचारमजायत, अतोऽनेन स्वग्रन्थे तदनुसारिणी सूक्ष्मेक्षिका समाश्रिता, येन पदार्थनिर्वचने स्थूलतापदं नाधात् ।

- रसनिरूपणेऽनेन महती स्पष्टता सूक्ष्मता च प्रकटीकृता, माधुर्यादिनिरूपणमपि नितान्तनुतनं कृतम् । अलङ्काराणां लक्षणं सूत्रशैल्या निबध्य तद्भाष्यमपि नितान्तप्रौढं कृतम् । अनेन तिरस्कारनामकेनैकेनालङ्कारेण सह नवाधिकषष्ठि अलङ्काराणां निरूपणं कृतमिति । एतदतिरिक्तो कत्यलङ्कारा निरूपयितुमिष्यन्तेस्म, इत्यनुमितुमशक्यः । यतो हि रसगङ्गाधरमपूरितवन्तमेव पण्डितराजं कालः लोकान्तरमनैषीत् । पण्डितराजजगन्नाथानन्तरे न कस्याऽपि नवीनालङ्कारस्य जन्ममभूत् । यतो हि संस्कृतसाहित्याकाशस्यान्तिमदेदीप्यमाननक्षत्रः . पण्डितराजजगन्नाथ एवासीत् । अत एव मुनिभरताज्जगन्नाथपर्यन्तमलङ्काराणाविकासक्रममवधार्य प्राथमिक ‘क’वर्गे आलङ्कारिकाणां संक्षिप्त इतिहासः प्रस्तुतो मया । काव्यशास्त्रीयान्येषां तत्त्वानामुद्भावने निरूपणे च येषामाचार्याणां महत्त्वपूर्णं योगदानमस्ति ।

मेधाविरुद्रस्य सिद्धान्ताः सम्पादयतु

(४०० ई० ) कतिपयेष्वलङ्कारशास्त्रीयग्रन्थेषु मेधाविन उल्लेखो दृश्यते भरतमुनेः पश्चात्तथा भामहात्पूर्वकाले एवास्य समयो निर्धारितुं शक्यते । मेधाविनः समयश्च ४०० ई० खीष्टाब्दतः ४५० खीष्टाब्दपर्यन्तमितीहासविदो वदन्ति । एतद्विरचितः न कोप्यालङ्कारिकग्रन्थः समुपलभ्यते सम्प्रति । अथाप्यस्याऽलङ्कारिकस्य जीवनकाल: चतुर्थशतकस्यान्तिमो भागो वर्ततेऽथवा पञ्चमशतकस्य पूर्वार्द्धभागोऽवधारयितुं शक्यते । दाक्षिणात्योऽयमिति प्रायः वस्तुवृत्तविदो वदन्ति । अयमेव महापुरुषः ‘मेधावी' इति ‘मेधाविरुद्र' इति वा व्यपदिश्यते ।

मेधाविनः सिद्धान्तस्य चर्चा यत्र तत्र भामह-दण्डि-वामन-राजशेखर-नमिसाधुप्रभृतीनामाचार्याणां कृतिषु मिलति । 'दण्डि-मेधाविरुद्र-भामहादि-कृतानि सन्त्येवालङ्कारशास्त्राणि' ( रूद्रटालङ्कारस्य प्रथमपृष्टे टीका तस्य द्रष्टव्या ) नमिसाधुस्तथा भामहस्तु मेधाविनः कारिकायारुद्धरणमपि स्वस्वग्रन्थे निवेशिताः । किञ्च दुर्भाग्यवशात् सम्प्रत्यस्यैकोऽपि कृतिर्नोपलभ्यते । आचार्यभामहस्तूपमादोषस्य प्रसङ्ग लिखितः -

हीनताऽसम्भवो लिङ्गवचोभेदी विपर्ययः, उपमानाधिकत्वञ्च तेनासदृशताऽपि च ।

त एत उपमादोषाः सप्तमेधाविनोदिताः, सोदाहरणलक्ष्माणो वर्ण्यन्तेऽत्र च ते पृथक् ।।[1]

रुद्रटाऽलङ्कारस्य व्याख्यायां नमिसाधुरपि मेधाविना निदष्टसप्तोपमादोषाणामुल्लेखः कृतवान् । तद्यथा-'अत्र च स्वरूपोपादाने सत्यपि चत्वार इति ग्रहणात् यन्मेधाविप्रभृतिभिरुक्तं यथा लिङ्गवचनभेदी हीनताधिक्यमसम्भवाः विपर्ययः सादृश्यमिति सप्तोपमादोषा इति । रुद्रटालङ्कारस्य टीकायां नमिसाधनोल्लिखितः-‘एत एव चत्वारः शब्दविद्या' इति येषां सम्यमतम् तत्र तेषु नामादिषु मध्ये मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता. भवेयुरिति ।' रुद्रटाऽलङ्कारे राजशेखरेण जन्मान्धकविरूपेण मेधावी स्मृतः तद्यथा -

‘प्रत्यक्षप्रतिभावतः पुनरपश्यतोऽपि प्रत्यक्ष इव ।

यतो मेधाविरुद्रकुमारदासादयः जात्यन्धाः कवयः श्रूयन्ते ।।'

भामहेन मेधाविनः यथासंख्योत्प्रेक्षालङ्कारवर्णनप्रसङ्गे कृतः -

यथासंख्यमथोत्प्रेक्षामलङ्कारद्वयं विदुः ।

संस्थानमिति मेधाविनोत्प्रेक्षाभिहिता क्वचित् । । [10]

अन्यदपि -

एत एवेत्यादिना निर्देशेन सिद्धो भवति यन्मेधाविनः पुराऽलङ्कारशास्त्रे कोऽपि ग्रन्थ आसीद्यदधुना तद्रूपेणोपलभ्यते ।

अनुयोगद्वारसूत्रम् सम्पादयतु

( ५५० ई० ) जैनाचार्यः श्रीमत्स्थविरविरचितानुयोगद्वारसूत्रं प्राकृतभाषायां लिखितः जैनीयदर्शनस्य महत्त्वपूर्णग्रन्थोऽस्ति । अस्मिन् ग्रन्थे नवकाव्यरसानामप्युल्लेखो वर्त्तते । एतेषु नवरसेषु ब्रीडनक-प्रशान्तौ द्वौ विशिष्टरसौ स्तः । मलधारी हेमचन्द्रेणास्यां व्याख्यायां लिखितः यद् ब्रीडनकस्य स्थाने एवान्यत्र भयानकस्य रसस्य प्रयोगो भवति । तद्यथा-अनुयोगद्वारसूत्रस्य टीकायां १२४ पृष्टे -

‘बीडयति लज्जामुत्पादयति लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलोकतादि यो ब्रीडनकः' ।

अस्य स्थाने मज्जनसंग्रामादिवस्तु दर्शनादिप्रभवः भयानको रसः पठ्यतेऽन्यत्र ।

ध्वन्यालोकः सम्पादयतु

( नवमशतकम् )। आनन्दवर्धनः काश्मीरक्षितिपालस्य अवन्तिवर्मणः सभापण्डित आसीत्

मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः ।

प्रथां रत्नाकरश्चागात् साम्राज्येऽवन्तिवर्मणः ।।

राजतरङ्गिणी अवन्तिवर्मणः समयः ८५५-८८४ ई० विद्यते । अत आनन्दवर्धनोऽपि तत्कालिकः । आनन्दवर्धनो ध्वनिसम्प्रदायस्य प्रवर्तकेष्वाद्यः कथ्यते । इतः। पूर्वमलङ्कारसम्प्रदायरीतिसम्दायावेवास्तामनेन ध्वनिसम्प्रदायः प्रर्वात्ततः । एतत्कृतौ प्रतिपदमौलिकता, गूढविषयव्यञ्जनक्षमता, विवेचनाशक्तिश्च प्रकाशन्ते । रसगङ्गाधरकारेण 'ध्वनिकृतामालङ्कारिकसरणव्यवस्थापकत्वात् इत्यादरोक्तियुक्तैव प्रकटीकृता ।

अस्यानन्दवर्धनाचार्यस्य पितुर्नाम 'नोणः' इत्यासीदिति एतत्प्रणीतात्। 'देवीशतक' पुस्तकाज्ज्ञायते । अयं काश्मीरेषु ख्रीष्टाब्दीयनवमशतकोत्तरार्धे अवन्तिवर्मनाम्नो महीपते राज्यसमये प्रसिद्ध आसीदिति प्रोक्तं मया पूर्वमेव । एतस्माद्भिन्नान्यपि प्रमाणान्येतद्विषये सन्ति । तद्यथा- ध्वन्यालोके कालिदासपुण्डरीकबाणभट्टोद्भटभाममनोरथसर्वसेनसातवाहनामरुकधर्मकीर्तीनां नामान्युपलभ्यन्ते, ग्रन्थानाञ्च मधुमथनविजय-रत्नावली-तापस-वत्सराजहर्षचरितरामाभ्युदयादीनामुदाहरणादिदानायोल्लेखः कृतः सम्प्राप्यते । वामनस्याप्यत्र कीर्तनम् । वामनेन तु स्वकीये ‘काव्यालङ्कारसूत्र'ग्रन्थे कादम्बरी-शिशुपालवधोत्तररामचरितादीनामुदाहरणानि दीयन्ते । तेन वामनस्य समयोऽष्टमशताब्द्युत्तरार्ध नवमशताब्दी पूर्वार्द्ध वा सिद्धयति । नवमशताब्द्यन्तिमचरणभवेन भट्टनायकेन स्वकृते ‘हृदयदर्पणे' ध्वन्यालोकस्य यत्खण्डनं कृतम्, ततः प्रतीयते, यदानन्दवर्धनस्य समयो नवमशताब्दीपूर्वाद्धात्. वामनकालात्, नवमशताब्द्यन्तिमचरणाद् भट्टनायककालाच्चान्तरालवर्ती आसीदिति । स एवासीत्। समयोऽवन्तिवर्मणो राज्यस्यापि । एतत्प्रणीता इमे ग्रन्थाः सन्ति।

१. 'ध्वन्यालोकः' यस्यापरे नामनी 'काव्यालोकः ‘सहृदयालोक' इत्यासाते।

२. 'देवीशतकम् इदं सटीक ‘काव्यमालायाः' नवमे गुच्छके प्रकाशितमभूत् ।

३. 'विषमबाणलीला' ( प्राकृतभाषया निबद्धा )।

४. ‘अर्जुनचरितम् ।

५. 'विनिश्चय' टीकाया ‘धर्मोत्तमायाः' विवृत्तिः ( अयं बौद्धग्रन्थः )

इह सर्वप्रथममुक्ते ध्वन्यालोकेऽस्त्यंशद्वयम् ।

( १ ) ध्वनिनाम्न्यः कारिकाः ।

( २ ) आलोकाख्या तवृत्तिश्चेति ।

सत्यपि मतभेदे द्वयोरंशयोः कर्ताऽयमेक एवं 'आनन्दवर्धनाचार्यः आसीत् । उदाहरणानि प्रायोऽन्येषामेव महाकवीनां काव्यनाटकादिग्रन्थेभ्यः संग्रहीतानीति स्पष्टमेव । यद्यपि एतस्मादानन्दवर्धनात् पूर्वमपि वाच्यादतिरिक्तस्यार्थस्य ध्वनित्वसम्बन्धे विचाराः प्रवृत्ता आसन्, तथाऽपि दृढाभिरूपोपपत्तिभिः सर्वप्रथम ममुनैव तस्य सिद्धान्तः स्थापित आसीत् इत्यसौ 'ध्वनिस्थापनपरमाचार्यः' इत्युच्यते । अमुष्मात्पूर्वं साहित्ये ‘अलङ्कारसम्प्रदायः' रीतिसम्प्रदायश्च इति द्वावेव सम्प्रदायौ प्रवृत्तावास्ताम् । एतस्य तृतीयः सम्प्रदायस्तु ध्वंनिसम्प्रदाय इत्युदीर्यंते। ध्वनिमार्गसंस्थापक एतस्यैव प्रथमो ग्रन्थो ‘ध्वन्यालोकः अस्ति । तत्राचार्याभिनवगुप्तपादरचिता 'लोचन'नामिका टीका सर्वतः प्रथममोहमयीस्थात् निर्णयसागरयन्त्रालयात प्रसिद्धिमागता प्रचरतिस्म । अधुना काश्चिदन्या हिन्दीटीकाः अपि संस्कृतटीकयाऽभिनवया सहकृता असहकूताश्च प्रचरन्ति । आनन्दवर्धनं महाकवी राजशेखर इत्थं प्रशंसति--

ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना ।

आनन्दवर्धनः कस्य नासीदानन्दवर्धनः ।।

लोचनटीकाविषयेऽभिनवगुप्तपादोऽप्येवं लिखति -

किं लोचनं विना लोको भाति चन्द्रिकयाऽपि हि ।

तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् ।। इति ।।

श्लोकेनानेनैतदपि प्रतीयते यत्-ध्वन्यालोके काचन चन्द्रिका नाम्नी टीकाऽपि प्रचलिताऽसीत् अभिनवगुप्तसमये । अत्र ग्रन्थे १२९ कारिकाः । चतुद्योतेषु विभक्तेऽत्र ग्रन्थे प्रथमोद्योते ध्वनिविरोधिमतालोचना तत्स्थापना च, द्वितीयतृतीययोरुद्योतयोर्ध्वनिप्रकाशः चतुर्थे ध्वनेरुपयोगिता निरूपिताः ।

काव्यमीमांसा सम्पादयतु

( ८८० ई०-९५० ई० ) राजशेखरः स्वनाटकप्रस्तावनासु स्वजीवनसम्बन्धे इदमुक्तवान्-‘यायावरेण दौहिकिना कविराजशेखरेण विरचिताया विद्धशालनामनाटिकायाः....' । विद्धशा० प्रस्तावना । एवञ्च–‘तदामुष्यायणस्य महाराष्ट्रचूडामणेरकालजलदस्य चतुर्थों दौर्बुकिः शीलवतीसूनुरूपाध्यायश्रीराजशेखर इत्यपर्याप्त बहुमानेन ••••••बालरामायणः १।१३।।

एतदाधारेण यायावरवंशेऽस्य जन्माऽऽसीत् यो वंशोऽकालजलद सुरानन्दतरलकविराजादीनां जन्मग्रहणेन गौरवान्वितः कथ्यते । अयं राजशेखरो महाराष्ट्रदेशीयः अकालजलदस्य पौत्रः दर्दूकस्य शीलवत्याश्च पुत्र आसीत् । अयं क्षत्रियचौहानवंशोद्भवाम् अवन्तिसुन्दरीं नाम ललनामुपयेमे । तद्यथा -

चाहुन-कुल-मउलि-मालिया राजशेहर-कइन्द-गृहिणी।

भत्तुणो किदिमवन्तिसुन्दरी सा पउंज इमेदमिच्छति ॥[10]

राजशेखरः बालरामायणे स्वजन्मान्तरविषये कथितवान् -

बभूव वाल्मीकभवः कविः पुरा ततः प्रभेदे भूविभतृ मेण्ठताम् ।

स्थितः पुनर्यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः ।।[3]

अस्य पत्नी अवन्तिसुन्दरी महाविदुषी बभूव । राजशेखरः पाकपरिभाषाविषये तन्मतमप्युपन्यस्तवान् । यथा-‘आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायः, तस्मात् पदानां परिवृत्तवैमुख्यं पाक इति वामनः ‘इयमशक्तिर्न पुनः पाकः इत्यवन्तिसुन्दरी । हेमचन्द्रदेशीय-नाममालायाम् अवन्तिसुन्दरीकृतम् ‘देशीयशब्दकोषम् स्मृतवान्, तथावन्तिसुन्दर्या कृतं कतिपयशब्दानां नवस्यार्थस्य । चर्चामपि कृतवान् अवन्तिसुन्दर्याः प्राकृतकविताप्रियतायाः प्रमाणमिदं यत्तदनुरोधेनैव राजशेखरः कर्पूरमञ्जरीसट्टकं प्राकृतभाषामयं निर्मितवान् ।

महाराष्ट्रदेशोभवोऽयं कान्यकुब्जराजस्योपाध्यायपदमलमकृत । एतदाश्रय-. दातुर्नाम महेन्द्रपाल इत्यासीदिति, यः प्रतिहार वंश्यनृपेषु गौरवशाली समाख्यातः । एतदादेशेनैव बालरामायणं प्रथममभिनीयतेस्म । कियतः कालस्य कृतेऽयमन्यं कञ्चननृपमप्याश्रयत् । यदादेशेन विद्धशालभञ्जिकाया अभिनयो जातः । महेन्द्रपालानन्तरमयं पुनस्तत्तनयस्य महीपालस्य सभ्यभावेन स्थिति यदादेशेन बालभारतस्याभिनयः प्रथमं पदमधत्त ।

एषां राज्ञां कालस्य पर्यालोचनया राजशेखरस्य काल: ख्रीष्टनवमशतकस्यान्तिमो भागो दशमशतकस्य पूर्वभागश्च सिद्धयति । यं महेन्द्रपालमयं स्मरति तेन कारितौ शिलालेखौ ९०३, ९०७ ख्रीष्टाब्दयोरुत्कीण, नवमशतकोत्पन्नमानन्दवर्धनमयमुद्धरति मुज( ९७५-९९३ )कृपाश्रयेण धनञ्जयेन चायं स्मर्यंते, सर्वमपीदमनुमोदयति ।

बालरामायणगतं विद्धि नः षट् प्रबन्धान्' इति वचनाधारीकृत्य राजशेखरेण षट्ग्रन्थाः रचिता इति वक्तुं शक्यते-

( १ ) काव्यमीमांसा

( २ ) बालरामायणम्

( ३ ) बालभारतम्

( ४ ) कर्पूरमञ्जरी

(५) विद्धशालभञ्जिका

( ६ ) हरविलासः ।

एषु प्रथमे पञ्च प्राप्ताः प्रकाशिताश्च । षष्ठस्य हरविलासस्योद्धरणं हेमचन्द्रेण काव्यानुशासनविवेके दत्तम्, तावतैव तस्य सत्वमनुमीयते। अष्टादशाध्यायेषु विभक्ता 'काव्यमीमांसा' विशदूपेण कविकर्तव्य तत्स्वरूपादि प्रतिपादनाय रचितः साहित्यालङ्कारविषयकोऽद्वितीयः, हृद्यो ग्रन्थः अत्र कविताविषयकं बहुज्ञातव्यम् निर्दिष्टम् । ।

अभिधावृत्तिमात्रिका सम्पादयतु

(८५०-९२० ई० ) मुकुलभट्टः मीमांसाशास्त्रस्य गम्भीर काश्मीरिकः विद्वान् आसीत् । अलङ्कारशास्त्रोपरि एतेन ‘अभिधावृत्तिमातृका' नामकः एक एव ग्रन्थो निमतो यो मुद्रितः समुपलभ्यते । अयं मुकुलभट्ट काश्मीरकस्य भट्टकल्लटस्य सुनुरासीत् । स्वकृतस्य ‘अभिधावृत्तिमातृका'नामकस्य ग्रन्थस्य समाप्तौ मुकुलेन स्वयमपि स्वस्य परिचयो दत्तः--

भट्टकल्लटपुत्रेण मुकुलेन निरूपिता ।।

सुरिप्रबोधनायेयमभिधावृत्तिमातृका ।।

भट्टकल्लटः काश्मीरनरेशस्यावन्तिवर्मणः राज्यकाले (८५५-८८३ ई०) विद्यमान आसीत् । तथ्यमिदं राजतरङ्गिण्याऽपि प्रमाणितो भवति । तद्यथा -

अनुग्रहाय लोकानां भट्टाः श्रीकल्लटादयः ।

अवन्तिवर्मणः काले सिद्धाभुवमवातरन् ।।[4]

प्रतीहारेन्दुराजोऽस्मादेव गुरोरधीतवान् तदुक्तं । तेनैव ‘उद्भटालङ्कारसारसंग्रहवृत्ती, प्रारम्भ एव--

‘विद्वदग्रयान्मुकुलोदधिगम्य विविच्यते ।

प्रतीहारेन्दुराजेन काव्याऽलङ्कारसङ्ग्रहः ॥ इति ।

अनेन च मुकुलभट्टस्य समयः नवमशताब्द्या उत्तरार्द्धः सिद्धो भवति । अभिधावृत्तिमातृकायां पञ्चदशकारिका एव सन्ति । अस्याः कारिकायाः वृत्तिरपि ग्रन्थकारेणैव लिखिता। अस्मिन् ग्रन्थे मात्राभिधाव्यापारस्यैव निरूपणं वर्तते । मूलतः ग्रन्थकारोऽयं मीमांसक आसीत् । तेनायं व्यञ्जनाय प्रत्याख्यानं कृतम् ।

काव्यालङ्कारसारसंग्रह-लघूवृत्तिव्याख्या सम्पादयतु

( ९०० ई० तः ९५० ई० ) प्रतीहारेन्दुराजस्य कोङ्णक्षेत्रे जन्माऽऽसीत् । विद्याध्ययनार्थमेवायं कश्मीर> समागतः । अमुना भट्टकल्लटपुत्राद्भट्टमुकुलादन्यशास्त्रैः सह साहित्यशास्त्रप्यधीतम् । तदुक्तं तेन उद्भटालङ्कारसारसंग्रहलघुवृत्तेः प्रारम्भे

विद्वदग्रयान्मुकुलकादधिगम्य विविच्यते ।

प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः ॥ इति ।

आचार्य-उद्भटस्य काव्यालङ्कारसारसंग्रहोपरि 'लघुवृत्तिः' नामिका ख्याऽयं लिखितवान् । अलङ्कारशास्त्रीयसिद्धान्तेऽयमलङ्कारसम्प्रदायस्यानुयी आसीत् । यतो हि ध्वनेरन्तर्भावोऽयमलङ्कारे एव कृतवान् । लघुवृत्ती अमरुक-उद्भट-कात्यायन-चूणकार-दण्डि–भामह-वामनप्रभृतीनामाचार्याणां नामोल्लेखो मिलति । उक्तं च तस्या एव वृत्तेः समाप्तावपि-महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ षष्ठोऽध्यायः' इत्युपक्रम्य -

मीमांसासारमेधात् पदजलधिविधोस्तर्कमाणिक्यकोशात् साहित्यश्रीमुरारेर्बुधकुसुममधोः सौरिपादाब्जभृङ्गात् ।

श्रुत्वा सौजन्यसिन्धोद्विजवरमुकुलात् कीर्तिवल्यालवालात्, काव्यालङ्कारसारे लघुविवृत्तिमधात् कौङ्कणः श्रीन्दुराजः ॥ इति ।

अयं ख्रीष्टदशमशतकस्य पूर्वार्द्ध समुद्भूत इत्यैतिहासिकाः । अस्य नाम श्रीन्दुराज आसीत् प्रतीहारस्त्वस्य कश्मीरनरेशेन प्राप्तोपाधिरेव प्रतीयते । उपाधिरियं स्वनाम्ना सहायमभिन्नमगं कृतवान् । यो हि पुरुषविशेषः–उदात्तः कुलीनः, उद्योगी, मृदुः, रणकुशलः, शूरः, अनुरक्तः, अभेद्यः, पत्तिविशेषज्ञश्चेङ्गितकुशलो भवति तमेव नीतिशास्त्रे प्रतीहारः कथ्यते । तद्यथा-‘कुलाढ्य उद्युक्तो मृदुरुदात्तः समचित्तः शूरोऽनुरक्तोऽभेद्यः पत्तिविशेषज्ञः इङ्गिताकारकुशलः प्रतीहारः स्यात् ।' ( याज्ञवल्क्यस्मृतावुपरि विश्वरूपेनोधृतबृहस्पतेः वचनम्[10] अनेन ज्ञायते यदयं कश्मीरनरेशस्य कोऽप्युच्चाधिकारी आसीत् । महामहोपाध्यायकाणेमहोदयस्य मतानुसारेणाभिनवगुप्ताचार्यस्य गुरुः भट्टेन्दुराजः प्रतीहारेन्दुराजात भिन्नः परवर्ती आचार्य आसीत्।[3] किञ्च डॉ० कान्तिचन्द्र पाण्डेय मतेनोभावऽप्येक एवासीत्।[4] अभिनवगुप्तानुसारेणार्य भट्टेन्दुराजः, वाल्मीकि-व्यास-कालिदासादीनां कोटेः कविरासीत् - ‘न हि सर्वो बाल्मीकिर्यासः कालिदासो भट्टेन्दुराजो वा ।'[5] अभिनवेनानुभावस्य प्राधान्यं कथयनिन्दुराजस्य निर्देशं यत्कृतम् तस्मिन्नपि केवलमिन्दुराजशब्दस्येव प्रयोगो वर्तते । तद्यथा-‘अनुभावप्राधान्य यथा-शुद्ध सारस्वत-प्रवाह-पवित्र-सकलवाङ्मय-महार्णव-पूर्ण-भावसम्पादनात . द्विजराजस्येन्दुराजस्य::::::।[6] यद्यपि समुद्रबन्धेनालङ्कारसर्वस्वव्याख्यायाम् प्रतीहारेन्दुराजम् भन्दुराजोऽपि कथितः भट्टेन्दुराजेन प्रीणितप्रणयीत्यादि अप्रस्तुतप्रशंसोदाहरणे:::भट्टोभट्टग्रन्थे'•• व्याख्यातम् ।'[7] येनोभयोरप्येकत्वमेव सिद्धयति । किञ्च प्रतीहारेन्दुराजः केवलमालङ्कारिकरूपेण एव एव ख्यातोऽस्ति, भट्टन्दुराजस्तु कविः, दार्शनिकः, आलङ्कारिकादिरूपेण प्रसिद्धः अस्ति । तद्यथा---

भट्टन्दुराजनाम्नायं विविच्य च चिरन्धिया कृतोऽभिनवगुप्तेन सोऽयंगीतार्थसंग्रहः ।[8]

अतः उभयोरपि व्यक्तिद्वयं मत्वा प्रतीहारेन्दुराजं ख्रीष्टाब्ददशमशतकस्य पूर्वार्द्ध तथा भद्देन्दुराजं दशमशतकस्योत्तरार्द्ध स्थापितुम् समुचितं प्रतीयते ।

काव्यकौतुकः सम्पादयतु

(९५०-१००० ई०) । काव्यकौतुकस्य प्रणेता भट्टतौतो महर्षेरभिनवगुप्तपादस्य गुरुरासीदिति भट्टतौतकृतनाट्यशास्त्रविषयकव्याख्यानगतवाक्यस्य समुद्धरणमुखेन प्रस्तौति अभिनवगुप्तपादः स्वयमेव । तद्यथा-

‘सद्विप्रतोत-वदनोदित-नाट्यवेदतत्त्वार्थमथिजनवाञ्छितसिद्धिहेतोः ।

माहेश्वराभिनवगुप्तपदप्रतिष्ठः संक्षिप्तवृत्तविधिना विशदी करोति ।।'[9]

किन्तु तेन सर्वत्र ग्रन्थनामानि नोपन्यस्तानि । भट्टतौतस्य 'काव्यकौतुक ग्रन्थस्य विवरणमभिनवगुप्तपादेन व्यरचि इत्यपि लोचने पृष्टे १७८ निर्दशति । अभिनवभारत्यां 'लोचने च भट्टतौतः समुद्धृतस्तेन । सन्धेः तात्त्विकज्ञानमपि तस्मादेवाधिगतम् । तद्यथा-'द्विजवर तोत-निरूपितसन्ध्याध्यायार्थतत्त्वघटनेयम् ।' ( अभि० भा० तथा नाट्यशास्त्रस्योनविंशतिपृष्ठस्यान्तिमो भागः ।) ध्वन्यालोकलोचनाज्ज्ञातो भवति यदनेन शान्तो रसः मोक्षफलत्वेन परमपुरुषार्थ निष्ठत्वाच्च सर्वरसेभ्यः प्रधानतमः निर्दशति । यथा ध्वन्यालोकलोचनस्य ३, २६ पृष्ठे लोचने-‘मोक्षफलत्वेन चायं शान्तो रसः परमपुरुषार्थनिष्ठत्वात् सर्वरसेभ्यः प्रधानतमः । स चास्मदुपाध्याय-भट्टतौतेन ‘काव्यकौतुके' अस्माभिश्च तदविवरणे बहुतरकृतनिर्णयः पूर्वपक्षसिद्धान्त इत्यलं बहुना । भट्टतौतस्यानेकेषु सिद्धान्तेष्वस्यायमधिकः सिद्धान्तो वर्तते यच्छतुः, नायकस्य कवेश्च रसादीनां समानोऽनुभवो भवति । लोचनस्योनत्रिंशत् पृष्ठे-* ‘नायकस्य कवेः श्रोतुः समानोऽनुभवस्ततः' (द्र० लोचनपृष्ठे २९) भट्टनायकस्यापरोऽपि सिद्धान्तोऽस्ति ‘रससमुदायो हि नाट्यम् । काव्येऽपि नाट्यायमान एव रसः । अनेन प्रकारेणाभिनवगुप्तेन लोचनेऽभिनवभारत्याक्षानेकशः निजगुरोरुपाध्यायस्य भट्टतौतस्य सिद्धान्तस्योल्लेखः कृतः । हेमचन्द्रेणापि निजकाव्यानुशासने भट्टतौतप्रतिपादितकवेः काव्यस्य च लक्षणमुद्धृतम् । तद्यथा -

नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् ।

विचित्रभावधर्माश-तत्त्वप्रख्या च दर्शनम् ॥

स तत्त्वदर्शनादेव शास्त्रेषु पठितः कविः ।

दर्शनाद् वर्णानाच्चाथ रुदालोके कविश्रुतिः ।।

तथाहि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनेः

नोदिता कवितालोके यावज्जाता न वर्णना ।।[2]

अपरोऽपि अभिनवभारत्यामभिनवगुप्तेन वदति निजगुरुविषये - ‘तस्मान्नाटयरसाः स्मृताः' नाट्यशास्त्रस्य सूत्रोपरि अभिनवभारत्याम्--

काव्यार्थविषये हि प्रत्यक्षकल्पसंवेदनोदये रसोदय इत्युपाध्यायाः तदाहुः काव्यकौतुके -

प्रयोगत्वमनापन्ने काव्येनास्वादसम्भवः ।

वर्णनोत्कलिकाभोग-प्रौढोक्त्या सम्यर्गापता ।।

उद्यानकान्ताचन्द्राद्याभावाप्रत्यक्षवत् स्फुटाः ॥ इति ।

समयश्चास्य भट्टतौतस्याभिनवगुप्तपादोपाध्यायत्वेन ख्रीष्टाब्दस्य दशमीशताब्दीति निश्चीयते । भट्टतौतस्य काव्यकौतुकादन्यस्य ग्रन्थस्य सूचना न क्वापि प्राप्यते ।

हृदयदर्पणः सम्पादयतु

(९३५-९८५ ई० ) अस्य महानुभावस्य विशेषरूपेण परिचयस्तावन्नोपलभ्यते । काश्मीरेतिहासस्य ज्ञापकतया भट्टनायकः नायकभट्टो वा काश्मीरवासी कश्चित्सांख्याचार्य आसीत् । एतेन भरतमुनेर्नाट्यसूत्रस्य व्याख्या सांख्यमतानुसारेण कृता । यद्यपि रसनिरूपणप्रस्तावे तन्मतोल्लेखादनन्तरं काव्यप्रकाशेऽभिनवगुप्तपादाचार्यमतोल्लेखात्तन्मतं खण्डितमिवाभाति, तथाऽपि जगन्नाथपण्डितराजस्य रसगङ्गाधरलोचनात्परिज्ञायते यत्-तत्र केवलं ‘भावकत्व' नाम्नो व्यापारान्तरस्य कल्पनमेव सिद्धान्तरूपादभिनवगुप्तपादाचार्यमताद् विशेषः, अन्यत्तु सर्वं तत्तुल्यमेवेति ।

रुय्यक-जयरथ-महिमभट्ट-अभिनवगुप्तादिद्वारा भट्टनायकस्य मतमुद्धृतमस्ति । तद्यथाऽभिनवगुप्तस्य लोचने -

शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः ।

अर्थतत्त्वेन युक्तं तु वदन्त्याख्यानमेतयोः ।

द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगर्भवेत् ।।[10]

तथाभिनवभारत्यां पृष्ठे २९ अपि द्रष्टव्यम् । तथा जयरथेन स्वालङ्कारसर्वस्वविमशिन्याम् -

अभिधा भावना चान्या तद्भोगी कृतिरेव च ।

'••••• अभिधाधमतां याते शब्दार्थालङ्कृती ततः ।

भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः ।

तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः ।।

हेमचन्द्रोऽपि निजकाव्यानुशासने ६१ पृष्ठेऽस्य मतस्योल्लेखः कृतवानस्ति । आचार्यमम्मटोऽपि स्वकाव्यप्रकाशे भट्टनायकस्य रसानुभूतिप्रक्रियायाः सारांश प्रदर्शितवान् । तद्यथा-'न ताटस्थ्येन रसः प्रतीयतेनोत्पद्यते नाभिव्यञ्जयते::: स्थायीसत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसत्वेन भोगेन भुज्यते ।' इति भट्टनायकः । रुय्यकेनाऽपि निजालङ्कारसर्वस्वे-‘भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्राप्यभिधा भावकत्व-लक्षण-व्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः ।

एतैश्च विद्वद्भिः ‘हृदयदर्पण' इति नामकः कश्चन ग्रन्थासीद्भट्टनायकस्येति • निर्णीयते । डॉ० एस. के. डे. मतानुसारेण हृदयदर्पणोऽहि न स्वतन्त्रो ग्रन्थः किन्तु कस्याप्यलङ्कारशास्त्रस्य टीकैवासीत् इति प्रतीयते । किञ्च अद्याऽपि ग्रन्थोऽयं न लभ्यते कैरपि । अयं हि भट्टनायकः प्रधानतः लोल्लट-शकुककुन्तक-महिमभट्टवत्प्रायः अभिधावाद्येव । रसविषये चायं भुक्तिवादी साधारणीकरणसिद्धान्तस्य सर्वप्रथमप्रवर्तकश्च । एतस्यैव विस्तारोऽभिनवगुप्तेन कृतः । रससम्बन्धिसिद्धान्ते चानेन स्वकीयः सांख्यदर्शनस्यैवाधारो गृहीतः । अस्य विदुषः मतौ ध्वनेः लक्षणं कर्त्तुं न कोऽपि समर्थों भवति । मूलतोऽयमनिर्वचनीयतावादिनः सिद्धान्तस्यानुयायी प्रतीतो भवति । असावानन्दवर्धनाचार्यादर्वाचीनोलोचनकारादाचार्याभिनवगुप्तपादात्प्राचीन आसीत् । आनन्दवर्धनस्य समयः ८५५-८८४ खीष्टाब्दमितः, अभिनवगुप्तस्य तु ९५०-१०२० खीष्टाब्दमितः । द्वयोर्मध्यभवस्तु भट्टनायकः । टी. आर. चिन्तामणिस्तु 'जर्नल अफ ओरियण्टलरिसर्च, मद्रासस्य' प्रथमभागे भट्टनायकस्य समयः ९३५-९८५ ख्रीष्टाब्दः निश्चितः । समयोऽयमधिकतर्कसङ्गतः प्रतीतो भवति । हृदयदर्पणस्तु ध्वनिप्रतिभटभूतो निबन्धग्रन्थः । असौ लोचनकारेण खण्डितः । व्यक्तिविवेककारोऽप्येनं स्मरति -

‘सहसां यशोभिसत्तुं समुद्यताऽदृष्टदर्पणा मम धीः ।

स्वालङ्कारविकल्पप्रकल्पने वेत्ति कथमिवावद्यम् ॥ इति ।

वक्रोक्तिजीवितम् सम्पादयतु

(९५०-१०२० ई० ) । ध्वनिप्रस्थानस्य ध्वन्यालोकतल्लोचनाभ्यां परिष्कृतत्त्वेऽपि तद्विरोधाय अन्तकः 'वक्रोक्तिजीवितम्' नाम वक्रोक्तिसम्प्रदायस्य मुख्यं ग्रन्थं निबबन्ध । अन्तकोऽयं काश्मीरिको विद्वान् आसीत् । वक्रोक्तिजीवितकारः इति नाम्नेवायं विद्वान् सर्वत्र विख्यातोऽभूत् । वक्रोक्तिजीवितकारोऽयं कुन्तकः न तु कुन्तलः । अस्य विदुषः प्रशंसा कुर्वन् गोपालभट्टः ‘साहित्यसौदामिनी' नामकनिजग्रन्थे लिखितवान् -

वक्रानुरञ्जिनीमुक्ति चञ्चूमिव मुखे वहन् ।

कुन्तकः क्रीडति सुखं कीत्तिस्फटिकपञ्जरे ॥

अनेन प्रतीतो भवति यदस्य नाम कुन्तक एवाऽसीन्नतु कुन्तलः । यतोहि कुन्तकः अर्थात्तीक्ष्णभल्लमिव तीक्ष्णचञ्चू अस्ति यस्य तादृशस्य शुकस्येति भावः । अभिप्रायोऽयं कुन्तकशब्देनैव व्यक्तो भवति न तु कुन्तलेनेति भावः ।

कुन्तकोऽयं ध्वनिकारादानन्दवर्धनादनन्तरभाव्यपि चिरन्तनमतानुयायीति विमशिन्यां जयरथः । अतएवासी ध्वनिप्रंस्थानस्य ध्वन्यालोकतल्लोचनाभ्यां परिष्कृतत्त्वेऽपि तद्विरोधाय स्वग्रन्थं निबध्य प्राचीनस्य वक्रोक्त्यलङ्कारस्यानुसरणेन तत्सम्प्रदायं प्रावर्तयत् ।

कुन्तकः राजशेखरमहिमभट्टयोरन्तराले महान् ग्रन्थकारः परिगण्यते । एतस्य वक्रोक्तिनामकग्रन्थे चत्वार उन्मेषाः सन्ति, यत्र वक्रोक्तेः प्रभेदानां साङ्गोपाङ्गवर्णनकृतमस्ति । तेषु प्रभेदेष्वेव ध्वनिप्रभेदानामन्तर्भाव इति तन्मतस्य प्रधान मन्तव्यम् । लोकोत्तरप्रतिभेनाचार्य कृन्तकेन--

शब्दार्थी सहितौ वक्रकविव्यापारशालिनि ।

बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि ।।

इत्यादिना काव्यजीवितालम्बना स्वतन्त्रा वक्रोक्तिः प्रतिष्ठापिता । व्यक्तिविवेककारेण महिमभट्टेनास्य केचन श्लोका महत्यारभयादोषैर्योंजिता । तथाप्यमुमेवं प्रशसन्ति विद्वांसः -

भात्यलङ्कारयुक्ताऽपि वक्रोक्तिरहिता न गीः ।

अनेकतारायुक्ताऽपि रात्रिश्चन्द्रादृते यथा ।।

वक्रोक्तिजीवितमपूर्णमेव लभ्यते । यावानेवांशो लोचनगोचरीभूतस्तावतैव कवेः सूक्ष्मविवेचनशैल्याः परिचयः पर्याप्तरूपेण प्राप्यते । ग्रन्थकर्ता हि काव्यस्य व्यापको गुणो वक्रोक्तिरिति स्वीकृतं साधारणपुरुषमार्गात् कविमार्गो भिन्नरूपेणैव भवतीति नाविदितं केषांचिदपि । अतएव कुन्तकेन वक्रता वैचित्र्यरूपेण तथा वैदग्ध्यभङ्गीभणितिरूपेण वणिता वक्रोक्तेर्व्यापकतानयनाय कविना षड्विधा वक्रोक्तिरंङ्गीकृता । तथाहि--

( १ ) वर्णविन्यासवक्रता

( २ ) पदपूर्वार्द्धवक्रता

( ३ ) परार्धवक्रता

( ४ ) वाक्यांशवक्रता

( ५ ) प्रकरणवक्रता

( ६ ) प्रबन्धवक्रतेति ।

ग्रन्थकृता हि सर्वेषामलङ्काराणां वाक्यवक्रतायामेवान्तर्भावो दशितः । तथा चोक्तम् -

वाक्यस्य वक्रभावोन्यो विद्यते यः सहस्रधा ।

यत्रालङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति ।।[3]

रसस्यान्तर्भावस्तु प्रेय ऊर्जस्विनोरलङ्कारयोर्मध्ये। किन्तु रसप्राधान्यमनङ्गीकुर्वताऽपि नितान्तगौणत्वं रसस्य न स्वीकृतम् अन्यालङ्कारापेक्षया रसवदलङ्कारस्यालङ्कार्यत्वन्तु स्वीकृतमेव । यत्र च कविः स्वकल्पनयेतिवृत्तेपरिवर्तनं कृत्वा संरसतामापादयति तत्कविकर्मणः प्रकरणप्रबन्धवक्रतयोरन्तर्भावो बोध्यः । वक्रोक्तेर्बीजं तु भामहेनैव ।

“वक्राभिधेयशब्दोक्तिरिष्टावाचामलङ्कृतिः'[4]

‘कोऽलङ्कारोऽनया विना'[5]

त्यादिसूत्रेनोपन्यस्तम्। एवञ्च या मूलकल्पना वक्रोक्तेर्भामहेन प्रदर्शिता तस्या एव व्यापकसाहित्यिकतत्त्वरूपेण विकासः कुन्तकस्य स्वीयविशेषता । समस्तसाहित्यिकतत्त्वानि सम्मिलितानि कृत्वा कुन्तकेनैतादृश विदग्धतायाः परिचयो दत्तः, येन मर्मज्ञाः साहित्यिकाः सर्वदा अनुरक्ता एव स्थास्यन्तीति । ग्रन्थेऽस्मिन् त्रयोंऽशाः कारिकाः, वृत्तयः, उदाहरणानि च । उदाहरणमनेककविकृतिभ्यो दत्तमिति व्यक्तमेव, कारिकावृत्तिश्च कुन्तककृतेति भूयांसो वदन्ति । कतिपये तु कारिकां कस्यचिदन्यस्य कृति मन्यमानाः केवल वृत्तिमेव कुन्तकस्य कार्यं मन्यन्ते । | वक्रोक्तिजीविते ध्वनिकारानन्दवर्धनस्य, भवभूतेः, राजशेखरादीनां नामनिर्देशत्वेन कुन्तकः आनन्दवर्धनात् तथा राजशेखरात ( ८८०-९५० ) उत्तरवर्ती सिद्धो भवति । महिमभट्टस्तु व्यक्तिविवेके[6] कुन्तकस्य स्पष्टतः नामोल्लेखः कृतवानस्ति । अनेन महिमभट्टात्पूर्ववर्ती प्रतीतो भवति । अतः कुन्तकस्य समयः ( ९५०-१०२० ) ख्रीष्टाब्दः युक्तिसंगतः प्रतीतो भवति ।

लोचनः, अभिनवभारती च सम्पादयतु

( ९५०-१०२० )। आनन्दवर्धनस्य पुण्यप्रकर्षम् एव मन्ये मूर्तो भूत्वा अभिनवगुप्तात्मना प्रकटीतः । अयमभिनवगुप्तः काश्मीरवासी शैवदर्शनाचार्यस्तन्त्ररहस्यज्ञः साहित्यरङ्गमश्वासीत् । अस्य पिता नरसिंहगुप्तः चुखलनाम्ना कुखुलकनाम्ना वा व्यपदिश्यते स्म -

इत्थं दशममध्यायं व्याचष्टे च समाप्तितः ।

शिवस्मृतिकृतार्थोऽपि परार्थं चुखलात्मजः ।।

अभिनवभारत्याम् नरसिंहगुप्तः परममतिमान् सकलशास्त्रनिष्णातः शिवभक्ताग्रणीश्वासीत् । अस्या प्रौढावस्थायामेव पिता सन्यस्तं गतः । तथाहि -

‘तारुण्यसागर-तरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढे हठेन ।'

अभिनवगुप्तस्य माता विमलकला पुण्यात्मा धर्मपरायणा महिलाऽऽसीत् ।

साऽप्यमुं शैशवे एव परित्यज्य स्वर्गं गता।

‘माताव्ययूयुजदमुं किल बाल्य एव ।'

पितृव्यो वामनगुप्तः, अनुजो मनोरथगुप्तश्चास्ताम् । सकलोऽपि चायं परिवारः पुण्यमयो वैदुष्यमयश्चाभूत् । मातृपितृविहीनोऽयमभिनवगुप्तः सांसारिकमायाजालाद्विमुक्तो भूत्वा परमशैवो बभूव । जीवनपर्यन्तं ब्रह्मचर्यव्रतपरिपालनं कुर्वन् साधनानिरतश्नासीत् । तद्यथा -

देवो हि भाविपरिकर्मणि संस्करोति साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयं ग्रहणदुर्मदया गृहीतः ।

स तन्मयीभूय न लोक वर्तनीमजीगण कामपि केवलं पुनः ।।[10]

चान्ते श्रीनगरात् सार्धषष्ठक्रोशपरिमितं दक्षिणपश्चिमदिशायां भैरवनद्यास्तंटे भैरवगुहायां ध्यानं कुर्वन्, असौ शिवसायुज्यं प्राप्तवान् ।

एतस्य पूर्वजेषु कश्चित् ‘अत्रिगुप्तः श्रूयंते योऽन्तर्वेद्यामवात्सीत् । अन्तर्वेदी गङ्गायमुनयोः प्रान्ते कान्यकुब्जेष्ववतष्ट, यत्र यशोवर्मणः ( ७३०-७४० ख्रीष्टाब्दे) शासनमभवत् । अत्रिगुप्तः सर्वेषु शास्त्रेषु निष्णातो विख्यातश्चाविद्यत । काश्मीरराजो ललितादित्योऽस्य पाण्डित्यमवलोक्य नितरां तुतोष प्रभावितश्च बभूव । कान्यकुब्जेश्वरं यशोवर्मणञ्च पराजित्य ललितादित्योऽत्रिगुप्तमेनमात्मना सहैव काश्मीरा आनिनाय सानुरोधम् । अस्य च काश्मीरेश्वरस्यादेशेन वितस्तातीरेऽत्रिगुप्तस्यावासाय सितांशुमालिमन्दिरस्य पृष्ठतो भव्यभवनं निरमाप्यत । भवनेन सह चास्मै भूयसी भूमिसम्पद अदीयत । अत्रिगुप्तादनन्तरं शतं वर्षाणि यावज्जातानां तवंश्यानां किञ्चिद् ऐतिह्यं नोपलभ्यते अनन्तरं दशम्याः शताब्द्याः प्रारम्भेऽभिनवगुप्तपादस्य पितामहो वराहगुप्तोऽभवत् । अयं वाराहगुप्तोऽपि महापण्डितः परमशैवश्वासीदिति विश्रुतम् । अस्यैव विदुषः ध्वन्यालोकस्य प्रसिद्धा टीका ‘चन्द्रिका' अस्ति । सत्यपि ‘चन्द्रिका' ध्वन्यालोकस्य ‘लोचन'टीकायाः आवश्यकता प्रदर्शयन् अभिनवगुप्तेन -

कि लोचनं बिनालोको भाति चन्द्रिकयापि हि ।

तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यधात् । ।[3]

एतस्य नामकरणसम्बन्धे इदमुपवृत्तमुपलभ्यते भट्टवामनाचार्यकृतायां काव्यप्रकाशटीकायां चतुर्थोल्लासे रसनिरूपणप्रसङ्गे–‘पादाः इति बहुवचने श्रीमंदाचार्यपदैः स्वसम्मतत्वमुक्तम् । इदमत्र रहस्यम–पुरा किल काचिद् बलभीपठतां बहूनां ब्राह्मणबालानामध्ययनशालाऽऽसीत् । तत्र पठन् कश्चित् । गौडबालोऽतिसोबुद्धयान्मुखरत्वाच्च निखिलबालानां भयप्रदत्वेन ‘बालबलभीभुजङ्गः' इति गुरुणा व्यपदिष्टः स चाचार्यतामुपगत इति सकलरहस्याभिज्ञः श्रीवाग्देवतावतारो मम्मटो गूढे तन्नाम 'अभिनवगोपानसीगुप्तपादः' इति वैदग्ध्यमुखेनाभिव्यनक्तीति । अत एव मधुमत्यां रविभट्टाचार्यैरुक्तम्-अभिनवपदेन ध्वनिटीकाकर्त्त पुराणगुप्तपादलिखनविरोधोऽत्र न देय इति ।

अभिनवगुप्तः प्रतिभावान् प्रभाववांश्च विद्वानासीत् । भरतमुनिप्रणीतस्य नाट्यशास्त्रस्य व्याख्यया तन्त्रालोकग्रन्थरचनया ध्वन्यालोकस्य लोचनटीकया चायं साहित्यव्याकरणयोः परमाचार्यतया स्मर्यते । ज्ञानपिपासानिवृत्तयेऽसौ देशान्तराण्यपि अयासीत् । तत्र कौलिकाद् शम्भुनाथाच्चायं तज्ज्ञानलब्धवान्, येनात्मदर्शनजन्यां शान्ति प्राप्यातितरां कृतार्थममन्यतात्मानम् । पितुः श्रीनरसिंहगुप्ताद् व्याकरणं, श्रीवामननाथाद् द्वैताद्वैततन्त्रम्, भूतिराजतनयाद् शैवागमम्, भूतिराजाद् ब्रह्मविद्याम्, लक्ष्मणगुप्ता, कर्मकाण्ड, त्रिकदर्शनञ्च, इन्दुराजाद् ध्वनिम्, भट्टतौतात् नाट्यशास्त्रं चाधीतवतोऽस्य सुविदितमेवाभूद् । एतदतिरिक्तैकादशान्यगुरूणां नामोल्लेखः कृतमनेन निम्नरूपेण-

‘श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवभक्ति-विचित्रनाथाः ।

अन्येऽपि धर्मशिववामनकोभटश्रीभूतेशभास्कर-मुख-प्रमुखाः-महान्तः ॥'

नानागुरूप्रवरपादनिपादजाता

संवित्सरोरुह विकास-निवेशितश्रीः । [4]

काश्मीरिकविद्वत्सु अभिनवगुप्तपादस्यापूर्वमहत्त्वं कलयन्ति तत्रत्याः, अन्ये मनीषिणः । तत्प्रणीताः इमे ग्रन्थाः सन्ति -

(१) बोधपञ्चदशिका,

(२) परात्रशिकाविवृत्तिः,

( ३ ) मालिनीविजयतकम्,

( ४ ) तन्त्रालोकः,

( ५ ) तन्त्रसारः,

( ६ ) तन्त्रवटधानिका,

( ७ ) भगवद्गीतार्थसंग्रहः,

(८) परमार्थसारः

(९) ईश्वरप्रत्यभिज्ञाविम

( १० ) ईश्वरप्रत्यभिज्ञाविवृतिविमशिनी,

(११) क्रमस्तोत्रम्,

(१२) -देवताचक्रस्तोत्रम्,

( १३ ) भैरवस्तोत्रम्,

( १४ ) परमार्थद्वादशिका,

( १५ ) अनुभवनिवेदनम्,

( १६ ) परमार्थ चर्चा,

( १७ ) महोपदेशविंशतिका

१८ ) अनुत्तरशतिका,

( १९ ) तन्त्रोच्चयः,

(२० ) घटकप्रकुलविवृत्तिः,

( २१ ) क्रमकेलिः,

( २२ ) शिवदृष्ट्यालोचनम्,

( २३ ) पूर्वपञ्चिका,

( २४ ) पदार्थप्रवेशनिर्णयटीका,

( २५ ) प्रकीर्णविवरणम्,

( २६ ) प्रकरणविवरणम्,

( २७ ) काव्यकौतुकविवरणम्,

( २८ ) कथामुखटीका,

( २९ ) लघ्वीप्रक्रिया,

( ३० ) भेदवादविवरणम्,

( ३१ ) देवीस्तोत्रविवरणम्,

( ३२ ) तत्त्वार्थप्रकाशिका,

( ३३ ) शिवशक्त्यविनाभावस्तोत्रम्,

(३४) बिम्बप्रतिबिम्बवादः,

( ३५ ) परमार्थसंग्रहः,

( ३६ ) अनुत्तरशतकम्,

(३७) प्रकरणस्तोत्रम्,

( ३८ ) नाटयालोचनम्,

( ३९ ) अनुत्तरतत्त्वविमशिनी ।

अभिनवगुप्तेन स्वकीयेषु कतिपयेषु ग्रन्थेषु समयस्याप्युल्लेखः कलिसम्बत्सरस्तथा काश्मीरीसप्तषिवत्सररूपेण कृतः । असावीश्वरप्रत्यभिज्ञा-विवृत्ति-विमशिन्याश्चान्ते लिखितवानस्ति यत् ४११५ कलि संवत्सरे यदा काश्मीरे ९० सप्तर्षवत्सरः आसीत्तदास्य ग्रन्थस्य रचना समाप्तिर्गता ।

‘इति नवतितमेऽस्मिन् वत्सरेऽन्त्ये युगांशे

तिथिशशिजलधिस्थे मार्गशीर्षावसाने ।

जगति विहितबोधामीश्वरप्रत्यभिज्ञां

व्यवृणुत परिपूर्णा प्रेरितः शम्भुपादैः ।।[10]

कलिसम्वत्सरः ४११५, खीष्टाब्दः १०१४-१५ ई० भवति । भैरवस्तोत्रस्यान्ते यत्समयस्य निर्देशो वर्त्तते, तेन स्पष्टो भवति यदीश्वरप्रत्यभिज्ञाविवृत्तिविमशिन्याः रचनातः द्वाविंशतिः वर्षपूर्वमेव खीष्टाब्दे ( ९९२-९३ ई० ) भैरवस्तोत्रस्य रचना बभूव । तद्यथा -

वसुरसपौषे कृष्णदशम्यामभिनवगुप्तः स्तवमिममकरोत् ।

येन विभुर्भवमरुसन्तापं शमयति झटिति जनस्य दयालुः ।।

क्रमस्तोत्रस्य रचना भैरवस्तोत्रस्य रचनायाः वर्षद्वयपूर्वमेवार्थात् ९९०-९१ ख्रीष्टाब्दे बभूव ।

षट्षष्टिनामके वर्षे नवम्यामसितेऽहनि ।

मयाभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ।।

अनेन प्रकारेणाभिनवगुप्तस्य स्वकीयानां परकीयाणाञ्च ग्रन्थानामवलोकनेन ज्ञायते यथाऽस्य साहित्यिकनिर्माणकार्य ९८०-१०२० खीष्टाब्दयोर्मध्ये प्रारब्धमासीदिति । अनेन महाविदुषा विभिन्नानां गुरुणामन्तिके विभिन्नानां शास्त्रीणामध्ययनं सम्पादितमभूत् । एतेनानुमीयते यत्तस्य जन्म ९९५-१०२० खीष्टाब्दयोरन्तरभवदिति ।

दशरूपकम् सम्पादयतु

(९५०-१००० ई० ) धनञ्जयस्य पितुर्नाम 'विष्णुः' इत्यासीदिति एतत्प्रणीताद् ‘दशरूपकमिति ग्रन्थाज्ज्ञायते । अयं मालवाख्यदेशेषु खीष्टाब्दीयदशमशतकोत्तरार्द्ध ‘मुञ्ज नाम्नो महीपते राज्यसमये प्रसिद्ध आसीदित्यपि दशरूपकग्रन्थादेव ज्ञायते । तथद्या -

विष्णोः सुतेनाऽपि धनञ्जयेन विद्वन्मनोरागनिबन्धहेतुः ।

आविष्कृतं मुञ्जमहीशगोष्ठीर्वदग्ध्यभाजा दशरूपमेतत् ।।

धनञ्जयेन निजदशरूपके केवलं नाटयोपयोगीना विषयाणामेव विवेचनं कृतम्। नाटिकासहितैः दशरूपकाणामस्मिन् ग्रन्थे साङ्गोपाङ्ग वर्णनमस्ति । अस्मिन् ग्रन्थे चत्वारः प्रकाशाः सन्ति ।

मालवाधिपतिः महाराजमुञ्जस्तु भोजराजस्य पिता तथा नवसाहसाङ्कसिन्धुराजस्याग्रजः आसीत् । महाराजमुञ्जस्य राज्यकालः ९७४-९९५ ख्रीष्टाब्दयोर्मध्येऽऽसीत् । अयमेव दशरूपकस्याऽपि रचनाकालः आसीदिति ।। अतः धनञ्जयस्य जीवनकालोऽपि ९५०-१००० खीष्टाब्द एव अस्ति।

अवलोकः सम्पादयतु

(९५०-१०१० ई० ) । | दशरूपकस्य विख्याता व्याख्याऽवलोकस्य रचिता धनिकस्तु धनञ्जयस्यानुजः आसीत् । तेन हि काव्यनिर्णयनामकः कोऽपि ग्रन्थोऽपि व्यरच्यत । अस्मादेव ग्रन्थोदनेकानि पद्यानि उद्धृतानि सन्ति अस्मिन् ग्रन्थे । अवलोके पूर्वकृतिभिः प्रायः ३१० पद्यानि उद्धृतानि सन्ति ।।

अवलोके दशरूपकस्यातिवैदुष्यपूर्णा टीकाऽस्ति । अस्मिन् ग्रन्थे धनिकेन यत्र तत्र विभिन्नशास्त्रीयसिद्धान्तानां सरलरूपेण प्रतिपादनं कृतमिति । स्वयमसौ मीमांसादर्शनस्यानुयायी आसीत् । रसनिष्पत्तौ चायं भट्टनायकस्य मतमिव भावकत्वभोजकत्वमतस्य प्रतिपादनं कृतवान् अस्ति । दशरूपकस्य चतुर्थप्रकाशस्य व्याख्यायामस्य महापुरुषस्य वैदुष्यं स्पष्टतया प्रकटितो भवति । धनञ्जयस्यायमनुजः आसीत् । तेन हेतुनाऽस्यापि समयः ९५०-१०१० ख्रीष्टाब्द एवास्ति ।।

व्यक्तिविवेकः सम्पादयतु

(९५०-१०२० ई० ) । काश्मीरेषु लब्धजन्मा न्यायाचार्यो महिमभट्टः ‘व्यक्तिविवेकम्' नाम इन्थं व्यरचयत् । अस्य पितुर्नाम ‘श्रीधैर्यः आसीत् । श्रीगुरोः ‘श्यामलः' इति, पुत्रस्य भीमः इति, पौत्राणाञ्च ‘क्षेमः, योगः, भाजः' इति नामानि आसन् । तद्यथा--

आधातुं व्युत्पत्ति नुप्तृणां क्षेमयोगभाजीनाम् ।

सत्सु प्रथितनयानां भीमस्यामितगुणस्य तनयानाम् ।। १ ।।

श्रीधैर्यस्याङ्गभुवा महाकवेः श्यामलस्य शिष्येण ।

व्यक्तिविवेको विदधे राजनकमहिमकेनायम् ॥ २ ॥ इति

श्यक्तिविवेकस्य समाप्त अयं ध्वनिविरोधी आचार्यः आसीत् सर्वस्यानेन ध्वनेरनुमानेऽन्तर्भावं कर्तुमेव व्यक्तिविवेकः प्रणीतः -

अनुमानेऽन्तर्भावं सर्वस्यैव ध्वनेः प्रकाशयितुम् ।

व्यक्तिविवेकं कुरुते प्रणम्य महिमा परां वाचम् ।।[10]

अयं हि महिमभट्टो महता सन्नाहेन स्वकीयं ग्रन्थं निबध्नन्, ध्वनिमनुमानेऽन्तर्भावयितुमेवं युक्तिमुपस्थापयति -

अर्थान्तराभिव्यक्ती या सामग्री सन्निबन्धनम् ।

'सैवानुमतिपक्षे नो गमकत्वेन सम्मता ।। इति ।

अयं तस्याशयः – ‘ननु वाच्यादसम्बद्धं तावन्न प्रतीयते, यतः कुतश्चित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् । एवञ्च सम्बन्धात् व्यङ्ग्यव्यञ्जकभावोऽप्रतिबन्धेऽवश्यं न भवतीति व्याप्तत्वेन, नियतधर्मनिष्ठत्वेन च त्रिरूपल्लिङ्गात् लिङ्गिज्ञानमनुमानं यत्, तद्रूपः पर्यवस्यति' इति (काव्यप्रकाशे पञ्चमोल्लासे)। 'यद्यप्यनुनिती नियतसम्बन्धस्यापेक्षणीयत्वम्, व्यञ्जनायान्तु तदनैयत्यम्, सम्भावनमात्रादपि तदुत्पत्तेः, तथापि मया तत्राऽपि व्याप्तिः साधनीया' इति महिमभट्टस्य दृढोऽभिमानः । ।

किञ्च काव्यप्रकाशकृता मम्मटेनातिशयप्रबलाभिर्युक्तिभिर्महिमभट्टमतं प्रत्याख्याय ध्वनेः स्थापना कृताऽस्ति ।।

एताभ्यां ध्वनेः खण्डनमण्डनाभ्यां स्पष्टमेवैतत् यन्महिमभट्टो मम्मटात्पूर्वमुत्पन्नः, मम्मटभट्टस्तु ततः पश्चादिति । महिमभट्टनिराकरणेन च परितुष्टानां बहूनां टीकाकृतां मम्मटविषयिण्यः श्रद्धानिर्भरावाचः प्रावृतन्, यासां निदर्शनीय सुधासागरकर्तुः श्रीभीमसेनस्योक्तिः केवलमिहोधूियते-‘एवं चावागोचरब्रह्मबोधिकेयमलौकिकी वृत्तिर्वाग्देवता मम्मटाङ्गीकृता व्यञ्जना ब्रह्मणाप्यपलपितुमशक्येति सुधीभिर्मन्तव्यम् । इति ।।

व्यक्तिविवेककृतमहिमभट्टोऽयं यद्यपि ध्वनिकारादानन्दवर्धनादनन्तरभावी तथाप्ययमलङ्कारवादिनां चिरन्तनानां मतमनुससारेति विमशिन्यां जयरथः प्राह ।

व्यक्तिविवेकस्य व्याख्याता राजानकरुय्यक आसीत् लोचनस्यैव वक्रोक्तिजीवितकारस्याऽपि खण्डनं महिमाचार्यभट्टेन ‘सहृदयमानिनः केचित् 'केचिद्विद्वन्मानिनः' इत्यादिशब्दैरुपक्रान्तम् । अतो महाकविः श्रीहर्षः स्वकीये ‘खण्डनखण्डखाद्य'ग्रन्थेऽमुं महिमभट्टं बहुतरं प्रशशंस, यथा -

दोषं व्यक्तिविवेकेऽमुं कविलोकविलोचने ।।

काव्यमीमांसिषुः प्राप्ति महिमा महिमाऽदृतः ।। इति ।

किञ्च लोचद्रवद मूलध्वन्यालोकस्याऽपि खण्डनं महिमभट्टो विदधे । तर्कशास्त्रमाश्रित्यैवानेन ध्वन्यालोकस्य विरोधीय प्रयासः कृतः । अस्मिन्प्रयासे तेनान्यग्रन्थसाहाय्यं न लब्धम् ध्वनिविरोधे यद्यपि भट्टनायकस्य हृदयदर्पणनामा ग्रन्थस्तदा सद्यो निमतोऽवर्तत, परमनेन स ग्रन्थो नालोकितःयथोक्तम्-‘सहसा यशोभिसत्तुं समुद्यताऽदृष्टदर्पणा मम धीः ।' इयमस्योक्तिः स्वग्रन्थस्य नितान्तमौलिकता व्यञ्जनायैव ।

व्यक्तिविवेके त्रयो विमर्शाः सन्ति – प्रथमे ध्वनेरनुमानप्रकारत्वं व्यवस्थापितम् द्वितीयेऽर्थविषयकानौचित्यम् निरूपितम्, तृतीये बहिरङ्गानौचित्यं विवेचितम् ।

सर्वप्रथम महिमभट्टः अभिनवगुप्तस्य मतमालोचितवान् तदनन्तरं मम्मटेनास्य महिम्नो मतमालोचितम् । तदयं महिमभट्टः अभिनवगुप्तात् परवर्ती मम्मटात्पूर्ववर्ती च सिद्धो भवति । अभिनवगुप्तस्तु १००० ई० स्थितो मम्मदृश्व १०५० ई० स्थितस्तयोर्मध्ये स्थितस्यास्यैकादशशतक प्रथमचरणे स्थितिरनुमीयते । खीष्टाब्दैकादशशतकस्थितेन क्षेमेन्द्रेणौचित्यविचारचर्चायां न तु यथा श्यामलस्य' सुवृत्तितिलके च ‘विपरीता यथा भट्टश्यामलस्य' इत्येवमादिना स्मर्यमाण एव श्यामलोऽस्य गुरुरासीदिति मान्यः । तहि एतदप्यस्यैकादशतकस्य प्रथमचरणे स्थित लक्षयति ।

औचित्यविचारचर्चा सम्पादयतु

( ९९०-१०७० ई० ) औचित्य सम्प्रदायस्य प्रवर्तकः आचार्यक्षेमेन्द्रस्य 'औचित्यविचारचर्चा हारशास्त्रस्यैकः महत्त्वपूर्ण ग्रन्थोऽस्ति औचित्यमेव रसस्य रहस्यमिति तस्य सिद्धान्तः।

'औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम्'[3]

अनेन सुवृत्ततिलकनामा एकश्छन्दो ग्रन्थः, कविकण्ठाभरणाभिधानः काव्य। बाह्य साधनानि निरूपयन् ग्रन्थः, औचित्यविचारचर्चा चारच्यत् । अयमपि काश्मीराभिजन आसीत् ।

क्षेमेन्द्रोयमेकादशशतके । ( १०२७ ख्रीष्टाब्दतः १०६४ ख्रीष्टाब्दपर्यन्तं ) काश्मीरा शासितवतो महाराजस्यानन्तस्य कलशस्य च समये काश्मीरदेशे जन लेभे । केचिदमुं ९९० खीष्टाब्दभवमाहुः । किञ्च कविः स्वयमौचित्यविचारचर्चा राज्ञोऽनन्तस्य राज्ये कृतमाह, यथा--

यस्यासिः परिवारकृत् त्रिभुवनप्रख्यातशीलश्रुतेः।

सर्वस्यावनतेन येन नितरां प्राप्त विशेषोन्नतिः ।

आशाशीतलतां जयत्यविरतं यस्य प्रतापानलः

तस्य श्रीमदनन्तराज़नृपतेः काले किलायं कृतिः ।

ततश्च राज्ञोऽनन्तस्य यः कालः स एवामुष्य क्षेमेन्द्रस्येति सुनिश्चितम् । तस्य चापरं नाम ‘व्यासदासः' इत्यप्यभूदिति स्वयमेव तेनानेकत्र प्रोक्तं यथा -

तस्यात्मजः सर्वमनीषिशिष्यः श्रीव्यासदासापरपुण्यनामा ।

क्षेमेन्द्र इत्यक्षयकाव्यकीर्ति चक्रे नवौचित्यविचारचर्चाम् ॥

तदीयस्य पितामहस्य नाम सिन्धुः इत्यासीत्, पितुश्च नाम प्रकाशेन्द्रः, इति । प्रकाशेन्द्रो धनिको, दाता, ब्राह्मणानां संरक्षकश्चासीत् -

आसीत् प्रकाशेन्द्र इति प्रकाशः काश्मीरदेशे त्रिदशेश्वरस्य ।

अभूगृहे यस्य पवित्रसत्रमच्छिन्नमग्रासनमग्रजानाम् ॥

यः श्रीस्वयंभू भवने विचित्रे लेप्यप्रतिष्ठापित मातृचक्रः ।

गोभूमि कृष्णाजिनवेश्मदाता तत्रैव काले तनुमुत्ससर्ज ।। इति ॥

प्रागसौ शैव आसीत् । अनन्तरं सोमाचार्योपदेशात् वैष्णवो बभूव । क्षेमेन्द्रस्य शास्त्राध्यापकस्त्रयो विद्वांसोऽभूत्–अभिनवगुप्तपादस्तद्यथा -

‘श्रुत्वाभिनवगुप्ताख्यात साहित्य बोधवारिधेः । [4]

एवं गङ्गकः, सोमाचार्यश्च । अतएव क्षेमेन्द्र आत्मानं ‘सर्व मनीषिशिष्यः' इति ब्रूते ।

क्षेमेन्द्रः काश्मीरराजस्यानन्तस्य सभापण्डित आसीत् । अनन्तस्य शासनकाले असन्तोष-षडयन्त्र-रक्तपातादिविविधोपद्रवोपद्रुतेषु जनेषु । परस्परं वैमनस्याप्लुतान्तः करणेष्वपि क्षेमेन्द्रस्तान् सत्पथमानेतुं विविधानि काव्यानि व्यरचयत् । तेन निम्नलिखित ग्रन्थाः प्रणीताः -

( १ ) दशावतारचरितम्

( २ ) रामायणमञ्जरी

( ३ ) भारतमञ्जरी

(४) शशिवंशमहाकाव्यम्

( ५ ) अमृततरंगकाव्यम्

( ६ ) अवसरसारः

( ७ ) चित्रभारतनाटकम्

(८) कविकणका

(९) राजवती

(१० ) नर्ममाला

( ११ ) मुक्तावली

( १२ ) लावण्यवती

( १३ ) देशोपदेशः

(१४) पवनपञ्चाशिका

( १५ ) पद्यकादम्बरी

( १६ ) वात्स्यायनसूत्रसारः

( १७ ) विनयवती

( १८ ) बौद्धावदानकल्पलता

( १९ ) नीतिकल्पतरुः

( २० ) नीतिकल्पलता

( २१ ) लोकप्रकाशकोशः

( २२ ) सेव्यसेवकोपदेशः

( २३ ) विनयवल्ली

( २४ ) दर्पदलनम्

( २५ ) कविकण्ठाभरणम्

( २६ ) क्षेमेन्द्रप्रकाशः

( २७ ) कनकजानकी

( २८ ) व्यासाष्टकम्

(२९ ) वृहत्कथामञ्जरी

( ३० ) चतुर्वर्गसंग्रहः

( ३१ ) समयमातृका

( ३२ ) कलाविलासः

( ३३ ), औचित्यविचारचर्चा

( ३४ ) सुवृत्ततिलकम्

( ३५ ) चारुचर्चा

( ३६ ) मुनिमतमीमांसा

( ३७ ) ललितारत्नमाला

( ३८ ) क्षेमेन्द्रप्रकाशः

( ३९ ) नीतिमाला .. इत्यादि ।

औचित्यविचारचर्चा तथा कविकण्ठाभरणयोः रचनाऽसौ महाराज अनन्त देवस्य राज्यकाले (१०२८ ई०-१०६३ ई०) कृतवान्–‘तस्य श्री मदन्तराजनृपतेः काले किलायं कृतः' ( औ० वि० च० ) । अतोऽस्य रचनाकालः १०२० ई०-१०७० ई० प्रतीतो भवति तथा क्षेमेन्द्रस्य समयः ९९० ई० तः १०७० ख्रीष्टाब्दयोर्मध्येऽस्य स्थितिरनुमीयते ।

रुद्रटालङ्कारव्याख्या सम्पादयतु

(१०४०-११०० ई० ) रुद्रटस्य काव्यालङ्कारोपरि नमिसाधोरेका वैदुष्यपूर्ण व्याख्याऽस्ति । अनेनैव कारणेनास्य विदुषः अलङ्कारशास्त्रे प्रसिद्धिरस्ति । नमिसाधुः रुद्रटालङ्कारस्य टीका ११२५ विक्रमाब्दे अर्थात् १०६८ ख्रीष्टाब्दे कृताऽस्ति । तद्यथा-‘राज्ये श्रीमदन्तराजनृपतेः काव्योदयोऽयं कृतः ।' (कविकण्ठाभरणाद) । अतोऽस्य समयः एकादशशतकस्योत्तरार्द्ध निश्चितो भवति ।

नाटकलक्षणरत्नकोशः सम्पादयतु

(१०५०-११०० ई० ) सागरनन्दी मुख्यतः नाट्यशास्त्रमधिकृत्य नाटकलक्षण-रत्नकोशः' नामकः ग्रन्थः जग्रन्थ । अस्मिन् ग्रन्थे दशरूपकवत् केवलं नाट्यसम्बन्धिनां विषयाणामेव संग्रहमस्ति । भरत-हर्ष-विक्रम-मातृगुप्त-गर्ग-अश्मकुट्ट-नलकुट्ट-वादरि-प्रभृतिआचार्याणां मतानुसारेणास्य ग्रन्थस्य रचनाऽबभूव । तद्यथा

श्रीहर्ष विक्रमनराधिप-मातृगुप्तगर्गाश्मकुट्ट-नखकुट्टक-वादरीणाम् ।

एषां मतेन भरतस्य मतं विगाह्य घुष्टं मया समनुगच्छत रत्नकोशम् ।।[5]

सागरनन्दिनः समयस्तु १०५० ई०-११०० ई० निश्चितो भवति ।

काव्यानुशासनम् सम्पादयतु

(१०८८-११७२ ई० ) गुर्जर देशस्योऽयं जैनोऽलङ्कारचूड़ामणिसंज्ञकवृत्तिसमेतकाव्यानुशासनयोगशासनद्वयाश्रयमहाकाव्यदेशीनाममालादिबहुग्रन्थानां कर्ता । कुमारपालनृपसमकालिकः ( १०८८ ई०-११७२ ई० ) इति तद्गन्थावलोकनेनावधार्यते ? एतत्कृतकाव्यानुशासनेऽष्टौ परिच्छेदाः । यत्राऽलक्षारतत्त्वानां तथ्यस्य विस्तृतेन विवेचना समुल्लसति । प्राचीनग्रन्थात् सङ्कलनमेवाधिकं मौलिकता तु नाम मात्रमित्यादि विवेचकानां मतम् ।

काव्यालङ्कारः सम्पादयतु

( १०९० ई०-११६० ई० ) वाग्भटस्य काव्याऽलङ्कारः यो वाग्भटाऽलङ्कारत्वेनाऽपि प्रसिद्धो निबन्धस्तत्कर्ताऽस्ति । एतन्निमित नेमिनिर्वाणकाव्यमप्यस्ति । अस्य काव्यस्य पञ्चदशसर्गेषु जैनतीर्थङ्करनेमिनाथस्य चरित्रवर्णनमस्ति । एतत्कविना स्निग्धमाधुर्य-प्रसादैः पूर्णा । अस्य महाकाव्यस्यानेकानि पद्यानि काव्यालङ्कारे उद्धृतानि सन्ति । वाग्भटस्तु ‘काव्यालङ्कारः' नामालङ्कारशास्त्रस्य प्रमुखं ग्रन्थं निबबन्ध । ग्रन्थेऽस्मिन् पञ्चपरिच्छेदेषु २६० कारिकाः सन्ति । अत्र काव्यशास्त्रीय प्रमुखविषयाणां साङ्गोपाङ्गवर्णनं कृतम् । जैनाचार्योऽयं महापुरुषः । अस्य पितुर्नाम ‘सोमः' आसीत् ।

वंभंड सुत्ति संपुड-मुत्ति अमणियो महासमूहव्व ।

सिखिवाऽत्ति तणओ आसिवुहो तस्स सोमरस ।।[10]

वाग्भटस्तु अनहिलपट्टनस्य चालुक्यवंशीयराज्ञः कर्णस्य पुत्रः जयसिंहस्य सभापण्डितः आसीत् । अनेकस्थलेषु जयसिंहस्य प्रशंस्त्यात्मकमुल्लेख कृतमनेन । यद्यथा -

इन्देण किं यदि सकर्णनरेन्द्रसूनुरैरावरेण किमहो यदि तद् द्विपेन्द्रः

दम्भोलिनाप्यलमलं यदि तत्प्रलापः स्वर्गोप्ययं ननु मुधा यदि तत्पुरीसा ।।[3]

जगदात्मकीत्तशुभ्रं जनयन्नुद्दामदोः परिघः ।

जयति प्रतापपूषा जयसिंहः क्ष्माभृदधिनाथः ॥[4]

असाहिल्ल पाटकं पुरमववियतिः कर्ण देवनृपसूनुः ।

श्रीकलशनामधेयः करी च रत्नानि जगतीह ॥[5]

जयसिंहस्तु १०८३ इस्वीये 'सिंहासनारूढो भूत्वा ११४३ ई० पर्यन्तं राज्यमकृतेति । अतो वाग्भटस्याऽपि १०९०-११६० खीष्टाद्वयोर्मध्ये स्थितिरनुमीयते ।

नाट्यदर्पणः सम्पादयतु

(११००-११८० ई० ) प्रसिद्धो जैनाचार्यों हेमचन्द्रो यमात्मन उत्तराधिकारिणमकृत सोऽयं रामचन्द्रः ११०० ख्रीष्टाब्दतः ११८० ख्रीष्टाब्दपर्यन्तं भुवमलमकार्षीत् । अयं गुर्जरप्रान्तप्रशासकयोः कुमारपालयोः समकालिकः । नलविलासः, निर्भयभीमव्यायोगः, कौमुदीमित्रानन्दश्चास्य ग्रन्थाः प्रथन्ते । गुणचन्द्रोऽपि तस्य मित्रम् एवासीत् । उभावपि जैनदर्शनस्य विख्यातौ विद्वान्सावास्ताम् । आभ्यां मिलित्वैव नाट्यदर्पणस्य रचना कृता ।

नाट्यदर्पणस्तु चतुषु विवेकेषु विभक्तः अस्ति । ग्रन्थेऽस्मिन् कारिकाः वृत्तयश्च सन्ति । नाट्यदर्पणे रामचन्द्रेणाधोलिखितानां कृतीनामुल्लेखः कृतः -

(१) कौमुदीमित्रानन्दप्रकरणम्

( २ ) नलविलासनाटकम्

( ३ ) निर्भयभीमव्यायोगः

( ४ ) मल्लिकामकरन्दप्रकरणम्

( ५ ) यादवाभ्युदयनाटकम्

( ६ ). रघुविलासनाटकम्

( ७ ) राघवाभ्युदयनाटकम्

(८) रोहिणीमृणांङ्क प्रकरणम्

( ९ ) वनमालानाटिका

(१०) सत्यहरिश्चन्द्रनाटकम्

( ११ ) सुधाकलशनाटकम् ।

रूपकातिरिक्तं नाट्यदर्पणे त्रयोदशोपरूपकानामपि वर्णनमस्ति । तद्यथा---

( १ ) सट्टकः

( २ ) श्रीगदितः

( ३ ) दुर्मिलिता

( ४ ) प्रस्थानम्

( ५ ) गोष्ठीः

( ६ ) हल्लीसकः

( ७ ) नर्तकः

(८) प्रेक्षणकः

(९) रासकः

( १० ) नाट्यरासकः

( ११ ) काव्यम्

( १२ ) भाणः

(१३) भणिका ।

रामचन्द्रस्य विशेषता रसरूपेणेतेषां संख्यानिर्धारणे चाऽस्ति । अस्यां बत 'सुखदुःखात्मको रसः•••••। तत्रेष्टविभावनादि प्रथितस्वरूपसम्पत्तयः

रहास्यवीरादभुतशान्ताः पञ्च सुखात्मनोऽपरे पुनरनिष्टविभावाद्युपनीतात्मानः करुणरौद्रबीभत्सभयानकाश्चत्वारो दुःखात्मानः ।[6]

दुःखात्मकेष्वपि करुणादिरसेषु प्रेक्षकानां प्रवृत्तिः कथं भवेदित्याशय समाधत्ते-‘अनेनैव च सर्वाङ्गाह्लादकेन कविनटशक्तिजन्मना चमत्कारेण ब्धाः परमानन्दरूपतां दुःखात्मकेष्वपि करुणादिषु प्रतिजानते । एतदालौल्येन प्रेक्षकाः अपि एतेषु प्रवर्तन्ते । ( ना० द० ३७ ) रामचन्द्रेण 2G प्रमाणितम् यदभिनेताभिनयं कुर्वन् स्वयमपि रसानुभुतिं लभते । था-'पण्यस्त्रियो हि धनलोभेन पररत्यर्थं इत्यादिविपञ्चयन्त्यः कदाचित स्वयमपि परां रतिमनुभवन्ति । गायनाश्च परं रञ्जयन्तः कदाचित् स्वयमपि राज्यन्ते ( ना० द० तत्रैव द्रष्टव्यम् ) संस्कृतसाहित्यस्य ऐतिहासिक दृष्ट्याऽपि नाट्यदर्पणस्य पर्याप्तमहत्त्वमस्ति । अस्मिन्-ग्रन्थे तथाविध काव्यानामुद्धरणानि सन्ति यान्यद्याप्यनुपलब्धान्येव यथा विशाखदत्तरचितदेवीचन्द्रगुप्तनाटकस्य“यथा देवीचन्द्रगुप्ते द्वितीयेऽङ्के प्रकृतीनाश्वासनाय शकस्य ध्रुवदेवी सम्प्रदानेऽभ्युपगते राज्ञा रामगुप्तेनारिवधार्थं यियासुः प्रतिपन्नध्रवदेवीनेपथ्यः कुमारचन्द्रगुप्तो विज्ञपयन्नुच्यते । ( नाट्यदर्पणस्य गायकवाड-ओरियण्टल सीरीज द्वितीय संस्करणस्य १२४ पृष्टे द्रष्टव्यम् ) रूपकस्य यथार्थस्वरूपज्ञानेऽप्यस्य ग्रन्थस्य महत्त्वमस्ति -

रूपस्वरूपं विज्ञातुं यदीच्छत यथेप्सितम्

सन्तस्तदानीं गृह्णीत निर्मलं नाट्यदर्पणम् ।।[7]

रामचन्द्रगुणचन्द्र गुर्जरस्य नृपतीनाम्-सिद्धराजः (१०९३-११४३ ई०) कुमारपालः (११४३-११७२ ई० ) तथा अजयपाल: (११७२-११७४ ई० ) • एतेषां राज्ञां शासनकाले विद्यमानावास्ताम् । अतः अनयोरपि समयः ११०० ख्रीष्टाब्दतः ११८० ख्रीष्टाब्दपर्यन्तमनुमीयते ।।

काव्यकल्पलता सम्पादयतु

(१२००-१२६० ई० )। अरिसिंह-अमरचन्द्रयोः सम्मिलिता रचना काव्यकल्पलताऽस्ति कविशिक्षाविषयकोऽयमपूर्वो ग्रन्थः । उभयोरप्यैक एव गुरुः जिनदत्तः आसीत् । अमरसिंहस्य पितुर्नाम लावण्यसिंहः आसीत् । गुर्जरप्रदेशस्य ढोलकरराज्यस्य . राणाधीरधवलस्याप्तसचिवस्य वस्तुपालजैनस्यायं मित्रमासीत् । अस्य वस्तुपालस्य प्रशंसायाम् अनेन सुहृत्संकीतनाख्यं काव्यमपि प्रणीतम् । काव्यकल्पलताऽतिरिक्ताः छन्दोरत्नावली, काव्यकल्पलतापरिमलम्, अलङ्कारप्रबोध इति प्रयोऽस्य ग्रन्थाः प्रथन्ते । जिनेन्द्रचरित्रमप्यस्यैव कृतिरिति कथ्यते । काव्यकल्पलतायां चत्वारः प्रतानाः सन्ति । प्रथमे छन्दः सिद्धिः वणता, द्वितीयेशब्दसिद्धिः ध्यातव्या, तृतीये श्लेषसिद्धिः, यत्र श्लेषस्य प्रपञ्चः, चतुर्थे चार्थसिद्धिः । धीरधवलवस्तुपालयोः समयः त्रयोदश ख्रीष्टाब्दः आसीत् । अतः अनयोरपि समयः त्रयोदशशतकस्य मध्यभागे एव आसीत् ।

भावप्रकाशनम् सम्पादयतु

(११७५-१२५० ई० ) शारदातनयस्य भावप्रकाशनमेकः महत्त्वपूर्णग्रन्थोऽस्ति । अस्मिन् ग्रन्थे मुख्यतः नाट्यशास्त्रीय विषयाणां वर्णनमस्ति । अयमुत्तरभारतस्य मेरूत्तरजनपदस्य माठरपूजानामकस्य ग्रामे ब्राह्मणपरिवारे जनि लेभे । अस्य पूर्वजाः पुण्यमयाः वैदुष्यमयाश्चाभुवन् । दिवाकरभट्टस्तु गुरुरासीच्छारदातनयस्य

नाट्यशालापतिः कश्चिद् दिवाकर इति द्विजः ।

तथैव नाट्यवेदस्य नियुक्तोऽध्यापने तथा ।। [8]

शारदातनयस्त्वभिनवगुप्तस्यैवानुयायी आसीदिति । तद्यथा -

भट्टाभिनवगुप्ताचार्यपादप्रोक्तेन वर्मना ।

अयं प्रबन्धः कथितः शारदायाः प्रसादतः ।।

दशाधिकारेषु विभक्तेऽस्मिन् ग्रन्थे प्रथमाधिकारे भावनिर्णयोऽस्ति, द्वितीयेऽधिकारे रसस्वरूपाश्रयवृत्ति निर्णयोऽस्ति, तृतीयाधिकारे रसभेदस्तत्प्रकारनिर्णयः, चतुर्थे शृङ्गारालम्बननायकनायिकादिस्वरूपनिर्णयः, पञ्चमे नायकनायिकाभेदतत्तदवस्थादिनिरूपणम्, षष्ठे शब्दार्थसम्बन्धस्तदभेदप्रकारनिर्णयः, सप्तमे नाट्येऽतिवृत्तशरीरलक्षणाभिधानम्, अष्टमेऽध्याये दशरूपकवर्णनम्, नवमेऽध्याये नृत्यभेदस्वरूपनिरूपणम्, दशमेऽध्याये नाट्यप्रयोगभेदप्रकारविशेषनिर्णयः, इति विषयाः निरूपिताः ।

सर्वप्रथमं शारदातनयः मम्मटस्य मतमालोचितवान् तदनन्तरं शिङ्गभूपालेनास्य शारदातनयस्य मतमालोचितम् । तदयं शारदातनयः मम्मटात्परवर्ती शिङ्गभूपालात्पूर्ववर्ती च सिद्धो भवति । मम्मटः १०५० ई० स्थितो शिङ्गभूपाल १३६० ई० स्थितस्तयोर्मध्ये स्थितस्यास्य त्रयदशशतकस्य द्वितीय चरणे स्थितिरनुमीयते ।।

कविकल्पलता सम्पादयतु

( १३००-१४०० ई० ) देवेश्वरो नामाचार्यो १३००-१४०० ई० कालिकोऽलङ्कारशास्त्रे ‘कविकल्पलता' नामग्रन्थं स्वोपज्ञवृत्तिसहितं प्रणीतवान् । अत्र ग्रन्थे किमपि विशिष्ट वस्तुं नास्ति, प्राचामुक्तय एव यथा प्रसङ्ग सङ्गृह्य ग्रन्थकारं लम्भिता ।

एकावली सम्पादयतु

(१२६०-१३२५ ई० ) विद्याधरोऽयं खलु उत्कलदेशवासी, एकावलीनामकग्रन्थस्य कर्ता । काव्यप्रकाश-अलङ्कारसर्वस्वयोराधारं गृहीत्वा ह्येकावलीनामकग्रन्थं जग्रन्थ । ग्रन्थेऽस्मिन् त्रयोंऽशाः-कारिकाः, वृत्तयः, उदाहरणानि च । अष्टोन्मेषेषु विभक्तेत्र ग्रन्थे काव्यशास्त्रीय सर्वेषां प्रसिद्धविषयाणां निरूपणो जातः । एकावल्याः सर्वाधिकविशेषता इयमेवास्ति यदेतत्कृतौ प्रतिपदं, गूढविषयव्यञ्जनक्षमता, विवेचनाशक्तिश्च प्रकाशन्ते । अत्र सकलान्युदाहरणानि विद्याधरस्य स्वनिमतान्येव, येषु निजाश्रयदातुरुत्कलाधिपते नरसिंहदेवस्य प्रशस्तयः लिखितवान् । तामुदाहरण-श्लोकान् चाटुश्लोकेन व्यवहृयतेऽनेन स्वयमेव । तद्यथा

एकविद्याधरस्तेषु कान्तासम्मितलक्षणम् ।

करोमि नरसिंहस्य चाटुश्लोकानुदाहरन् ॥[9]

एकावल्याः प्रसिद्धटीकाकारेण मल्लिनाथेन ‘तरला' नामिका टीका लिखिताऽस्ति । नरसिंहदेवस्य राज्यकालः १२८०-१३१४ खीष्टाब्दोऽस्ति । शिङ्गभूपालेन निजरसार्णवसुधाकरे नरसिंहदेवस्य चाटुकारः विद्याधरस्तथा तस्य ग्रन्थस्याऽपि चर्चा कृताऽस्ति यथा-'उत्कलाधिपतेः शृङ्गाराभिमानिनो नरसिंहदेवस्य चित्तमनुवर्तमानो विद्याधरेण कविना बाढमभ्यन्तरी कृतोऽसि एवं खल् समथतमेकावल्यामनेन । ( २०६ पृष्टे द्रष्टव्यम् ) रसार्णवसुधाकरस्य रचनाकालः प्रायः १३३० ख्रीष्टाब्दः वर्तते अतः विद्याधरस्य समयः १२६० खीष्टाब्दतः १३२५ खीष्टाब्दयोर्मध्ये स्वीकर्तृमुचितं प्रतीतो भवति ।

प्रतापरुद्रयशोभूषणम् सम्पादयतु

(१२७०-१३४० ई० ) विद्यानाथस्य ‘प्रतापरुद्रयशोभूषणम्' काव्यशास्त्रस्य प्रसिद्धैकः ग्रन्थोऽस्ति । काव्यप्रकाश-अलङ्कारसर्वस्वयोराधारं गृहीत्वैवामुं ग्रन्थमसावरचयत् । एकावल्यामलङ्कारशास्त्रस्य या वर्णनशैली प्रवर्त्तमाना जाता सैव शैली विद्यानाथेनात्र ग्रंहीता सौन्दर्यचमत्कृता चास्याभिव्यक्तिः परिष्कृता परिमार्जिता च दृश्यते । ग्रन्थेऽस्मिन्नव प्रकरणानि सन्ति । तेषु प्रकरणेषु नायक-काव्य-नाटकरस-दोष-गुण-शब्दाऽलङ्कार-अर्थालङ्कार-मिश्राऽलंङ्कारादयः क्रमशस्त्वनेन यथास्थानं प्रसङ्गतो निरूपिता निवेशिताश्च । अत्र त्रयोंऽशाः—कारिकाः, वृत्तयः, उदाहरणानि च सन्ति । तेषु स्वरचितेषुदाहरणेषु निजाश्रयदातुः महाराजप्रतापरुद्रस्य प्रशस्तिः वणता । अस्य नृपतेः ग्रन्थकारेण मुक्तकण्ठेन प्रशंसा कृता ।। यथा -

प्रतापरुद्रदेवस्य गुणानाश्रित्य निर्मितः ।

अलङ्कारप्रबन्धोऽयं सन्तः कर्णोत्सवोऽस्तु वः ॥[10]

प्रतापरुद्रः आन्ध्रप्रदेशस्य काकतीय वंशस्य राजा आसीत् । अस्य नृपतेः राजधानी वारङ्गलः ( एकशिला ) आसीत् । प्रसिद्धव्याख्याकारः मल्लिनाथस्य पुत्रेण कुमारस्वामिना 'रत्नापण' नाम्नी टीका कृता । प्रतापरुद्रस्य शिलालेखः १२९८ खीष्टाब्दतः १३१७ खीष्टाब्दपर्यन्तमुपलब्धो भवति । अनेनास्य स्थिति- . कालः त्रयोदशशताब्द्याः अन्तिमो भागस्तथा चतुर्दशशताब्द्याः प्रथमचरणे सिद्धो भवति । विद्यानाथस्तु प्रतापरुद्रस्य समकालीन आसीत् । तेनास्य समयं १२७० खीष्टाब्दमारभ्य १३४० खीष्टाब्दपर्यन्तं मन्यते ।

रसार्णवसुधाकरः सम्पादयतु

( १३००-१३६० ई० ) नाट्यशास्त्रीयविषयमाश्रित्य शिङ्गभूपालेन रसार्णवसुधाकरनामको विशिष्टाऽलङ्कारिकग्रन्थो विरचितो यत्र त्रिषुल्लासेषु नाट्यशास्त्रीयविविधविषयोपनिबद्धा । तत्र प्रथमे रञ्जकोल्लासे नायकनायिकायाः लक्षणं तद्भेदाश्च वणताः, द्वितीये रसिकोल्लासे रसस्वरूपवर्णनं तदभेदाश्च ध्यातव्याः, तृतीये भावोल्लासे रूपकाश्रितविषयाणां विवेचना कृता । निःशङ्कशाङ्गदेवकृत -

सङ्गीतरत्नाकरस्याप्यनेन 'सङ्गीतसुधाकर'-नाम्नी टीका कृता । रसार्णवसुधाकरस्य पुष्पिकया एतत् प्रमाणितं भवति यत् शिङ्गभूपालः आन्ध्रप्रदेशस्य निवासी आसीत् । अयं ह्यान्ध्रनरेशस्य पुत्रस्तथाऽऽन्ध्रमण्डलाधीश्वरश्वासीत् ।। अस्य महापुरुषस्य जन्म रेचल्लवंशे बभूव । अस्य राजधानी 'राजाचलः' आसीत् । रसार्णवसुधाकरस्य पुष्पिकायामेवं लिखितमस्ति–'इतिश्रीमदान्ध्र मण्डलाधीश्वर-प्रतिगण्डभैरव-श्रीअन्नप्रोतनरेन्द्रनन्दन-भुजबलभीम-श्रीशिङ्गभूपालविरचिते रसार्णवसुधाकरनाम्नि नाट्याऽलङ्कारे रञ्जकोल्लासो नाम प्रथमो विलासः । अतः शिङ्गभूपालस्य स्थितिकालः खीष्टस्य चतुर्दशशताब्द्याः पूर्वार्द्ध: एव सामान्यतः निश्चीयते ।

रसमञ्जरी-रसंतरङ्गिण्यौ सम्पादयतु

(१४३० ई०-१५०० ई० ) काव्यालङ्कारगगने ‘रसमञ्जरी'समभिधानं रसनिबन्धं कर्तुः कीर्तिध्वजां धुनोति । ग्रन्थेऽस्मिन् सपरिकरालम्बनविभावसात्त्विकभावनिरूपणमुखेन स्वरचितरुचिरोदाहरणैः सावयवः शृङ्गाररसः सविशेषं निरूपितः । अस्य ग्रन्थस्य सारल्यं सुतरां प्रशंसनीयम् । इहत्या उदाहरणश्लोकाः शब्दार्थचारिमसम्पदा सकलानेव सदृशानतिशेरत । सर्वथा स्वविषयेऽप्रतिम एवेति ग्रन्थोऽयमिति ।

रचयिता चास्य श्रीजानकीजनिजागरूकयशोभासुरमिथिलामहीमण्डलान्तत ‘सरिसव' नाम ग्राममधिवसतो मैथिलश्रोत्रियाग्रजन्मसोदरपुरसरिसववंशावतंस-महामहोपाध्यायशङ्करमिश्रानुजमहादेवमिश्रात्मजनुषो ढक्काकविविरुदविभूषितस्य महामोहादीनां प्रणेतुः कविचक्रचूडामणेगणेश्वरापराभिधानस्य गणपतिमिश्रस्य तनूजः श्रीभानुदत्तमिश्रोऽस्ति । भानुकविना प्रकृतग्रन्थान्ते -

तातो यस्य गणेश्वरः कविकुलालङ्कारचूडामणि।

देशो यस्य विदेहभूः सुरसरित्कल्लोलकिर्मीरिता ।।

इत्यनेन स्वाभिजनो मिथिलादेशः, स्वजनकश्च गणेश्वरः प्रत्यपादि । परैः पुनर्गणनाथस्तयाभ्यध्यायि । पञ्जीप्रबन्धेन तु गणपतिरेव तथा निरदेशीति विविधविधविप्रतिपत्तिबीजकविचिकित्साप्रसृतौ पञ्जीनिबन्धलेख एव मैथिलेषु सर्वतः प्रमाणमिति मन्यमानाः कुमारभार्गवीये स्वयङ्कविकृतवंशवर्णनमनुसन्दधाना औफेक्टमहाशयसम्मतिं चाददानानामयुगान्तरकल्पनाच्छन्दोनुरोधेनार्थंक्यमाश्रित्यैवेति निर्णयामः ।

यद्यपि कविनाऽनेन स्वसमयः क्वाऽपि नोपन्यस्तः तथाऽपि म० म० शङ्करमिश्रस्य समयादवसातुं शक्यते । स च १४८८ ख्रीष्टाब्दे मिथिलामभूषयदिति नेपालराजपुस्तकालयस्य ग्रन्थलेखाच्च सिद्धो भवति यदयं । पञ्चदशशताब्द्यामवर्ततेति नासम्भाव्यम् । भानुकवेः पौत्र्याः पुत्रो भृङ्गदूतस्य निर्माता गङ्गानन्दकविः कर्णभूषणे, स्वसंरक्षक बीकानेरनरेशं कर्णसिंहमवर्णयत् । महाराजकर्णसिंहः खीष्टसप्तदशशताब्द्यामासीदिति ( क्रोनोलौजी ऑफ इण्डिया) भारतेतिहासपद्धतौ सी० एम० एफ० महानुभावेन लिखितम् । इत्थं किल सप्तदशशताब्द्यां विद्यमानस्य गङ्गानन्दकवेः प्रमातामहः कविभानुदत्तः पञ्चदशशताब्द्यामविद्यतेतिनाद्भुतम् । ‘विवादचन्द्र' नामकग्रन्थस्य प्रणेतुः मिसरूमिश्रस्यायं भानुकविः आवुतः आसीत् । मिसरूमिश्रस्य स्थितिकालस्तु पञ्चदशशताब्द्याः मध्यभागः निश्चीयते । अतोऽस्यापि सैव कालः इति स्थिरो भवति । एतेन भानुदत्तस्त्रयोदशशताब्द्या उत्तरार्द्धऽभूदिति तीरभुक्तीतिहासप्रणेतुलेंखोऽपि निर्मल एव । वस्तुतस्तु भानुकवेः स्थितिकालः पञ्चदशशताब्द्याः मन्यते इति ।

रसमञ्जरी-रसतरङ्गिणी-रसपारिजात-गीतगौरीपति-कुमारभार्गवीयाःलङ्घारतिलक-मुहूर्तसार-शृङ्गारदीपिकाप्रभृतयः प्रभूताः . भानुकविप्रणीताः प्रबन्धाः श्रूयन्ते । किन्तु, ते नैवाद्यत्वे साकल्येनोपलभ्यते। तत्र नायकयोरंवस्थाभेदेन बहवो भेदाः, ते रसमञ्जय विशेषतो दशिताः इति रसतरङ्गिण्यां दर्शनात्ततो रसमञ्जर्या ज्यायस्त्वमवधारयामः । कविरसौ निजामोपनामभूमिभृतं देवगिरीश्वरमुपाजीवदिति सात्विकभावसमासोदाहरणे--

'तत्क राजपथे निजामधरणीपालोयमालोकितः' इति रसमञ्जरीश्लोकांशोऽपि सूचयति ।

भक्तिरसामृतसिन्धुः, उज्ज्वलनीलमणिश्चेति सम्पादयतु

(१४७०-१५५४ ई० ) रूपगोस्वामी नामको विद्वानयं महावैष्णवाचार्यस्य सुप्रसिद्धस्य विदुषो महाप्रभुचैतन्यदेवपादाचार्यस्य शिष्योत्तम आसीत् । भक्तिः मानवहृदयमुत्तेजति समाकर्षति च । अतः प्राचीनकालादेव मानवः धर्मस्य स्वोदेश्यस्य च प्रचाराय ग्रन्थस्याश्रयं गृह्णाति । महापण्डितः रूपगोस्वामी अपि गौडीय वैष्णवसम्प्रदायस्य प्रचाराय निजग्रन्थं विरचितवान् । सर्ववित् रूपगोस्वामी भक्तिरसामृतसिन्धु-उज्ज्वलनीलमणिनामक ग्रन्थद्वयमरचयत् । अनयोः ग्रन्थयोर्मध्ये मधुराख्य भक्तिरसस्य प्राधान्यमस्ति । ग्रन्थकारोऽयं भगवान् श्रीकृष्णचन्द्रस्यानन्योपासकः आसीत् । तेनाऽत्र बहूनि कृष्णपरकोदाहरणानि सन्ति । अतोऽनुमीयते यदस्य महापुरुषस्य जन्म १४७०-१५५४ ख्रीष्टाब्दयोरन्तरमभवदिति ।

काव्यप्रदीपः सम्पादयतु

( षोडशतकम् ) अयं ठक्कुरोपनामको विद्वद्वर श्रीगोविन्दो मिथिलायां श्रीरविकरवंशे जन्म लेभे इति तद्देशप्रसिद्धपञ्जीकार पुस्तकेषु समुपलभ्यते । अधुनाऽपि गोविन्दवंशोंद्भवामिथिलान्तर्गत–‘भटसीमर' ग्रामे निवसन्तीत्यपि तत्पुस्तकेभ्य एवं ज्ञायते । समयस्त्वस्या निश्चित एव । केवलमेतदनुमीयते यत्काव्यप्रकाशव्याख्या नरसिंहमनीषाभिधा ताराभक्तिसुधार्णवश्चेति ग्रन्थद्वयं नरसिंहठक्कुरप्रणीतमुपलभ्यते । स च नरसिंहठक्कुरः १६६८ मिते विक्रमाब्दे निर्णयसिन्धुनिर्मातुः काव्यप्रकाशटीकाकर्तुश्च कमलाकरभट्टादर्वाचीन इति तद्ग्रन्थपर्यालोचनया प्रतीयते । एतेन नरसिंहः ख्रीष्टाब्दीय षोडशशतकोत्तरभागसमुद्भूतः स्यादित्यनुमीयते । स च नरसिंहो गोविन्दात्पञ्चम इंति गोविन्दोऽपि पञ्चदशशतकोत्तरभागासन्नकाले विद्यमानासीदिति वक्तुं युज्यते । अथ च कमलाकरभट्टप्रणीतकाव्यप्रकाशटीकायां प्रदीपकारस्य नाम समुपलभ्यते । कमलाकरश्च १६१२ मिते ख्रीष्टाब्दे निर्णयसिन्धु जग्रन्थेति ख्रीष्टाब्दीयषोडशशतकान्तिमभागतः कथमपि नार्वाचीनः प्रदीपकारो गोविन्द इति सुव्यक्तमेव । काव्यप्रदीपस्यास्य टीकाद्वयमुपलभ्यते नागेशभट्टप्रणीता उद्योताभिधा, तत्सदुपाख्य वैद्यनाथभट्टप्रणीता प्रभा चेति ।

अयं हि गोविन्दः केशवात्मजः रुचिकरकवेः सापत्नभ्रातुः कनीयान् ख्यकवेज्येष्ठो भ्रातेति ज्ञायते । अयं हि उदाहरणदीपिकाख्यमुदाहृतश्लोकनग्रन्थं काव्यादिग्रन्थं च रचयामासेति निर्धार्यते । काव्यप्रदीपारम्भपयोः पर्यालोच ने सर्वं पूर्वोक्तं सम्यक्तयाऽवतं भवति । तथाहि तत्रारम्भे -

सोनोदेव्याः प्रथमतनयः केशवस्यात्मजन्मा।

श्रीगोविन्दो रुचिकरकवेः स्नेहपात्रं कनीयान् ।।

श्रीमन्नारायणचरणयोः सम्यगाधायचित्तम्,

नत्वा सारस्वतमपि महः काव्यतत्त्वं व्यनक्ति ॥ १ ॥

समाप्तौ -

ज्येष्ठे सर्वगुणैः कनीयसि वयोमात्रेण पात्रेधियां,

गात्रेण स्मरगर्वखर्वणपरे निष्ठाप्रतिष्ठाश्रये,

श्रीहर्षे त्रिदिवंगते मयि मनो हीने च कः शोधये-

दत्राशुद्धमहोमहत्सुविधिनाभारोयमारोपितः ।। १ ।।

परिशीलयन्तु सन्तोमनसा सन्तोषशीलेन।।

इदमदभुतं प्रदीपं प्रकाशमपि यः प्रकाशयति ।। २ ।।

दीपिकाद्वितयं कन्ये प्रदीपद्वितयं सुतौ ।

स्वमतौ सम्यगुत्पाद्य गोविन्दः शमविन्दते ।। ३ ॥

अलङ्कारकौस्तुभः सम्पादयतु

(१५२४-१६०० ई० ) कविकर्णपूरस्यालङ्कारकौस्तुभोऽलङ्कारशास्त्रस्यैकः प्रसिद्धो ग्रन्थोऽस्ति । ग्रन्थेऽस्मिन् दशकिरणानि सन्ति, येषु काव्यशास्त्रीयसर्वेषां प्रसिद्धविषयाणां विवेचनमस्ति । १५७२ खीष्टाब्देऽनेन महाप्रभुचैतन्यदेवस्य जीवनाधारितविषयान् संगृह्य 'चैतन्यचन्द्रोदयः' नाटकस्य रचना कृतेति । साहित्यसंसारे प्रसिद्धस्य कविकर्णपूरस्य नाम परमानन्ददाससेनः आसीत् । वंगदेशस्य 'नदिया' नामकप्रसिद्धग्रामेऽयमजन लेभे । अस्य पितुर्नाम शिवानन्दः आसीत् । अयमपि महाप्रभुचैतन्यस्य शिष्यः आसीत् । कविकर्णपूरस्य समयः १५२४ ख्रीष्टाब्दतः १६०० खीष्टाब्दयोर्मध्येऽनुमीयते ।

काव्यचन्द्रिका सम्पादयतु

( १५५०-१६२५ ई० ) 'काव्यचन्द्रिका' कविचन्द्रस्य काव्यशास्त्रीया सर्वोत्कृष्टा रचनाऽस्ति । अलङ्कारसाहित्येऽस्य कवेः गणना स्वतन्त्ररूपेण भवति । सरसता स्वाभाविकता चास्य ग्रन्थस्य विशेषता विद्यते । विविधरसानां समञ्जुलसमावेशेन विविधोऽलङ्कारादिवर्णनेषु मनोहराणां सरलानां शब्दानां प्रयोगेण च ग्रन्थमिदं भावपूर्णार्थरसाभिव्यक्ति विधाय निखिलेऽस्मिन्नलङ्कारसाहित्ये स्वीयं वैशिष्ट्यं तनोति । एतद्भिन्नद्वावतिरिक्तग्रन्थावप्यस्यास्ताम् । तत्र प्रथमः सारलहरी, द्वितीयस्तु धातुचन्द्रिकेति प्रसिद्धः आलङ्कारिकवैष्णवभक्तकविकर्णपूरस्य चायं सुपुत्रः आसीत् । अतोऽस्य समयः १५५० ख्रीष्टाब्दतः आरभ्य १६२५ ख्रीष्टाब्दपर्यन्तं स्वीक्रियते । काव्यचन्द्रिकायां षोडशसर्गाः सन्ति ।

अलङ्कारदीपिका सम्पादयतु

( १६५०-१७०० ई० ) स्वीयेनालङ्कारदीपिका नाम्ना ग्रन्थेनऽऽशाधरभट्टः संस्कृताऽलङ्कारशास्त्रेऽतितरां प्रख्यातः । यदि वयमप्पयदीक्षिताऽऽशाधरयोः ग्रन्थं विलोकयामः समालोचयामश्च विषयं र्ताह रचना दृष्ट्या कुवलयानन्दस्य प्रभावेण आशाधरः प्रभावित इति लक्ष्यते । आशाधरः ग्रन्थरचना, वस्तुवर्णनशैलीम्, अलङ्कारविधानमवश्यमेवाप्पयदीक्षितस्य जग्राह । ग्रन्थेऽस्मिन् त्रीणि प्रकरणानि सन्ति ।। आशाधरोऽयं कोविदानन्दस्तथा त्रिवेणिका चेति ग्रन्थद्वयं प्रणीतवान् । त्रिवेणिकायामभिधादिशक्तित्रयस्य वर्णनमस्ति । तद्यथा---

‘शक्ति भजन्ति सरला लक्षणं चतुरा जनाः ।

व्यञ्जना मर्ममर्मज्ञा कवयः कामनाजनाः ।।

आशाधरभट्टस्य पितुर्नाम रामजीभट्टस्तथा गुरोर्नाम धरणीधरश्वासीत् -

‘शिवयोस्तनयं नत्वा गुरुञ्च धरणीधरम् ।'

अस्य समयः ख्रीष्टीय सप्तदशशतकस्योत्तरार्धभागो मान्यः ।

नञ्जराजयशोभूषणम् सम्पादयतु

( १८ शताब्दी ) अभिनवकालिदासापरनामकः नरसिंहकविः प्रतिभावान् प्रभाववांश्च विद्वानासीत् । असौ ‘नञ्जराजयशोभूषणम्' नाम ग्रन्थं न्यबध्नादित्यसौ ‘यशोभूषणकारः' इति नाम्नैव सर्वत्रालङ्कारशास्त्रे विख्यातोऽभूत् । असौ विद्यानाथकृतं प्रतापरुद्रयशोभूषणमाधारीकृत्य ‘नजराजयशोभूषणम्' निरमात् । ग्रन्थेऽस्मिन् सप्तविलासाः सन्ति । प्रथमे नायकस्वरूपं व्यवस्थापितम्, द्वितीये काव्यविषयकानौचित्यं निरूपितम्, तृतीये ध्वनिप्रकारत्वं विवेचितम्, चतुर्थे रसस्वरूपं वणतम्, पञ्चमे दोषप्रसङ्गेऽन्यालङ्कारिकाणां मतं खण्डितम्, षष्ठे नाटकविषयकानौचित्यं वणितम्, सप्तमे अलङ्कारादीनां सिद्धान्ताः प्रतिपादिताः । अनेन षष्ठविलासे एकस्य सम्पूर्णनाटकस्यैव समावेशः कृतः । तं नाटकमाधारीकृत्यानेन नञ्जराजस्य दक्षिणनायकरूपेण चित्रणं प्रस्तोतुं प्रयासः कृतः । अस्मिन्प्रयासे तेनान्यग्रन्थसाहाय्यं न लब्धम् ।

नञ्जराजस्य पितुर्नाम वीरभूपः आसीत् । मैसूरप्रशासकस्य कृष्णराजबडियारस्यायं नजराजः श्वशुरो बभूव । तेनास्य तत्र शासने प्रभुत्वमासीत् । स तत्र राजकार्याण्यपश्यन् प्रधानो भूत्वा द्रव्यस्य स्वेच्छया भूरिशो व्ययं व्यधात् । अनेनैव कारणेनायं नरसिंहकविस्तमेव नञ्जराजं स्वाश्रयदातारूपेणागृह्णात् । तं नजराजस्य वीरत्वमुद्दिश्य कविः श्रीनरसिंहो षष्ठविलासे नाटकमेकं विनिम॑मे । तस्मिन् नाटके नञ्जराजस्य परां प्रशस्तिम् दक्षिणनायकरूपेणादर्शयत् । स्वरचितोदाहरणेषु दक्षिणनायकरूपेण नञ्जराजस्य वर्णनमत्युत्कृष्टं वर्तते । काव्यदृष्ट्या श्लाघनीया विद्यते । अत्र पद्यानां बन्धो यथैव दृढो माधुर्याञ्च स्फुटश्लेषपूर्णत्वञ्च तथैव हृदयावर्जकम् । पद्यमेकं दृश्यताम्

धम्मिल्ले नवमल्लिकाः स्तनतटे पाटीरचर्चा गले,

हारं मध्यतले दुकूलममलं दत्वा यशः कैतवात् ।

यः प्राग्दक्षिणपश्चिमोत्तरदिशाः कान्ताः समं लालयन्

आस्ते निस्तुलचातुरीकृतपदः श्रीनञ्जराजाग्रणीः ।।

अतोऽस्य नरसिंहकवेः स्थितिकालोऽष्टादशशतकोत्तरार्द्धभागो मन्यते ।

अलङ्कारकौस्तुभः सम्पादयतु

( अष्टादशशती ) व्याकरणशास्त्रस्य ‘वैयाकरणसिद्धान्तसुधानिधिः', न्यायशास्त्रस्य तर्ककुतूहलं दीधितिप्रवेशादयः ग्रन्थानां प्रणेता परमप्रतिभासम्पन्न विद्वान् विश्वेश्वरपण्डितो नामाऽलङ्कारिकः ‘अलङ्कारकौस्तुभः' नामकमुच्चकोटिकमलङ्कारशास्त्रीयग्रन्थं प्रणीतवान् । नारिकेलरसमिवास्य पण्डितस्य ग्रन्थेषु विविधरूपाः गम्भीरपाण्डित्यक्ष लक्ष्यन्ते । अलङ्कारकौस्तुभे काव्यशास्त्रस्योत्कृष्टता साधुतया समासादिता। परन्तु विशेषतोऽस्मिन्ग्रन्थे रसस्य प्रतिपादनं मलङ्कारादयः विषयाऽधिकप्रभविष्णुतया वय॑न्ते । पदवाक्यशब्दानामेतादृशं • गोभीर्यमैक्यञ्च विद्यते यत् सम्यक् ज्ञानाय काव्यशास्त्रीय नैपुण्यमादावश्यकमस्ति । ग्रन्थेऽस्मिन्नप्पयदीक्षित मतोल्लेखात् तन्मतं खण्डितमिवाभाति । क्वचित् क्वचिच्च जगन्नाथपण्डितराजस्याऽपि मतमालोचितं ग्रन्थकारेण ।

विश्वेश्वर पण्डितस्य पितुर्नाम लक्ष्मीधरः आसीत् । उत्तरप्रदेशस्य अल्मोडामण्डलान्तर्गत 'पाटिया' नामक ग्रामे ब्राह्मणकुले विद्वानयं जन लेभे । अस्य पण्डितस्य समयः अष्टादशशताब्द्यां मन्तव्यः ।

साहित्यसारः सम्पादयतु

| ( १८०० ई०-१८६० ई० ) अच्युतरायः नासिकप्रदेशस्य ‘पञ्चवटी' नामकग्रामे समुत्पन्नः प्रसिद्धोः विद्वानासीत् । तेन 'साहित्यसारः' इति काव्यशास्त्रीयग्रन्थः प्रणीतः । ग्रन्थोऽयं प्रौढो मर्मप्रकाशकः काव्यशास्त्रीय विवेचनापूर्णोऽस्ति । अत्र काव्यस्य नाट्यस्य च सर्वाङ्गीणं विवेचनं प्रस्तुतम् । साहित्यदर्पणशैल्या विरचितोऽप्ययं ग्रन्थः काठिन्यं न स्पृशतीति रचयितुश्चातुर्य प्रतीयते । अनेक द्वित्रेषु स्थलेषु दर्पणकारोप्याक्षिप्तस्तत्प्रति समाधानं विद्वद्भिश्च कृतम् । साहित्यगगनचन्द्रोऽयम् ख्रीष्टाब्दीयोनविंशतितमशतकोत्तरार्द्धभागे नासिक भुवमलञ्चकार इति विद्वद्भिनिश्चितम् ।

शृङ्गारसारिणी सम्पादयतु

( ख्रीष्टाब्दाष्टादशशतकस्य पूर्वार्द्धः ) । मिथिलाजनपदेषु लब्धजन्मा पदवाक्यप्रमाणपारावारपारीणः न्यायाचार्यों महामहोपाध्यायः चित्रधरमिश्रः ‘श्रृंगारसारिणी' नामक ग्रन्थं व्यरचयत् । ग्रन्थोद्देश्यं तेनैव निम्नरूपेण प्रकाशितम् -

‘लोकोत्तरानन्दमकरन्दरसालेषु रसेषु प्राथम्यात्, विषयिणां प्रचुरप्रयोगप्रापकत्वाच्च श्रृंगाररसो निरूप्यते ।'

निजग्रन्थे ऋङ्गारसारिणीकृता चित्रधरेणातिशयप्रबलाभिर्युक्तिभिर्मम्मटभट्टस्य, विश्वनाथस्य, जगन्नाथपण्डितराजस्य च मतं प्रत्याख्याय स्वमतस्य स्थापना कृता । तदेतत्सर्वं संक्षिप्तरूपेण द्रष्टव्यम् -

मम्मटभट्टास्तु–'प्रवासाभिलाषविरहे :::::रतिरेवशोकेन पुष्टा भवति' इति चेन्महापुरुषवचनादिना तत्राऽपि भविष्यत्प्राप्तिनिश्चयादिति कृतं पल्लवेन ।

यदुक्तं साहित्यदर्पणे–‘रतिर्मनोनुकूलेऽर्थे मनसः प्रवणायितमिति चेत् । न । औत्सुक्यस्योत्कण्ठायाश्च रतित्वापत्तेः । तयोर्व्यभिचारित्वेनेष्टापत्तेरयोगात्। एतेन 'इष्टसमीहाजनिता मनोविकृतिरपरिपूर्णा रतिरिति वदन्तो भानुदत्तमिश्रा अपि विचारणीयाः ।

यत्तु स्त्रीपुंसयोरन्योन्यालम्बनः प्रेमाख्यश्चित्तवृत्तिविशेषो रतिरिति जगन्नाथ . पण्डिता अवदन् तत्तुच्छम्::::::। एतत् परतयैव च भानुदत्त मिश्राणां जगन्नाथपण्डितानाञ्च लक्षणरचने सङ्गमनीये सुधीभिर्भाव्यमित्यलमतिविस्तरेण । अग्रेऽपि'''इतीति जगन्नाथपण्डितानां प्रलपितमप्यपास्तम् । प्ररूढत्वविशेषेणेनैव दोष निरासादित्यले पल्लवितेन ।

शृङ्गारसारिणी नामको ग्रन्थोऽयं मुद्रितः समुपलभ्यते । म० म० चित्रधरमिश्रस्य समयस्तु अष्टादशशतकस्य पूर्वार्द्धः निश्चीयते ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. अ० सं० ५, १
  2. चन्द्रा० १, २ ।।
  3. चन्द्रा० १, २ ।।
  4. चन्द्रा० १ म० १६
  5. प्रसन्नरा० १, १४
  6. प्र० रा० १, १५
  7. प्र० स० १, १८
  8. चन्दा० १।८
  9. काव्यालङ्कारशेखरे पृ० १८
  10. कन्दर्प ० ८।२।४९
  11. चन्द्रा० १, २ ।।
  12. चन्द्रा० १ म० १६
  13. प्रसन्नरा० १, १४
  14. प्र० रा० १, १५
  15. प्र० स० १, १८
  16. चन्द्रा० १, २ ।।
  17. चन्द्रा० १ म० १६
  18. प्रसन्नरा० १, १४
  19. प्र० रा० १, १५
  20. प्र० स० १, १८
  21. चन्दा० १।८
  22. काव्यालङ्कारशेखरे पृ० १८
  23. कन्दर्प ० ८।२।४९
  24. अ० वि० पृ० ३२ काव्यमालासंस्करणम्
  25. द्रष्टव्यः-'हिस्ट्री ऑफ संस्कृत पइिटिक्स' पृ० ३०५
  26. अ० शे० १, २, २ उपरि
  27. प्राणाभरण अन्तिमो भागः
  28. -भा० वि०
"https://sa.wikipedia.org/w/index.php?title=अलङ्कारग्रन्थाः&oldid=456454" इत्यस्माद् प्रतिप्राप्तम्