अलङ्कारसम्प्रदायः

(अलङ्कारसम्प्रदाय इत्यस्मात् पुनर्निर्दिष्टम्)

अलङ्कारसम्प्रदायो भामहेन प्रवर्त्तितोऽपि तद्ग्रन्थव्याख्यातृभिः रूद्रटोद्भटादिभिरेव स्थिरता प्रापितः । काव्येऽलङ्कारस्य प्राधान्यमपि येन केनापि रूपेण दण्डिनोऽपि स्वीकृतमासीदेव । एतत्सम्प्रदायानुसारिणां मते अलङ्कारा एव काव्यजीवातवः । अलङ्कारहीनं काव्यस्वीकरणं तथैवोपहास्पदं यथोष्णतारहितमग्निस्वीकरणम् । एतदेवोक्तं पीयूषवर्षिजयदेवेन -

अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती।

असौ न मन्यते कस्मादनुष्णमनलङ्कृती ॥[१]

अलङ्काराणां विकासः क्रमशः सञ्जातः । वैदिकसाहित्ये चोपमारूपकाद्यलङ्काराणां नामानि दृश्यन्ते । तत्रोपमा यथा- "ईयुषीरागमुपमा शाश्वतीनाम् ।"[२] "तदप्युपमाऽस्ति ।"[३] तद्यथा - 'प्रियया स्त्रिया सम्परिष्वक्तो .... एनमेवायं पुरुषः ....।'[४] "अरा इव रथनाभौ संहता यत्र नाटयः ।"[५] साङ्गरूपकं यथा -

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।

बुद्धि तु सारथीं विद्धि मनः प्रग्रहमेव च॥[६]

अलङ्काराणां विधिवन्निरूपणं सर्वप्रथमं भरतमुनिप्रणीतनाट्यशास्त्रे दर्शनीयम् । तत्रैवमस्ति -

उपमा रूपकं चैव दीपकं यमकं तथा।

अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः ॥[७]

अष्टमशताब्द्यां विद्यमानेन उद्भटेन निजकाव्यालङ्कारसारसंग्रहे एकचत्वारिंशदलङ्काराणां वर्णनं कृतम् । नवमशताब्दी सम्भूतेन रुद्रटेन वास्तवौदार्यातिशयश्लेषाणामलङ्कारमूलत्वं निरूप्य तेषु तारतम्यस्य वर्गीकरणाय चाभिनवप्रयासः कृतः । एतदनन्तरं कुवलयानन्दादिनिबन्धेषु पञ्चविंशत्यधिकशतमलडारा भेदोपभेदैनिरूपिताः सन्ति परन्त्वेतेषु अलङ्कारसंख्याया वर्धनं परिभाषायाः परिवर्तनपर्यन्तमेव सीमितमासीत् ।

एतत्सम्प्रदायप्रथमप्रवर्तकः आचार्यो हि वक्रोक्तिनामकमलङ्कारं यादृशं निरूपितवान् एतत्परवर्त्याचार्यो वामनस्तु तमेव किञ्चित् परिवृत्य स्वीकृतवान् । अलङ्कारविभजनाय कतिपयसिद्धान्ता अपि मूलरूपेण निर्णीताः सन्ति । विषयेऽस्मिन् आवलीकर्त्तुः विद्याधरस्य अतियुक्तियुक्तं वैज्ञानिकं निरूपणमस्ति । एतेन महानुभावेन हि औपगम्यविरोधतर्कान् अलङ्कारमूलविभेदकान् मत्वाऽस्मिन्नेव विषयेऽतिसुन्दररूपेण समीक्षा विहिता । अलङ्कारविकासानुसन्धानाय कतिपयाऽन्योऽपि प्रयत्नो विहितः ।

अलङ्कारा अपि शैल्या उत्कृष्टतायां सहायकाः भवन्ति । लौकिककटक-कुण्डलादयोऽलङ्कारा यथा शरीरादिकं भूषयन्ति, तथा काव्यगतानुप्रासादयः शब्दार्थरूपं बाह्यकाव्यशरीरमेव अलङ्कुर्वन्तीति न भ्रमितव्यम् । ते खलु काव्यात्मभूतरसमप्युपकुर्वन्ति, इत्यवश्यमस्ति तेन सम्बन्धः ।

यस्माद् हृदयप्रदेशात्काव्यमात्रस्योत्पत्तिर्भवति, तद् हृदयोल्लासादेवालङ्काराणामप्युत्पत्तिर्भवत्येवेति । स्त्रीणामपि भौतिकालङ्कारधारणे मानसिक एव उल्लासस्तिष्ठति, तदुल्लासाभाव एव विधवा नार्योऽलङ्कारधारणं न कुर्वन्ति । अत एव हृदयस्यौज उल्लासो वा अलङ्काराणां मूले माननीयो भविष्यति । रसानुभूतावप्यलङ्काराः सहायकाः भवन्ति उपमारूपकादयो हि मानसिकचित्रद्वारा स्पष्टता प्रदानमेव न कुर्वन्ति, प्रत्युत-अर्थान्तरन्यास-दृष्टान्त-प्रतिवस्तूपमा उदाहरणाद्यलङ्कारद्वारा विचाराणां पुष्टिमपि कुर्वन्ति । भ्रान्ति-सन्देह-स्मरणोप्रक्षाद्यलङ्कारद्वारा नानारूपैः सादृश्योपस्थापनं क्रियमाणं भवति । एवमेव क्रमालङ्कारेण यथासंख्यालङ्कारेण वा रचनायां क्रमोपस्थितिर्भवति, व्यतिरेकविभावना-संगति-विषम-व्याघातद्वारा विरोधस्य चमत्कारः उत्पन्नीकृताः भवन्ति तथा दर्शिताः भवन्ति यत् ब्रह्मणः सृष्टेः कविसृष्टौ विलक्षणता वर्त्तते इति। अन्योक्ति-समासोक्ति-सूक्ष्मातिशयोक्तिद्वारा उक्तिवैचित्र्यवचनचातुर्यकारः प्रदर्शितो भवति । कारणमाला-एकावली-मालादीपकसारादिशृङ्खलामूलकालङ्कारद्वारा प्रभावस्य वर्द्धनं कृतं भवति । लोकोक्तिद्वारा भाषायां सजीवता प्रापिता भवति । शब्दालङ्कारद्वारा शब्दमाधुर्यस्य सृष्टिःकृता भवति । एतेन रसादिभिरालङ्कारिकाः पूर्णपरिचिता एव भवन्तीति विज्ञायते ।

अत्रेदं विचार्यते-रसाद्यलङ्कारमध्ये आलङ्कारिकाः केषां प्राधान्यं स्वीकुर्वन्ति । तत्र भामहो रसवत्प्रेय-ऊर्जस्वि-समाहिताभिधचतुर्षु अलङ्कारेषु मध्य एव रसभावानां समग्रविषयानन्तः भावयति । रसवदलङ्कारेण दण्ड्याचार्योऽपि पूर्णपरिचितो प्रतिभाति । इत्थञ्चालङ्कारिकाचार्या रसतत्त्वं सम्यग्रूपेणीवजानन्ति किन्तु, सत्यप्येवमेकं प्राधान्यमलङ्कारस्यैवेति समुद्घोषयति । ये च ध्वनिवादिनः आचार्याः प्रतीयमानमर्थमेव महत्त्वरूपमङ्गीकुर्वन्ति तेषां मतादप्यालङ्कारिकाः पूर्णपरिचिताः सन्ति, ते हि प्रतीयमानार्थं समासोक्त्याक्षेपायलारेष्वेवान्तर्भावयन्ति । अलङ्काराणां विशिष्टानुशीलनेन व्याख्याकरणेन च वक्रोक्तेः ध्वनेः कल्पना प्रादुर्भूता । अलङ्कारमतस्य चैतत् शास्त्रेतिहासे महती विशेषता विद्यते ।

सम्बद्धाः लेखाःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. च० १/८
  2. ऋग्वेदः १।११३।९५
  3. शतपथब्राह्मणम् १५/४१/५
  4. बृहदारण्यकम् ४।३।२१
  5. मुण्डकोपनिषद् २।६
  6. कठोपनिषद् १।३।३
  7. ना० शा० १।७।४३
"https://sa.wikipedia.org/w/index.php?title=अलङ्कारसम्प्रदायः&oldid=456277" इत्यस्माद् प्रतिप्राप्तम्