अव (उपसर्गः)
(अव इत्यस्मात् पुनर्निर्दिष्टम्)
अव क्रोधे बोधरोधे धैर्यालम्बनभूषणे ।
न्यग्भावाभिभवादानभोजने श्लेषधर्षणे ॥
दयैकाग्र्यक्लृप्तसेवाप्रहासालोकशुद्धिषु ।
अनुत्साहप्रसाराज्ञावेलाशङ्कनमिश्रणे ॥
प्रयोगाः
सम्पादयतु१ क्रोधे – अवख्याति ।
२ बोधे – अवगतम् ।
३ रोधे – अवरोधः ।
४ धैर्ये – अवष्ट्म्भः ।
५ भूषणे – अवतंसयति ।
६ न्यग्भावे – अवनमति ।
७ अभिभवे – अवमन्यते, अवजानाति ।
८ आदाने – अवचिनोति ।
९ भोजने – अवदंशः ।
१० श्लेषे – अवगूहनम् ।
११ धर्षणे – अवमर्दः ।
१२ दर्पे – अवलिप्यते ।
१३ ऐकाग्र्ये – अवधत्ते ।
१४ क्लृप्ते – अवक्रीणीते ।
१५ सेवायाम् – अवलगति ।
१६ प्रहासे – अवस्तनोति ।
१७ आलोके – अवलोकयते ।
१८ शुद्धौ – अवदातः ।
१९ अनुत्साहे – अवसीदति ।
२० आज्ञायाम् – अवदति ।
२१ वेलायाम् – अवसरः ।
२२ आशङ्कने – अवदिशति ।
२३ मिश्रणे – अवदधाति सारेण अन्नम्।