अहं ब्रह्मास्मि (चलच्चित्रम्)

अहं ब्रह्मास्मि इति २०१९ तमे वर्षे प्रकाश्यमाणं किञ्चित् संस्कृतचलच्चित्रम्।[१] चन्द्रशेखरस्य जीवनम् आधारीकृत्य निर्मितस्यास्य चलच्चित्रस्य कथावस्तु चन्द्रशेखरकालीनस्य, आधुनिकयुगस्य च समान-सङ्घर्षस्य विषयम् उपस्थापयति। "यदा यदा अहिंसा म्रियते, तदा तदा आझादः जायते" इति चलच्चित्रस्यास्य वाकोवाक्यं (dialogue) प्रसिद्धम् अभवत्।

अहं ब्रह्मास्मि
निर्देशकः कामिनी दुबे
नाट्यरूपकारः आझादः
अभिनेतारः आझादः
चलच्चित्रमुक्तिदिवसः २०१९ (अनुमानितः)
देशः भारतम्

पृष्ठभूमिः सम्पादयतु

भारतीयचलच्चित्रप्रायोजकसंस्थासु "द बॉम्बे टॉकीझ स्टूडियोझ" अन्यतमा अस्ति। ८५ तः अधिकेभ्यः वर्षभ्यः पुरातना इयं संस्था त्रिभिः अन्यसंस्थाभिः सह स्थापिता जाता। ताः त्रीस्रः संस्थाः क्रमेण "बॉम्बे टॉकीझ पिक्चर्स", "बॉम्बे टोकीझ लैबोरेट्रीझ", "द बॉम्बे टॉकीझ लिमिटेड" च। चतुराः अपि संस्थाः १९३४ मध्ये स्थापिताः। कालान्तरे "द बॉम्बे टॉकीझ स्टूडियोझ" जम्बूद्वीपस्य प्रथमा आधुनिकसंस्थात्वेन स्थानम् अलभत। एतस्याः संस्थायाः चलच्चित्रेषु कार्यकर्तारः निर्देशकाः, गायकाः, सङ्गीतकाराः च चलच्चित्रक्षेत्रे ख्यातिं प्राप्तवन्तः। बॉम्बे टॉकीझ-संस्थया राजनारायणस्य नेतृत्वे भारतेन सह जम्बूद्वीपस्य चलच्चित्रस्य जगति विश्वसनीयता वर्धिता इति मन्यते।

अहं ब्रह्मास्मि सम्पादयतु

"अहं ब्रह्मास्मि"-नामकस्य चलच्चित्रस्य निर्मात्री कामिनी दूबे अस्ति।[२] चलच्चित्रस्यास्य निर्माणं "द बॉम्बे टॉकीझ स्टूडियोझ"-संस्थया बॉम्बे टोकीझ फाउण्डेशन, विश्वसाहित्यपरिषद्, वर्ल्ड लिटरेचर काउँसिल, आझाद ट्रस्ट इत्येतासां संस्थानां सहयोगेन निर्मातम् अस्ति। चलच्चित्रस्यास्य लेखकः, निर्देशकः, सम्पादकश्च "आझादः" अस्ति। चलच्चित्रमिदं "राष्ट्रपुत्र"-नामकस्य हिन्दीचलच्चित्रस्य भाषान्तरणम् अस्ति। "अहं ब्रह्मास्मि" इति राष्ट्रपुत्र-नामकस्य हिन्दीचलच्चित्रस्य संस्कृतसंस्करणस्य नाम। राष्ट्रपुत्र-चलच्चित्रं संस्कृतेन सह अन्यासु अष्टाविंशतिः (२८) भाषासु अनुदितम् अस्ति। राष्ट्रपुत्रस्य फ्रान्सादिदेशेषु प्रसिद्धम् अभवत्। एवं तु आदिशङ्कराचार्यः इत्यादीनि संस्कृतचलच्चित्राणि प्रसिद्धानि सन्ति, परन्तु आधुनिकधारायाः संस्कृतमाध्यमेन एतत् प्रप्रथमं चलच्चित्रं मन्यते।[३] [४]

प्रचारः सम्पादयतु

प्रचारकार्यार्थम् "अहं ब्रह्मास्मि"-चलच्चित्रस्य अभिनेता आझादः विभिन्नानां नगराणां, महानगराणां च भ्रमणं करोति। २०१९ तमवर्षस्य जुलाई-मासस्य द्वाविंशे (२२/७/२०१९) दिनाङ्के नवदेहल्यां चलच्चित्रस्य अस्य प्रचारकार्यक्रमः जातः आसीत्।[५] २०१९ तमवर्षस्य सितम्बर-मासस्य तृतीये (०३/०९/२०१९) दिनाङ्के गुजरातराज्यस्य कर्णावती-महानगरे प्रचारकार्यक्रमः भविता। कर्णावत्याः विश्वविद्यालयविस्तारे अतीरा-परिसरः AMA इति प्रसिद्धः, स एव प्रचारकार्यक्रमस्य स्थानम्। चलच्चित्रस्य अस्य प्रकाशनं शीघ्रं हि भविष्यति इति निर्मातृगणस्य कथनम् अस्ति।[६]

बाह्यपरिसन्धयः सम्पादयतु

सन्दर्भः सम्पादयतु