वैदिकधर्मे अहिंसायाः माहात्म्यं सर्वत्र प्रगीतम् उपलभ्यते । तत्र महाभारते उक्तम् – “अहिंसा परमो धर्मः” इति (१३-११६-२५) । श्रीमद्भगवद्गितायां दैवीसंपद्वर्णने अहिंसायाः अन्तर्भावः अस्ति । तद्यथा...

अहिंसायाः सङ्केतः
अहिंसासत्यमक्रोधस्त्यागः शान्तिरपैशुनम् (१६-२)

अष्टाङ्गयोगान्तर्गत-यमनियमेषु यमाः एवं वर्णिताः –

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहाः यमाः इति ।

जैन-बौद्ध-सिखमतैरपि अहिंसासिद्धान्तः सर्वात्मना स्वीकृतो वर्तते । आधुनुककाले महात्मना गान्धिनापि सत्यम् एवम् अहिंसा इति द्वे तत्वे राजनैतिकक्रियाकलापेषु मार्गदर्शकसूत्ररूपेण अङ्गीकृते । तत्र स्थूलसूक्ष्मभेदेन अहिंसा अपि द्विविधा उपवर्णिता । तत्र हनमं तथा शरिरं क्षतिग्रस्तं यथा स्यात् तथा ताडनम् इत्यादिक्रियाभ्यः विरतिः स्थूलरुपा अहिम्सा । वाक्ताडनादिभिः प्रपीडनम्, अपमानजनकव्यवहारेण मनःशान्तिभङ्गः इत्यादिक्रियाभ्यः विरतिः सूक्ष्मरूपा अहिंसा इति निगद्यते । किन्तु अहिम्सायाः उपदेशः प्राधान्येन हिंसा-क्षमायबलसंपन्नाय एव क्रियते । अयं च गुणः बलशालिनः एव अलङ्कारः । तत्र अति सर्वत्र वर्जयेत् इति न्यायेन अहिंसातत्वस्यापि तारतम्येन प्रयोगः उपदिष्टः । तत्र अपवादरूपेण कुत्रचित् हिंसा अनुमोदिता वर्तते । मनुश्च ब्रूते तत्र –

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनमायान्तं हन्यादेवाविचारयन् ॥ (८-३५०)

तत्रैव च आततायिनः एवं वर्णिताः...

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहा ।
क्षेत्रदारहरश्चैव षडेते आततायिनः ॥
महात्मा गान्धी

तथैव युद्धे क्षात्रधर्मस्य या हिंसा भवति साअनुमता शास्त्रकारैः । स्वयं भगवान् दुष्कृतां विनाशाय एव पृथिव्यामवतरति । सामान्यतः भ्रूणहत्या पातकं मता । किन्तु प्रसूतिकाले यदि शिशुः योनिमार्गे बाधारूपेण आगच्छेत् तर्हि तस्य च्छेदनमेव इष्यते । एवं “यज्ञीया हिंसा न हिंसा” इति मनुवचनं प्रसिद्धमेव (५-३१) । तत्र पिष्टपशुं कृत्वा प्राणिहत्या परिहर्तुं शक्यते इति कश्चित् ब्रूयात् । परन्तु वायुजलफलादिषु सहस्रशःसूक्ष्मजन्तवः सन्ति । तेषम् अहिंसा न मानवाधीना । महाभारते च एवम् उक्तं वर्तते......

सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।
पक्ष्मणोपि निपातेन येषां स्यात् स्कन्धपर्ययः॥ (शान्ति.१५-२६)

एवं यथा अतिसूक्ष्मजन्तूनां हिंसाम् अवरोद्धुं मानवाः न प्रभवन्ति तथा “जीवो जिवस्य जीवनम्” इति न्यायेन प्राणिसृष्ट्यां स्वोदरपूरणार्थं कृता हिंसा निसर्गनियमानुसारमेव प्रचलति इति श्रीमद्भागवते व्याधब्राह्मणसंवादे स्पष्टीकृतं पठ्यते । मनुना स्वार्थसिद्ध्यर्थं जिह्वालौल्यवशाद् वा पिरपराधप्राणिनां हिंसा निन्दिता । तत्रोक्तम् -

यः अहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया ।
स जीवंस्च मृत्श्चैव न कश्चित् सुखमेधते ॥ (५-४५)

परन्तु स्वहिम्सा निवारणाय कृता अपरिहार्या इति कृत्वा अनुमता ।अत एव विधिविधाने आत्मसंक्षणस्य अधिकारः प्रत्येकायप्रदत्तो वर्तते । आत्यन्तिक्याः अहिंसायाः आश्रयणाय यदि कश्चित् सदैव शान्तां वृत्तिं धारयेत् तर्हि तस्य पत्नीपुत्राणाम् अपहरणं भविष्यति । महाभारते प्रह्लादः स्वपौत्रं बलिम् उपदिशति.....

न श्रेयं सततं तेजः न नित्यं श्रेयसी क्षमा ।
तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ॥ (२८-६८)

बाह्यसंपर्कतत्न्तुः

सम्पादयतु

फलकम्:Anti-war

"https://sa.wikipedia.org/w/index.php?title=अहिंसा&oldid=366186" इत्यस्माद् प्रतिप्राप्तम्