आजाद हिन्द फौज्

(आज़ादहिन्दफ़ौज़ इत्यस्मात् पुनर्निर्दिष्टम्)
This article is about the Second Indian National Army under Subhas Chandra Bose. For the organisation under Mohan Singh, see First Indian National Army. For the modern Indian military, see Indian Armed Forces. For the army of the British Raj, see British Indian Army.

आजाद हिन्द फौज् (हिन्दी: आजाद हिन्द फौज् , आङ्ग्ल: aazad hind fauzz )  इत्यस्य नेतृत्वं यदा सुभाषचन्द्र बोस् इत्यस्य हस्ते आसीत्, तदा भारते हिन्दछोडो इति आन्दोलनं चलति स्म । [१] तदानीन्तने काले सुभाषचन्द्र बोस् इत्यनेन भारतस्य स्वतन्त्रतायैै जापान-देशस्य सेनायाः सहाय्येन ब्रिटिश्-शासकैस्सह युद्धस्य सज्जता कृता । १९४३ तमे वर्षे जुलाई-मासे आजाद हिन्द फौज् इत्यस्य नेतृत्वं सुभाषचन्द्र बोस् इत्यनेन स्वीकृतम् । तस्मात् दिनात् आजाद हिन्द फौज् इत्यस्य रचना, भारतस्य स्वातन्त्र्यप्रयासः दृढः अभवत् ।

आजाद हिन्द फौज्
सक्रियः August 1942 – September 1945
देशः फलकम्:Country data Azad Hind
भूमिका Guerrilla, infantry, special operations
सैन्यबलम् 43,000 (approximate)
ध्येयवाक्यम् Ittehad, Itmad aur Qurbani
(Unity, Faith and Sacrifice in Urdu)
अभिषेणनम् Kadam Kadam Badaye Ja
युद्धानि World War II
सेनानायकाः
सेनाधिपतिः Subhas Chandra Bose
आजाद हिन्द फौज इत्यस्य सैन्ययात्रा

भारत-देशे आङ्लशासनस्य प्रभावःसम्पाद्यताम्

ब्रिटिश्-देशात् पाश्चात्याः वाणिज्यार्थं भारतमागताः ।[२] तैः स्वव्यापाराय 'ईस्य इन्डिया' इत्यस्याः संस्थायाः स्थापना कृता । अस्याः समित्याः वा संस्थायाः माध्यमेन आङ्ग्लजनाः भारत-देशे आधिपत्यं स्थापयामासुः । अपि च 'इस्ट इन्डिया' इत्यस्याः संस्थायाः अधिकारिणः भूमिकरं गृह्णन्ति स्म । सर्वप्रथमं तैः बंङ्गालप्रान्ते भूसत्त्वप्राप्त्यर्थम् अधिकारः प्राप्तः । ते च तत्रस्थैः अधिकारिजनैः सह मिलित्वा भूसत्त्वंं स्वीकुर्वन्ति स्म, तत्रस्थाः नवाब प्रजाः च पालयन्ति स्म । अनेन प्रकारेण तत्र द्वीमुखिशासनपद्धत्याः प्रारम्भः अभवत् । द्विमुखिशासनपद्धत्यनुसारेण समितिसेवकाः कृषकेभ्यः बलात् करं गृह्णन्ति स्म । अतः कृषकाः अपि त्रस्ताः भवन्ति स्म । पुनरियं संस्था करद्रव्येन वाणिज्यं कृत्वा धनम् एकत्रितं करोति स्म, अल्पमूल्यानां वस्तूनाम् उच्चमूल्यैः विक्रयं च करोति स्म । अस्मात् कारणात् देशस्य वस्त्रव्यापारः ध्वस्तः अभवत् । [३] निर्धनकर्मकराः स्वोदरपूर्त्यर्थं महानगराणि च अगच्छन्, अन्ये कर्मकराः अकर्मण्याः च अभवन् । अनेन प्रकारेण अस्माकं भारत-देशस्य वाणिज्यं वैदेशिकानां हस्ते पातितम् ।

सामाजिकधार्मिकक्षेत्रे परिवर्तनम्सम्पाद्यताम्

आङ्ग्लशासकानां वाणिज्यशासननीतिभिः भूस्वामिनः, व्यापारिवर्गाः, शिक्षितजनाः, मध्यमवर्गीयाः, सर्वकारकर्मचारिवर्गीयाः च जनाः उत्पन्नाः जाताः । तदानीन्तने काले भारतीयप्रजासु स्वतन्त्रतायाः वाणिविकास वर्तमानपत्राणि प्रचलितानि ।[४]

समाजे प्राचीप्रथायाः स्थाने नवीनप्रथायाः उदयः जातः । अस्याः प्रथायाः प्रवर्तकः राजा राम मोहनराय इत्ययम् आसीत् । तेन महाभागेन सह लोर्ड विलियम् बेन्टिक् इतीयमपि समाजे नवीनप्रथायाः प्रसारे सहयोगम् अकरोत् । राजा राममोहनः सतीप्रथायाः विरोधं कृतवान् । पुनर्विवाहप्रथायाः, कन्याभ्रूणहत्यायाः च प्रतिबन्धम् अकरोत् तदर्थं नियमान् च अरचयत् ।[५]

भारतदेशे आङ्ग्लसर्वकारस्य शासनव्यवस्था आङ्ग्लभाषायां प्रचतति स्म । अतः आङ्ग्लभाषायाः आवश्यकता जाता । तस्मात् कारणात् भारते आङ्ग्लशिक्षाप्रारम्भः अभवत् । प्रारम्भे मद्रास (चेन्नई) मुम्बई-कोलकातादि महानगरेषु विश्वविद्यालयानां स्थापना अभवत् ।

भारते धर्मोत्थान इति आन्दोलनाय यवनसमाजः, ब्रह्मसमाजः, प्रार्थनासमाजः, आर्यसमाजः, रामकृष्णमिशन्-थियोसोफिकल् सोसैटि इति एतादृशीनां संस्थानां प्रादुर्भावः जातः ।[६]

सन्दर्भःसम्पाद्यताम्

  1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 48. 
  2. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 48. 
  3. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 48. 
  4. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 49. 
  5. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 49. 
  6. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल (2009). वैदिक इतिहासः. मिलन ओफसेट् अहमदाबाद. p. 49. 
"https://sa.wikipedia.org/w/index.php?title=आजाद_हिन्द_फौज्&oldid=399822" इत्यस्माद् प्रतिप्राप्तम्