आफ्रिकाखण्डः

महाद्वीपाः
आफ्रीका
विस्तीर्णम् 3,02,21,532 किमी2 (1,16,68,599 वर्ग मील)2nd
जनसङ्ख्या 1.1 billion(2013, 2nd)
जनसङ्ख्यासान्द्रता 30.51/km2 (about 80/sq mi)
राष्ट्रीयता African
देशाः 54 (and 2 disputed) (देशानाम् आवली)
अवलम्बिताः

External (3)

Internal (4)

भाषाः List of languages
समयवलयानि UTC-1 to UTC+4
बृहत्तमनगराः List of metropolitan areas in Africa
List of cities in Africa
फलकम्:Country data Nigeria Lagos
Egypt Cairo
फलकम्:Country data Democratic Republic of the Congoफलकम्:Country data Republic of the Congo Kinshasa-Brazzaville
दक्षिण-आफ्रिका Johannesburg
फलकम्:Country data Somalia Mogadishu
फलकम्:Country data Sudan Khartoum-Omdurman
फलकम्:Country data Tanzania Dar es Salaam
Egypt Alexandria
फलकम्:Country data Ivory Coast Abidjan
फलकम्:Country data Morocco Casablanca

पृष्ठभूमिका

सम्पादयतु

बहोः कालतः अन्धकारखण्डः इति प्रसिद्धः अयम् आफ्रिकाखण्डः अद्यत्वे अपि अन्ये खण्डाः इव आधुनिकप्रगतिं न प्राप्नोत् । बहु विशालतया व्याप्ता 'सहरामरुभूमिः', समुद्रतरङ्गैः निरन्तरं ताड्यमानं समुद्रतीरम् अनानुकूलाः नद्यः नौकाश्च अस्याः परिस्थितेः कारणीभूतानि स्युः । विशेषः नाम आस्ट्रालोपिथेकस्नामकस्य मनुष्यसदृशप्राणिनः अवशेषाः अस्य खण्डस्य छिद्रखातासु (इथियोपिया, कीन्या, ताञ्जानिया इत्यादिषु प्रदेशेषु) प्राप्ताः । अत्र मानवस्य समीपबन्धोः 'होमो एरेक्टस्' इत्येतस्य साक्ष्यं लभ्यते । अयमेव २५,००० वर्षाणाम् अनन्तरं होमो सेपियन् जातः । मध्यकालीने क्रैस्तधर्मयुद्धसमये अरबजनैः उत्तराफ्रिकाविषयः क्रमशः ज्ञातः । १५ शतमाने पोर्चुगल्-राजकुमारस्य प्रिन्स् हेन्रेः समुद्रयानप्रयत्नैः आफ्रिकाविषये अधिकं ज्ञानं प्राप्तम् । आफ्रिका विशेषप्राणिभिः पक्षिभिः खनिजैः युक्तः विपरीतवातावरणैः युक्तः वनवासिभिः युक्तः भूभागः विद्यते ।

 
ग्रेट्-जिम्बाब्वेविनाशः

नित्यहरिद्वर्णता, समशीतोष्णशाद्वलम्, मरुभूमेः वातावरणैश्च युक्तः खण्डः अस्ति अयम् । काभिश्चित् श्रेणिभिः युक्तः उत्तरभागः ४५० मीटर्मितम् उन्नतं वर्तते । पूर्वप्रदेशेषु अनेकाः पर्वतश्रेण्यः वर्तन्ते । दक्षिणभागः ९०० मीटर्मितस्य अपेक्षया उन्नतः अस्ति । मोरोक्को-अल्जीरियाप्रदेशेषु अट्लास्-श्रेण्यः विद्यन्ते (ट्यूबल्शिखरम् - ४०७० मी)। अल्जीरियायाम् अहग्गर् (तहत्-शिखरम् २८५० मी), सुदानौ जेब्-मर्राशैले च स्तः । इथियोपियाप्रदेशे १८०० मीटर्मितस्य अपेक्षया उन्नताः श्रेण्यः सन्ति (ट्यूब्कल्शिखरम् - ४०७० मी) । कीन्या-ताञ्जानियाप्रदेशयोः छिद्रखातपर्वतश्रेण्यः सन्ति (हिमाच्छादितः किलिमञ्जारोशिखरम् - ५८९५ मी, रुवेञ्झेरिशिखरम् - ५१२० मी, कीन्याशिखरं ५१०९ मी) । मध्यताङ्गानिकायाः उपत्यकायां ताञ्जानिया तिष्ठति । जाम्बियायां मुचिङ्गा-लुवाङ्ग्वा च विद्यते । जिम्बाब्वेप्रदेशे मोटोपोपर्वताः, दक्षिण-आफ्रिकायां ड्रेकन्स्बर्ग्-श्रेण्यः विद्यन्ते । मिटुम्बश्रेण्यः जैरेप्रदेशे विद्यत्ने । कर्कवृत्तस्य उत्तर-दक्षिणप्रदेशेषु २०,६५,००० च कि मी विस्तृता सहारामरुभूमिः, दक्षिणमकरवृत्तस्य परिसरे कलहारिमरुभूमिः विद्यते । नमीबियासमुद्रतीरे अपि मरुभूमिः विद्यते । सहरामरुभूमेः पार्श्वे लिबिया, पूर्वमरुभूमिश्च विद्यते । समभाजकवृत्ते स्थितेषु जैरे-लिबेरिया-गबान्-प्रदेशेषु सदा वृष्टिः, हरिद्वर्णसस्यानि भवन्ति । सहारा-कलहारि इत्यादिषु मरुभूमिषु शुष्कवातावरणस्य सस्यानि विद्यन्ते । दक्षिणाफ्रिका-मोरोक्कोप्रदेशेषु मेडिटरेनियन्-वातावरणस्य फलवृक्षाः सन्ति । अवशिष्टेषु भागेषु उष्णवलयस्य तृणशाद्वलानि सन्ति ।

वृष्टिः औष्ण्यञ्च

सम्पादयतु
 
आफ्रिकायाः मानचित्रम्

१५ अक्षांशतः (उत्तरगोलार्धे) उत्तरभागे वृष्टिः नास्ति । मोरोक्को, अल्जीरिया, ट्युनिसियप्रदेशमात्रे २५०-१००० मि मि परिमिता वृष्टिः भवति । १५ अक्षांशतः दक्षिणभागेषु सर्वत्र वृष्टिः भवति । किन्तु सोमालिया, नमीबिया, अङ्गोलाकरावलीप्रदेशेषु सम्पूर्णशुष्कता दृश्यते । बाञ्जुल्तः किंषासां यावत् १००० मि मी अपेक्षया अधिका वृष्टिः भवति । फ्रीटौन्, मून्रोविया, लिब्रेविलेप्रदेशेषु वृष्टिः ३००० मि मी अपेक्षया अधिका भवति । अस्मिन् भागे समभाजकवृत्तस्य नित्यहरिद्वर्णयुक्तारण्यानि विद्यन्ते । दक्षिणाफ्रिकायाः पश्चिमभागे वृष्टिः २५० मि मी अपेक्षया न्यूना । अस्मिन् खण्डे तद्विरिद्धऋतवः समानकाले भवन्ति । जनवरिमासे उत्तरभागे शैत्यकालः यदा स्यात् तदा दक्षिणभागे औष्ण्यं भवति २५ सेल्शियस्मितम् । जुलैमासे सहाराप्रदेशे औष्ण्यं भवति ३५ सेल्शियस् अपेक्षया अधिकम् । सस्यानि न विद्यन्ते इत्यतः इदं वातावरणम् असहनीयं वर्तते । अस्मिन् काले दक्षिणाफ्रिकायाम् औष्ण्यं १० अपेक्षया न्यूनं भवति । जनवरिमासे मोरोक्कोप्रदेशः नितरां शीतलतायुक्तः भवति -५ सेल्शियस्मितमं भवति ।

सागरप्रवाहः

सम्पादयतु

पश्चिमे सहारासमुद्रतीरे केनरिशीतप्रवाहः, घाना, कमेरून्, गिनिसमुद्रे गिनि-उष्णप्रवाःअः, सोमालियायाः दक्षिणे पूर्वे च नैऋत्य-मास्नून्-ड्रिफ्ट्-उष्णप्रवाहाः च विद्यन्ते । समभाजकवृत्तप्रदेशेषु तन्नाम नैजीरिया, मालि, छाड, नमीबिया, दक्षिणाफ्रिकायाः पश्चिमभागेषु अरण्यनाशः दुर्भिक्षा च अधिकप्रमाणेन दृश्यते । अस्य परिहारः प्राप्तव्यः अस्ति ।

जलसम्पत्तिः

सम्पादयतु

नैल्नदी जगति विद्यमानासु नदीषु अति दीर्घा ६६९५ कि मी मितयुता च वर्तते । अस्याः उपनद्यः स्६०३ कि मी दूरे सुदानिप्रदेशे विद्यन्ते । जैरेप्रदेशे प्रवहन्त्याः दीर्घायाः जैरेनद्याः अपि अनेकाः उपनद्यः सन्ति । ४१०० कि मी मितदीर्घयुक्ता नैजर्-नदी नैजीरिया, नैजर्, मालि इत्यादिषु देशेषु प्रवहति । अस्मिन् खण्डे विद्यमानाः अन्याः नद्यः सन्ति - जाम्बेजि, आरेञ्ज्, लिम्पूपो, जुब, शिबेलि च ।
अत्र विद्यमानेषु सरोवरेषु विक्टोरिया-ताङ्गानिका च मुख्ये स्तः । मलावि, अल्पर्ट्, बङ्ग्वेल, रुडाल्फ्, करिबा, छाड्, टना, नासेर् इत्यादयः साधारणप्रमाणयुक्ताः सरोवराः सन्ति । जाम्बेजिनद्याः १०० मी औन्नत्ययुतः विक्टोरियानामकः जलपाताः विद्यते । अयं खण्डः जलविद्युच्छक्तेः उत्पादने अग्रेसरः अस्ति । आस्वान् (नैल्), जवेन् (नैल्), वोल्टा, करिबा (जाम्बेजि) कोहोरा (जाम्बेजि) इत्यादीनि विद्युच्छक्त्युत्पादनकेन्द्राणि उद्यमानुकूलाः सन्ति । ताञ्जानिया इथियोपियाप्रदेशेषु जलप्रवाहसमस्या अधिका वर्तते । दक्षिणाफ्रिकाप्रदेशे झाञ्झावातः, मोजाम्बिक्समुद्रप्रदेशेषु उष्णवलयस्य झञ्झावातस्य भयं विद्यते ।

 
दक्षिणाफ्रिकायाः कलावित्

सस्यानि फलोदयश्च

सम्पादयतु

इथियोपिया, दक्षिणाफ्रिका, सोमालिया, मोजाम्बिक्, जिम्बाब्वे प्रदेशेषु यावानलः उत्पाद्यते । ऐवरिकोस्ट्, घाना, नैजीरिया, कमेरून् प्रदेशेषु कोको वर्धन्ते । लिबेरिया, सियेरा लियोन्, नमीबिया, मध्याफ्रिका, काङ्गो, अङ्गोल, ताञ्जानियादिषु काफी उत्पद्यते । बिसावो, ताञ्जानिया, जिम्बाब्वे, नैजीरिया, गिनि, मोरोक्कोप्रदेशेषु फलानि वर्धन्ते । सुदानिप्रदेशे कलायः वर्धते । ईजिप्ट्, छाड, नैजर्, मारिटेनिया, कीन्यादिषु ओट्स् वर्धते । दक्षिणाफ्रिका मोरोक्कोप्रदेशे लिम्बूकसदृशफलानि, ताञ्जानियायां कदली, दक्षिणाअफ्रिका, मोरोक्कोप्रदेशे द्राक्षा, अङ्गोल, गबान्, कमेरून्, काङ्गो, लिबिया, नैजीरिया, बेनिन्भागेषु खर्जूरं, कीन्या, ताञ्जानियादिषु चायं, कमेरून्, ऐवरिकोस्ट्, लिबेरिया, नैजीरियादिषु रब्बर्-वृक्षः, ताञ्जानियायां सीसल्वृक्षः, दक्षिणाफ्रिका, मोजाम्बिक्, जिम्बाब्वे, ताञ्जानियादिषु तमाखुः च वर्धते ।

 
बेनिन्प्रदेशस्य महिला

प्राणिपक्षिणः

सम्पादयतु

ओष्ट्रः, विशिष्टजातेः गजाः, खड्गमृगः, झीब्रा, चिम्पाञ्जि, सर्पाः, गोरिल्ला, उष्ट्रपक्षी, ओरिङ्क्स्, सिंहश्च अत्रत्याः प्रमुखाः वन्यप्राणिनः ।

खनिजाः देशाः
अयः लिबिया, मारिटानिया, अल्जीरिया, दक्षिणाफ्रिका
अस्बेस्टास् स्वाजिलेण्ड्
क्रोम दक्षिणाफ्रिका, जिम्बाब्वे
वेनेडियम् दक्षिणाफ्रिका
मेङ्गनीस् गबान्, मोरोक्को, घाना, दक्षिणाफ्रिका
निक्केल् जिम्बाब्वे
फास्फेट् टोगो, सेनेगल्, सहारायाः अरब् प्र ग राज्यम्, मोरोक्को, ट्युनिसिया, ईजिप्ट्
वज्रम् दक्षिणाफ्रिका, नमीबिया, काङ्गो, बोट्स्वाना, अङ्गोल, मध्याफ्रिकागणराज्यम्, घाना, सियेरा लियोन्, लिबेरिया, गिनि
बाक्सैट् गिनि
रजतम् जिम्बाब्वे, अल्जेरिया, काङ्गो
सुवर्णम् दक्षिणाफ्रिका, घाना, जाम्बिया
ताम्रम् काङ्गो, दक्षिणाफ्रिका
पारदः अल्जीरिया
आण्टिमनि दक्षिणाफ्रिका
प्लाटिनम् दक्षिणाफ्रिका
लेड् मोरोक्को, नमीबिया, काङ्गो
टिन् दक्षिणाफ्रिका, नैजीरिया, काङ्गो
युरेनियम् गबान्, नमीबिया, नैजर्
खनिजाङ्गारम् ईजिप्ट्, दक्षिणाफ्रिका
अनिलः अल्जीरिया
इन्धनतैलम् नैजीरिया, अल्जीरिया, अङ्गोल, गबान्, लिबिया, ईजिप्ट्
 
उत्तरामेरिका (वामतः) युरेशिया (दक्षिणतः) एताभ्यां युक्तायाः आफ्रिकायाः चित्रम्

उद्यमाः

सम्पादयतु

उद्यमक्षेत्रे दक्षिणाफ्रिका, नैजीरिया, मोरोक्को प्रदेशाः अधिकां प्रगतिं साधितवन्तः । तृणचारणं, पशुपालनं, कृषिः, उद्यानाभिवृद्धिः इत्यादयः अत्र अधिकप्रमाणकाः उद्योगाः । खनिकर्म, इन्धनतैलोत्पादनम् अस्य खण्डस्य प्रमुखोद्यमाः ।

वैशिष्ट्यानि

सम्पादयतु

सहारामरुभूमिः, नैल्-नदी, सरोवराः, विक्टोरियाजलपातः, पिरमिड्भवनानि, जलबन्धाः, जलविद्युच्छक्तिः, उष्ट्रः, खर्जूरवृक्षाः, अबुसिम्बेल्देवालयः, आफ्रिकानाभाषा, नैल्नद्याः संस्कृतिः, त्सेत्से नामकः महामक्षिका, उष्ट्रपक्षी, मेडीटरेनियन्-वातावरणयुक्ताः उत्तरकरावलीप्रदेशाः च अस्य खण्डस्य विशेषाः । अल्पजनसम्मर्दयुक्तेषु उत्तरभागेषु यवनाः, दक्षिणभागेषु नेग्रायिड्कुलीयाश्च वसन्ति । दक्षिणाफ्रिका जिम्बाब्वेप्रदेशेषु श्वेताः दृश्यन्ते ।

बाह्यानुबन्धः

सम्पादयतु
General information
History
News media
"https://sa.wikipedia.org/w/index.php?title=आफ्रिकाखण्डः&oldid=479961" इत्यस्माद् प्रतिप्राप्तम्