एतत् आमलकम् अपि भारते वर्धमानः कश्चन वृक्षविशेषः । इदम् आमलकम् अपि सस्यजन्यः आहारपदार्थः । एतत् आमलकम् आङ्ग्लभाषायां Gooseberry इति उच्यते । एतत् आमलकं भारते सर्वत्र उपयुज्यते । आमलकं यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अनेन आमलकेन निर्मितः अवलेहः सुप्रसिद्धः एव । अनेन आमलकेन लेह्यम्, उपसेचनं चापि निर्मीयते । तथैव अपि आमलकस्य खादनं शक्यते ।

हरितवर्णीयानि आमलकानि
रक्तवर्णीयानि आमलकानि
अपरविधस्य आमलकानि
आमलकस्य विक्रयणम्


आयुर्वेदस्य अनुसारम् अस्य आमलकस्य स्वभावः

सम्पादयतु

एतत् आमलकम् आम्ल – मधुर – मिश्रित - रसयुक्तम् । एतत् शीतवीर्ययुक्तं, रुचिकरं च ।

 
आमलकशाखायां दृश्यमानानि भारतस्य आमलकानि
 
अपरविधस्य आमलकस्य सस्यम्
 
आमलकस्य शाखा, फलं, पुष्पं चापि
सञ्चिका:Indiangooseberrypickle.jpg
कूप्यां सङ्गृहीतः आम्रस्य अवलेहः


“कषायं कटुतिक्ताम्लं स्वादु चामलकं हिमम् ।
रसं त्रिदोषहृद् वृष्यं ज्वरघ्निं च रसायनम् ॥
हन्ति वातं तदाम्लत्वात् पित्तं माधुर्यशैत्यकः ।
कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित् ॥“
१. एतत् आमलकं त्रिदोषान् परिहरति ।
२. आमलकं वीर्यवर्धकं, मलप्रवृत्तिकारकं च ।
३. आमलके पञ्चरसाः सन्ति । कषायः, कटुः, तिक्तः, आम्लः, मधुरः च । अस्मिन् आमलके षड्रसेषु लवणरसः केवलं नास्ति ।
४. आमलकं ज्वरहरं, शरीरस्य सप्तानाम् अपि धातूनां पोषकं च ।
५. आमलकम् ओजसः वर्धनं करोति ।
६. आलमकम् आम्लरसयुक्तम् इत्यस्मात् तेन रसेन वातं हरति ।
७. आमलकं मधुररसयुक्तं, शीतगुणयुक्तम् इत्यस्मात् पित्तं हरति ।
८. आमलकं कषायरसयुक्तं, रूक्षगुणयुक्तम् इत्यस्मात् कफः|कफं]] हरति ।
९. स्त्रीषु रजस्रावः वेदनायुक्तः चेत् आमलकस्य बीजं चूर्णीकृत्य मधुना सह सेवनीयम् । अथवा आमलकस्य चूर्णं वा आमलकस्य रसं वा मधुना सह सेवनीयम् ।
१०. शिशवः दन्तानाम् आगमनसमये काञ्चित् हिंसाम् अनुभवन्ति । तस्याः निवारणार्थम् आमलकं, धातकीपुष्पस्य चूर्णं, मधु च योजयित्वा शिशूनां दन्तपाल्यां लेपनीयम् । एवं करणेन दन्ताः अपि सुन्दराः भविष्यन्ति ।
११. बालाः दिने दिने कृशाः, दुर्बलाः च जायमानाः सन्ति चेत् आमलाकं, कचोरं, यष्टीं, तिलतैलं च योजयित्वा तैलपाकं कृत्वा तेन अभ्यञ्जनं कारणीयम् ।
१२. आमलकं, पिप्पल्याः चूर्णं च संस्थाप्य यवागूं निर्माय घृतेन सह सेवन्ते चेत् मलावरोधः निवारितः भवति ।
१३. आमलकं दोषान् तेषां मार्गे एव अनुलोमनं कारयति ।
१४. केशानां विगलने, केशाः श्वेतवर्णीयाः जायन्ते चेत्, शिरसि तुषाराणां निवारणार्थं च आमलकस्य चूर्णं जले योजयित्वा स्नानात् पूर्वं शिरसि लेपनीयम् ।
१५. आमलकस्य रसेन आमलकरसायनं, च्यवनप्राशादीनि लेह्यानि सज्जीक्रियन्ते । तेषां लेह्यानां विधिपूर्वकम् उपयोगेन शरीरस्य रसादयः धातवः वर्धन्ते । आरोग्यम् अपि वर्धते । वृद्धाप्यस्य बाधाः निवार्यन्ते । इन्द्रियाणां दौर्बल्यम् अपि न जायते ।
“न केवलं दीर्घमिहायुरश्नते रसायनं यो विधिवत् निषेवते ।
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥“

इति चरकेन उल्लिखितम् अस्ति । तन्नाम आमलकस्य रसायनस्य विधिवत् सेवनेन न केवलं दीर्घायुः प्राप्यते अपि तु देवर्षिसमाना पदवी, क्षयरहितं ब्रह्मज्ञानं चापि प्राप्यते ।‎



"https://sa.wikipedia.org/w/index.php?title=आमलकम्_(आहारपदार्थः)&oldid=390462" इत्यस्माद् प्रतिप्राप्तम्