आशापूर्णा देवी
आशापूर्णा देवी (८ जनवरी, १९०९ - १३ जुलै, १९९५) एका विशिष्टा भारतीया लेखिका आसीत् । एषा बङ्गालीभाषया बहवः उपन्यासाः, कथा:, नाटकानि च लिखितवती । आशापूर्णा देवी प्रथमा महिला ज्ञानपीठपुरस्कारविजयित्री आसीत् । प्रायः सार्धैकसहस्रलघुकथाः तथा द्विशताधिकाः उपन्यासाः एतया रचिताः । पश्चिमवङ्गसर्वकारेण एषा सर्वोच्चसाहित्यसम्मानेन रवीन्द्र पुरस्कारेण भूषिता आसीत् । नैके साहित्यपुरस्काराः तथा विविधविश्वविद्यालयातः एषाः साम्मानिकपदवीं प्राप्तवती । साहित्य अकदेमी पुरस्कारेणापि इयं भूषिता आसीत् ।
आशापूर्णा देवी | |
---|---|
आशापूर्णा देवी | |
जननम् |
पटलडाङ्गा, कोलकाता,भारतम् | ८ १९०९
मरणम् | १३ १९९५ | (आयुः ८६)
वृत्तिः | उपन्यासिका, कवयत्री |
भाषा | बाङ्गला भाषा |
राष्ट्रीयता | भारतीया |
परम्परा | बेङ्गाली |
कालः | 1939–2001 |
प्रकारः | काल्पनिका |
प्रमुखकृतयः |
प्रोथोम् प्रतिश्रुति सुबर्नोलता बकुल् कथा |
प्रमुखप्रशस्तयः |
ज्ञानपीठप्रशस्तिः पद्मश्री-पुरस्कारः साहित्य अकाडमी पुरस्कारः |
जीवनम्
सम्पादयतुजन्म तथा पारिवारिकपरिचयः
सम्पादयतुआशापूर्णा देव्याः जन्म १९०९ क्रैस्ताब्दस्य जनवरी मासस्य ८ दिनाङ्के (बङ्गाब्दः- २४ पौषमासः, १३१५) अभवत् । तस्याः जन्मस्थानं उत्तर कोलकाता । आशापूर्णायाः पितुः हरेन्द्रनाथ गुप्तस्य वृत्तिरासीत् चित्राङ्कणम् । तस्मिन् काले प्रसिद्धासु पत्रिकासु सः चित्रम् अङ्कणं करोति स्म । माता आसीत् सरलासुन्दरी देवी । साहित्यपाठैव आसीत् सरलासुन्दरी देव्याः मुख्याशक्तिः । राजनैतिकादर्शदृष्ट्या अपि आसीत् तीव्र ब्रिटिश्-विद्वेषिणी । [१]
- ↑ जीवनी ग्रन्थमाला ४६ : आशापूर्णा देवी, उपासना घोष, पश्चिमबङ्ग बाङ्गला अकादेमी, कोलकाता, प्रथमप्रकाशनं जनवरी २००४, पृ-१०-११