शतायुर्वै पुरुषः इति प्रायोवादानुसारं मानवजीवनं शतवार्षिकम् अस्ति। सर्वोऽपि शतायुर्न भवितुमर्हति। जिजीविषेदेकैकोऽपि शतं समा इति भारतीयसंस्कृतिरिदं शतवार्षिकं मानवजीवनं चतुर्षु भागेषु विभाजयति। त इमे भागा आश्रम पदेनाभिधीयन्ते। ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासः इति चत्वारः एते आश्रमाः । सर्वोऽपि लोकः स्ववयोऽनुरूपमाश्रममाश्रयेत् । तदाश्रमनिर्दिष्टान् नियमान् पालयेदिति च पूर्वं व्यवस्था परिकल्पिताऽसीत् ।

आश्रमव्यवस्था

सर्वेष्वपि धर्मसूत्रग्रन्थेषु, स्मृतिर्गन्थेषु च एते आश्रमा वर्णिताः सन्ति । आ उपसर्गपूर्वेकात् श्रम धातोः घञ् प्रत्यययोगे आश्रम शब्दोऽयं निष्पद्यते । आ शाम्यन्ति अस्मिन् इति आश्रम:’ इति व्युत्पत्त्या अस्य अर्थः स्पष्टः ।

बाल्ये वयसि अभ्यस्तविद्यानाम् तारुण्ये भोगाभिलाषिणाम्, वार्द्धके वयसि मुनिवृत्तीनाम्, अन्ते परमात्मध्यानेन देहत्यागिनाम् इति रघुनामन्वयं विवक्षता महाकविना कालिदासेन आश्रमचतुष्टयमभिवर्णितम् । तथा हि-

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्।
वार्द्धके मुनिव्रुत्तीनां योगेनान्ते तनुत्यजाम्॥ इति ॥ [रघुवंशः, प्रथमसर्गः, आष्टमश्लोकः]

आश्रमधर्मपालनेन मानवजीवनस्य चतुर्वर्गाणां धर्मार्थकाममोक्षाणां फलप्राप्तिर्भवति। तथा हि-ब्रह्मचर्याश्रमे विद्याध्ययनेन, तपोमयजीवनयापनेन, सर्वविधगुणानां सङ्ग्रहणेन च धर्मप्राप्ति:।
गृहस्थाश्रमे भौतिक-शारीरक-मानसिकानां समुन्नत्या, भौतिकविषयाणाम् उपभोगेन, दाम्पत्यजीवनयापनेन वंशप्रतिष्ठायै सन्तानोत्पत्या च धर्मार्थकामानां त्रिवर्गफलसिद्धिः ।
वानप्रस्थाश्रमे सपत्नीकेनेश्वराराधनं, संयमपालनं, योगादिकर्मसु प्रवृत्तिरित्येवं वैराग्यप्राप्तिः । संन्यासाश्रमे वैराग्यभावबलात् भौतिकविषयान् परित्यज्य योगाभ्यासरतः सन् परमपुरुषार्थं मोक्षम् आसाधयेत् इति मनीषिभिः इयम् आश्रमव्यवस्थोद्दिष्टा । तदुक्तं महाभारते -

चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता
एतामारुह्य निःश्रेणी ब्रह्मलोके महीयते ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुक
यथोक्तचारिणः सर्वे गच्छन्ति परमां गतिम् ॥ इति महा शा प (२४२ १५-१६)
  1. ब्रह्मचर्याश्रमः
  2. गृहस्थाश्रमः
  3. वानप्रस्थाश्रमः
  4. संन्यासाश्रमः

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=आश्रमव्यवस्था&oldid=479979" इत्यस्माद् प्रतिप्राप्तम्