इन्दौर-पटना-द्रुत-रेल-यानस्य अकस्मातः
इन्दौर-पटना-द्रुत-रेल-यानस्य अकस्मातः २० नवम्बर २०१६ दिनाङ्के कानपुर-महानगरात् १०० किलोमीटरदूरे पुखरायां-प्रान्ते अभवत्। अकस्मातस्य समयः रविवासरे ब्राह्मीमुहूर्ते त्रिवादने वा समीपे काले अभवत्। पटना-इन्दौर-द्रुत-यानस्य चतुर्दश रेलकक्षाः लोहपथः भ्रष्टे सति अकस्मातः अभवत्। तत् यानं इन्दौर-महानगरात् पटना-महानगरं प्रति गच्छदासीत्। [१] अकस्माते १५३ यात्रिणां मृत्योः पुष्टिः अभवत्। तथा च २५० तः अधिकाः आहताः अपि जाताः।[२]
Date | २० नवम्बर २०१६ |
---|---|
Time |
३:१० प्रातः भारतीयकालः (21:40 UTC, १९ नवम्बर) |
Location | पुखरायां, उत्तरप्रदेशराज्यम् |
Coordinates | २६°१३′४८″ उत्तरदिक् ७९°५१′००″ पूर्वदिक् / 26.23000°उत्तरदिक् 79.85000°पूर्वदिक् |
Country | भारतम् |
Rail line | इन्दौर-पटना-द्रुत-रेल-यानम् |
Operator | भारतीयं रेल-यानम् पश्चिमविभागः |
Type of incident | लोहपथः भ्रष्टता |
Cause | संशोध्यमानम् |
Statistics | |
Trains | १ |
Deaths | >१२६ |
Injuries | >२६० |
अकस्मातः
सम्पादयतुरविवासरे प्रातः 3:10 वादने अकस्मातः अभवत्। यदा इन्दौर-पटना-द्रुत-यानं पुखरायां-रेल-स्थानकात् कानपुरं प्रति यात्राम् आरभत्, तदैव रेल-यानस्य चतुर्दश रेलकक्षाः लोहपथः भ्रष्टाः अभूवन्। राज्यस्य स्थानीय-बस-यानस्य माध्यमेन आहताः रुग्णालयं प्रति नीताः। एवञ्च मृतकाः शवपरीक्षास्थलं प्रति प्रेषिताः। वैद्यानां, पराचिकित्सायाः (paramedical) दलं च घटनास्थलं प्राप्य निदानकार्यम् आरभत।[२]
सहायता-क्रमाङ्कः
सम्पादयतु- पुखरायां -05113/270239,
- झांसी -05101072,
- उरई- 051621072,
- कानपुर 05121072,
- इलाहाबाद -05321072,
- टूंडला -056121072,
- अलीगढ़ -05711072,
- इटावा-056881072
- फतेहपुर -051801072
- इंदौर- 07311072 [३]
परित्राणकार्यम्
सम्पादयतुअनेके यात्रिणः रेलकक्षेषु आकूलीभीताः (entrapped) आसन्। लोहच्छेदकस्य साहाय्येन कक्षान् भित्त्वा आकूलितान् बहिर्निष्कासयितुं प्रयासाः अभूवन्। परित्राणकार्येषु एनडीआरएफ-दलस्य, प्रशासनस्य च अनेके कार्यकर्तारः रताः। भारतीयसेनायाः दलम् अपि परित्राणकार्याय घटनास्थलं प्राप्नोत्। [२]
परिणामः
सम्पादयतुकानपुर-रेल-अकस्मातत्वात् अनेकानि रेल-यानानि निरस्तानि उत मार्गान्तरितानि।
- निरस्तानि यानानि - १११०९ झांसी-लखनऊ इंटरसिटी, ५१८०३ झांसी- कानपुर-पैसेंजर।
- मार्गान्तरितानि यानानि- १२५४२, १२५२२ - आगरा-नगरतः, कानपुर-नगरं भू्त्वा, १२५४१ भीमसेन-तः, बांदा-तः, इटारसी भूत्वा, १२५३४ ग्वालियर-तः इटावा भूत्वा।[४]
मृत्युः
सम्पादयतुअकस्माते मृतेषु सप्तजनाः मध्यप्रदेशीयाः आसन् इति प्रारम्भिके अन्वेषणे ज्ञातम्।[५]
क्षतिपूर्तिः (compensation)
सम्पादयतु- रेल-मन्त्री सुरेशप्रभुः मृतकानां परिवाराय 3.5 लक्षरूप्यकाणि दातुम् अघोषयत्। गम्भीररूपेण आहतेभ्यः 50 सहस्ररूप्यकाणि, सामान्यरूपेण आहतेभ्यः यात्रिभ्यश्च पञ्चविंशतिः सहस्र-रूप्यकाणि दातुम् अकथयत्।
- पीटीआई -वार्तानुसारं प्रधानमन्त्री नरेन्द्रमोदी प्रत्येकं मृतकानां परिवाराय २ लक्षरूप्यकाणां, गम्भीररूपेण प्रत्येकम् आहतेभ्यः ५० सहस्ररूप्यकाणि दातुं घोषणाम् अकरोत्।
- उत्तरप्रदेशस्य मुख्यमन्त्री अखिलेशयादवः प्रत्येकं मृतकस्य परिवारेभ्यः ५ लक्षं रूप्यकाणि, गम्भीरतया प्रत्येकम् आहतेभ्यः यात्रिभ्यः ५० सहस्ररूप्यकाणि दातुम् अघोषयत्।[१]
- मध्यप्रदेशस्य मुख्यमन्त्री शिवराज चौहान इत्येषः अपि घोषणाम् अकरोत् यत्, मृतकानां प्रत्येकम् आश्रितेभ्यः द्विलक्षं क्षतिपूर्तिमूल्यं दास्यते। तथा च गम्भीररूपेण प्रत्येकम् आहतेभ्यः ५० सहस्ररूप्यकाणि, सामान्याहतेभ्यः २५ सहस्ररूप्यकाणि च दास्यन्ते।[६]
प्रतिक्रियाः
सम्पादयतु- "मम प्रार्थनाः भीषण-रेल-अकस्माते आहतैः सह सन्ति। अहम् एतस्मिन् विषये रेल-मन्त्रिणा सुरेशप्रभुना सह चर्चाम् अकरवं, यः व्यक्तिगततया एतस्मिन् सन्दर्भे सञ्ज्ञानं कुर्वन् अस्ति।" - प्रधानमन्त्री नरेन्द्रमोदी [१]
सम्बद्धाः लेखाः
सम्पादयतुसन्दर्भः
सम्पादयतु- ↑ १.० १.१ १.२ कानपुर रेल हादसा: 112 की मौत की पुष्टि - बीबीसी - 20 नवम्बर 2016
- ↑ २.० २.१ २.२ LIVE: इंदौर-पटना एक्सप्रेस हादसे में 153 की मौत, घायलों से मिले रेल मंत्री - अमर उजाला - 20 नवम्बर 2016
- ↑ http://www.jagran.com/news/national-indore-rajendra-nagar-express-derail-near-pukhraya-malasa-station-15067035.html?
- ↑ कानपुर में इंदौर-पटना एक्सप्रेस के 14 डिब्बे पटरी से उतरेः 63 की मौत, 150 लोग घायल; अभी भी कुछ मलबे में फंसे हैं Archived २०१६-११-२० at the Wayback Machine - दैनिक भास्कर - 20 नवम्बर 2016
- ↑ इंदौर-पटना एक्सप्रेस रेल हादसे से दो राज्यों मे मातम -दैनिक जागरण - 20 नवम्बर 2016