इन्द्रियनिग्रहः
मानवस्य शरीरयात्रा इन्द्रियाणां साहाय्येन प्रचलति । तत्र श्रोत्रं, चक्षुः, स्पर्शनं च , रसनं, घ्राणमेव च इति भवन्ति पञ्च ज्ञानेन्द्रियाणि । तथैव हस्तौ, पादौ, जननेन्द्रियं, गुदद्वारं वाक् च इति भवन्ति पञ्च कर्मेन्द्रियाणि । मानवः यानि कानि शुभाशुभानि कर्माणि करोति इन्द्रियाणां माध्यमेनैव । इन्द्रियाणां सामर्थ्यम् अपरिमितं वर्तते इति बहुप्रकारं वर्णितं शास्त्रकारैः । तत्र श्रीमदभगवद्गीतायाम् उक्तम्-
चक्षुः | |
---|---|
- इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।२-६०॥
तथैव ‘बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति’ इति मनुवचनं (२-२१५) द्र्ष्टव्यम् । अतः आत्मकल्याण्काङ्क्षिणा इन्द्रियाणि वशीकर्तव्यानि । तत्रोक्तं मनुना (२-८८)-
- इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
- संयमे यत्नमातिष्ठेत् विद्वान् यन्तेव वाजिनाम् ।
यदि एकमपि इन्द्रियं स्खलति तर्हि तस्य प्रज्ञायाः अधः पातः अनिवार्यः । तत्रोक्तम् –इन्द्रियाणा तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
- तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ मनु. २-९९॥
इत्यतः इन्द्रियनिग्रहः कर्तव्यः इति उपदिशन्ति शास्रकाराः । अथ किं नाम इन्द्र्यजयस्य निदर्शनम् इति चेत् तत्रोच्यते –
- श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
- न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ मनु. २-९८ ॥
इन्द्रियनिग्रहः सामान्यमनुष्याणां कृते कियान् दुष्करः इत्युपवर्णितं केनापि सुभाषितकारेण-
- विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः।
- तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ॥
- शाल्यन्नं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवाः ।
- तेषामिन्द्रियनिग्रहो यदि भवेद् विन्ध्यस्तरेत् सागरम् ॥
यः इन्द्रियजयी स एव स्थितप्रज्ञः इति उच्यते । स्थितप्रज्ञः द्वन्दातीतः वर्तते । अस्मिन् जगति द्वन्द्वानि बहूनि सन्ति यानि मानवं दोलायमानचितं विदधति । यथा मानापमानौ, हर्षशोकौ, शीतोष्णे, सुखदुःखेम् निन्दास्तुती, शत्रुमित्रे, लाभालाभौ, जयाजयौ इत्यादीनि । यदि इमानि अधिकृत्य नरः समदृष्टिः भवति, तेषां प्रभावेण लेशमात्रमपि न विचलति, तर्हि स स्थिरमतिः चितेन्द्रियः वा इति विज्ञेयः । एतादृशः मानवः सिध्दिं प्राप्नोति । तत्रोक्तं मनुना (२-९३)-
- इन्द्रियाणां प्रसङ्गेन दोषमृच्छति मानवः ।
- संनियम्य तु तान्येव सिध्दिं समधिगच्छति ॥