प्रमुखा विकल्पसूचिः उद्घाट्यताम्

प्रस्तावनासम्पाद्यताम्

प्रायशः प्रत्येकं दर्शने जीवस्य ईश्वरस्य जगतः चिन्तनं विद्यते।तथापि सर्वेषां दर्शनानाम् एतेषु विषयेषु ऐकमत्यं नास्ति।
ईश्वरः अस्ति न वा?
२ यदि अस्ति तर्हि तस्य स्वरूपं किम्?
३ तस्य गुणकर्माणि कानि?
४ तस्य जीवेन सह सम्बन्धः कीदृशः?
इति एतान् चतुरः प्रश्नान् उद्दिश्य दर्शनानां मतानि भिद्यन्ते। ते ईश्वरविषयकाः मतभेदाः इमे -

चार्वाकमतम्सम्पाद्यताम्

नास्तिकमिदं दर्शनम्।अत्र कश्चिद् विश्वस्य निर्माता, पालकः , सर्वज्ञः, सर्वशक्तिमान्, कर्मफलदाता ईश्वरः नाङ्गीक्रियते।यतो हि तादृशः ईश्वरः प्रत्यक्षप्रमाणेन न सिद्ध्यति।प्रत्यक्षातिरिक्तं प्रमाणं चार्वाकाः न मन्यन्ते। लोकसिद्धः राजा एव ईश्वरः इति अस्मिन् मते मन्यते।स एव दण्ड्यान् दण्डयति, गुणिनः सत्करोति।एवं फलदातृत्वम् अस्योपपद्यते।न स सर्वज्ञो न च नित्यः।एवं लोकसिद्धादीश्वराद् भिन्नः न कोऽपीश्वरोऽस्मिन् मते स्वीक्रीयते।यतः प्रत्येकं देशे राजा भिन्नः अतः तस्य गुणकर्मणां निश्चयः नास्ति।राजा मनुष्यविशेषः एव। अतः तस्य स्वरूपं मनुष्याद् न भिद्यते।अन्येषां जीवानां राजा नियामकः।अतः तैः सह नियम्यनियामकभावसमबन्धः अस्य अस्ति।

जैनमतम्सम्पाद्यताम्

जैनाः अपि नास्तिकाः।तीर्थङ्करेभ्योऽन्यं कञ्चिदीश्वरं ते न मन्यन्ते।यस्मात्तीर्थङ्कर एव जैनानामीश्वरः, तस्य गुणकर्माणि एव ईश्वरस्य गुणकर्माणि।एतेषां मते जगन्निर्माणं नेश्वरकार्यम्।जगत् स्वभावत एव जायते। तीर्थङ्कराः केवलज्ञानिनः।मिथ्याज्ञानस्य तेषु अभावः।तीर्थङ्करः उपदेष्टा अन्येषां जीवानाम्।अतः अन्यजीवैः सह तस्य उपदेश्योपदेशकभावसम्बन्धः।तीर्थङ्करः रोगमुक्तो, भयमुकतः शान्तियुतश्च।

बौद्धमतम्सम्पाद्यताम्

बौद्धाः अपि नास्तिकाः।बुद्धः एवास्मिन्मते ईश्वरः।सः तु एक एव आजन्म शान्तियुतः।सः उपदेष्टा जीवानाम्।अतः जीवबुद्धयोः उपदेश्योपदेशकभावसम्बन्धः।

रामानुजमतम्सम्पाद्यताम्

जीवानां नियन्ता, जीवान्तर्यामी, जीवातिरिक्तः ईश्वरः अस्ति।जीववर्गः जडवर्गः च तस्य शरीरम्।अयं जीवकर्मफलदाता ईश्वरः ज्ञानस्वरूपःच ज्ञानगुणस्य आश्रयः च।जीवः स्वशरीरस्य नियन्त्रणे परतन्त्रः,परम् ईश्वरः जीवनियन्त्रणे स्वतन्त्रः, परिपूर्णशक्तिकत्वात्। यथा शरीरान्तर्गतः जीवः यथाकथञ्चित् शरीरं नियमयति, तथा जीवान्तर्गतः ईश्वरः जीवान् नियमयति, स्वातन्त्र्येण।यदृच्छया जीवान् नियमयितुं शक्तः ईश्वरः, तथापि सः जीवकृतकर्मानुसारम् एव तान् नियमयति। ’ बहु स्याम् ’ इति सङ्कल्परूपेण ईश्वरः जगतः निमित्तकारणम्।चिदचिद्विशिष्टः ईश्वरः जगतः उपादानकारणम्।ज्ञानशक्त्यादि-विशिष्टः ईश्वरः जगतः सहकारिकारणम्।अनन्तकल्याणगुणाश्रयः ईश्वरः चिदचिद्विशिष्टः।स तु जीवान्तर्यामी।जीवः परतन्त्रः ईशः स्वतन्त्रः।ईशः स्वशरीरं चिद्रूपं स्वदेहं नियमयति तथा अचिद्रूपं देहमपि नियमयति।मुक्तौ अपि जीवस्य विशिष्टमद्वैतं विद्यते ईश्वरेण सह, न तु केवलाद्वैतम्।

माध्वमतम्सम्पाद्यताम्

सर्वकल्याणगुणानां निधानं विष्णुरेवेश्वरः।स तु जीवात् सदैव भिन्नः, जगतोऽपि भिन्नः।मुक्तौ अपि जीवेशयोः भेदः विद्यते एव।मुक्तौ अपि जीवो दासः, ईश्वरः स्वामी।ईश्वरः स्वशक्त्या जगन्निर्माति, संहरति च।जीवानां कर्मसापेक्षमेव सः फलं ददाति।ये जीवाः ईश्वरेण सह साम्यम् ऐक्यं वा काङ्क्षन्ते, तान् सः दण्डयते।ये तु सदा तस्य सेवायां रताः, तान् सोऽनुगृह्णाति।अपरोक्षज्ञानेन ईश्वरभक्तेः लाभः।ईश्वरभक्त्या तस्यानुग्रहो जायते।अनुग्रहान्मोक्षप्राप्तिः।मोक्षे सति जीवः सदा ईश्वरसन्निधौ तस्य सेवायां मग्नः सन् दुःखामिश्रितं निरतिशयमानन्दम् अनुभवति।

साङ्ख्यमतम्सम्पाद्यताम्

एतदपि निरीश्वरमतम्।अत्र तु पुरुषः चेतनः साक्षी च।स अभोक्ता अकर्ता च।न स स्वातन्त्र्येण जगन्निर्माति, न वा फलं ददाति, न वा जीवान्नियमयति। पुरुषः न जगतः उपादानकारणं भवितुमर्हति, त्रिगुणराहित्यात्।पुरुषः न जगतः निमित्तकारणं भवितुं योग्यः, प्रयोजनाभावात्। अतः जगन्निर्माणं प्रकृतेरेव कार्यम्। परं सा जडा।अतो न पुरुषो न वा प्रकृतिः ईश्वरसंज्ञाम् अर्हति।साङ्ख्यानामेकदेशीयाः सेश्वराः।तेषां मते यद्यपि ईश्वरः जगन्निर्माणार्थं नावश्यकः तथापि जगन्निर्मातुं प्रकृतेः प्रवर्तकरूपेण आवश्यकः।

योगमतम्सम्पाद्यताम्

अस्मिन् मते ईश्वरस्य अङ्गीकारः अस्ति। ईश्वरलक्षणं योगसूत्रे एवं कृतम् –
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।
सः सर्वज्ञः।प्रलये अपि सर्वज्ञत्वस्य बीजं तस्मिन् विद्यते।सः कालेन अवच्छिन्नः नास्ति अतः भूते, वर्तमाने, भविष्यति अपि सः सर्वेषां गुरुः।प्रणवः इति तस्य वाचकः।प्रणवस्य अर्थस्य निरन्तरं भावनां यः करोति सः प्रत्यक्चेतनारूपं मोक्षम् अधिगच्छति।

मीमांसामतम्सम्पाद्यताम्

अस्मिन् मते कर्म स्वतः एव फलदाने समर्थम्।तदर्थं कश्चिदीश्वरो नावश्यकः। वेदाः अपि नेश्वरोक्ताः, अपि तु स्वयंसिद्धाः एव।ईश्वरकल्पना मीमांसकैः प्रत्युक्ता ।

न्यायवैशेषिकमतम्सम्पाद्यताम्

अत्र ईश्वरोऽङ्गीकृतः।स तु एकः एव , नित्यो विभुश्च।स जीवाद्भिन्नः।मुक्तावपि तयोरभेदो न सम्भवति।वेदाः ईश्वरस्य भाषितम्, अतः प्रमाणम्।स एव कर्मफलदाता।‘सृष्य्गङ्कुरादिकं कर्तृजन्यं, कार्यत्वात् ‘ इति अनेन अनुमानेन नैयायिकाः ईश्वरं साधयन्ति।ईश्वरेच्छा जगन्निर्माणे निमित्तकारणम्।तस्य इच्छया एव परमाणुषु संयोगः भवति।ततः द्य्ःणुकादिक्रमेण जगदुत्पद्यते।तस्य इच्छया एव पुनः द्य्कणुकादीनां नाशात् जगतो विनाशः भवति।

अद्वैतमतम्सम्पाद्यताम्

यतो ह वेमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्र्ेयन्य्िभिसंविशन्ति तद्विजिज्ञासस्व, तद् ब्रह्म इति। एषा श्रुतिः ईश्वरस्य सत्तां प्रतिपादयति। व्यवहारदशायां कर्मफलदाता ईश्वरः।तदा मायोपाधिकं चैतन्यम् इति तस्य स्वरूपम्।माया शुद्धसत्व्शगुणस्वरूपा।तां वशीकृत्य सः जगन्निर्माति।स जगतोऽभिन्ननिमित्तोपादानकारणम्।जीवेशभेदस्तु उपाधिकृतः।तत्व्नतस्तु तयोरभेद एव।ईश्वरः कर्मापेक्षमेव फलं ददाति अतः वैषम्यनैर्घृण्यदोषाभ्यां स मुक्तः।

"https://sa.wikipedia.org/w/index.php?title=ईश्वरः&oldid=424499" इत्यस्माद् पुनः प्राप्तिः