सांख्योक्त –पञ्चविंशति-तत्त्वेभ्योऽतिरिक्तं योगशास्रे ईश्वरतत्त्वमपि स्वीकृतम् । योगसूत्रस्य् कर्त्रा पतञ्जलिना ईश्वरस्य लक्षणम् एवं प्रकारेण निर्दिष्टम्- “क्लेशकर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” इति । अर्थात् अविद्या-अस्मिता –राग –द्वेष-अभिनिवेशेभ्यो रहितः चित्तश्थवासनाभिः सर्वथा अस्पृष्टश्च पुरुष विशेषः पुरि अर्थात् प्राणिशरीरे शेते अतएव आत्मा इत्यपि उच्यते । अर्थात् इन्द्रियसमूहे अधिष्ठातृरुपेण स्थितः चैतन्यस्वरुपः आत्मा एव पुरुषो भवति । अयमेव योगदर्शनस्य ईश्वरो वर्तते । योगदर्शने प्रतिपादितः ईश्वर मुक्तजीवः कैवल्यमुपगतो योगी वा नास्ति अपितु तदपेक्षया भिन्नो विद्यते । मुक्तजीवः अथवा केवली पुरुषः पूर्वसांसारिकबन्धनेभ्यो मुक्तो भवति किन्तु ईश्वरस्तु सदैव मुक्तो भवति । प्रकृतौ लीनः पुरुषोऽपि ईश्वरोनास्ति । ईश्वरः सर्वदा इच्छाज्ञान-क्रियारुपाभिः शक्तिभिः सम्पन्नो भवति । एताः शक्तयोऽपि ईश्वरे स्वाभाविक्य एव सन्ति । अनादिकालादेव ईश्वरे एताः विद्यन्ते । ईश्वरश्चैतत्प्रभावात् एव ऐश्वर्यसम्पन्नोऽस्ति । जीवानुग्रह ईश्वरस्य प्रधानः गुणोऽस्ति ।

योगशास्त्रस्य प्रणेता पतञ्जलिः

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=ईश्वरनिरुपणम्&oldid=480003" इत्यस्माद् प्रतिप्राप्तम्