उत्तङ्कः
उत्तङ्कः ( English: Uttanka or Utanka) इति ऋषिः वौदिक परम्परायां प्रख्यातः । स मरु नाम मरुभूमिप्रदेशे निवसति स्म । तस्य वृत्तान्तं हिन्दू इतिहासग्रन्थे महाभारते लभ्यते ।
क्वचित् उत्तङ्कः वेद नाम्नः ऋषेः शिष्यः इति कथितं वर्तते । अन्यत्र तस्य गुरुः गौतमः इति च कथितम् । सः महाराज्ञ्याः कर्णाभरणं गुरुपत्न्यै गुरुदक्षिणारूपेण समर्पितवान् इति कथा प्रसिद्धा वर्तते।
राज्ञाः सकाशात् दानरूपेण उत्तङ्कः कर्णाभरणं प्राप्नोति। मध्येमार्गं नागाः तत् चोरयन्ति। तदा इन्द्रः अग्निश्च उत्तङ्कस्य साहाय्यं कुरुतः। आरुणिः नागलोकात् कर्णिकां विमोचयित्वा पुनर्प्राप्नोति । कथानुसारं कृद्धः उत्तङ्कः राजानं जनमेजयं मिलित्वा तक्षको नाम नागलोकस्य राजा। तं प्रति प्रतिकारः उचितः। सः मारणीयः इति उपदिशति। तक्षकः एव पूर्वं जनमेजयस्य पितरं राजानं परीक्षितं विषदंशेन मारितवान् ।
उत्तङ्कस्य वैशिष्ट्यं नाम सः कृष्णस्य विश्वरूपदर्शनम् अवाप्नोत् । एकदा श्रीकृष्णः अत्तङ्काय एकं वरं दत्तवान् तद्बलात् यदा कदापि उत्तङ्कः श्रीकृष्णं स्मरति तदा झटिति तस्य पिपासा निवारिता भवति इति । ततः सर्वदा उत्तङ्कस्य वासस्थाने मरुभूमौ जनाः यदा कदापि विरलाः वर्षभरितमेघाः दृश्यन्ते तान् “उत्तङ्कस्य मेघाः” इति वर्णयन्ति।
गुरुदक्षिणा
सम्पादयतुउत्तङ्कस्य वृत्तान्तः महाभारते द्विधा दृश्यते । प्रथमः मूलरूपः पौष्य पर्वः नाम अध्याये महाभारतस्य आदिपर्वणि लभ्यते । अन्यः उत्तङ्कोपाख्यानम् नाम भागः आश्वमेधिकपर्वणि (महाभारतस्य चतुर्दशपर्वणि) लभ्यते । एकः ग्रन्थः मलयाळभाषायां यस्य नाम उत्तङ्कोपाख्यानम् इति कथां चतुर्दशपर्वेणा कि़ञ्चिदन्य रूपेण निरूपयति यत्र ऋषेः नाम उतङ्कः इति उत्तङ्कः इति न दत्तम् [१] अश्वमेधिकपर्वणः वृत्तान्तः आदिपर्वणः वृत्तान्तस्य तत्पश्चात् परिवर्तितरूपम् इति मन्यते[२]।
आदिपर्व
सम्पादयतुआदिपर्वानुसारे उत्तङ्कः वेदः नाम ऋषेः त्रयाणां मुख्यशिष्याणाम् एकः । वेदः धौम्यः नाम ऋषेः शिष्यः अभवत् [३][१] । एकदा वेदः स्वस्य आश्रमात् केनचित् कारणेन निर्गतः । आश्रमस्य सर्वान् निर्वहणकार्यान् सः उत्तङ्काय विनिर्दिष्टवान्। वेदऋषेः पत्नी तत्समये रजस्वला अभवत्। तदा आाश्रमवासिनः स्त्रीजनाः सन्तानप्रप्तिः भवतु इति आशया उत्तङ्कः ऋषिपत्न्या सह तस्याः प्रजनिष्णुसमये सम्भोगं करोतु गर्भधारणाय इति प्रार्थितवत्यः । किन्तु उत्तङ्कः तत्कार्यं गुरुद्रोहमिति अनीतिकरमिति मत्वा न अङ्गीकृतवान् । यदा वेदऋषिः आश्रमं पुनरागतः सः एतत्प्रसङ्गं आश्रमवासिभिः श्रुतवान्। सः उत्तङ्कस्य निष्ठया अति प्रसन्नः अभवत् शिष्यं आशीर्वदितवान् च [१] ।
अध्ययनं पूरीकृत्य उत्तङ्कः स्वस्य गुरुं गुरुदक्षिणाविषये अपृच्छत् । वेदः गुरुप्तनीं पृच्छतु यत्किमपि सा अपेक्षते तत् ददातु इति अवदत् ।हन्त गुरुपत्नी उत्तङ्काय पूर्वघटनेन रुष्टा तस्याः प्रजनिष्णुसमये तेन सा तिरस्कृता इति कारणेन । ततः सा उत्तङ्कः दिनत्रये अर्थात् अत्यल्पसमये एव पुष्यमहाराजस्य भार्यायाः स्वर्णकर्णिकाम् आनयतु गुरुदक्षिणारूपेण प्रददातु तर्हि सा आगामीचतुर्थदिने स्वस्याः अनुष्ठितनिरशनकार्यक्रमे कर्णिकां धारयितुं शक्नोति इति उक्तवती। उत्तङ्कः कर्णिकां प्राप्तुं अगच्छत् । मार्गे एकं महाकायं तस्य बृहद्वृषभवाहनञ्च अमिलत् । उत्तङ्कः विनम्रः तस्य आशीर्वादं अप्रार्थयत्। महाकायः आदिशत् उत्तङ्कः वृषभस्य गोमयं गोमूत्रञ्च स्वीकरोतु भक्षतु इति। उत्तङ्कः अनेन किञ्चित् चकितः तथापि आदेशं अपालयत् यदा सः तस्य गुरुः वेदः अपि एतदेव कृतवान् इति सूचितः । तदनन्तरम् उत्तङ्कः पुष्यमहाराजस्य दर्शनं कृत्वा स्वस्य गुरोः वेदस्य भार्याः अपेक्षितां गुरुदक्षिणां राजपत्न्याः सुवर्णकर्णिकां अयाचत् । राजा तस्य राज्ञीं अन्तःपुरे मेलितुं अनिर्दिशत् । परन्तु उत्तङ्क: अन्तःपुरे राज्ञीं दृष्टुं विफलः । पुष्यराजः उक्तवान् - राजपत्नी केनापि अपवित्रजनेन अदृश्या । ततः उत्तङ्कः नैमित्तिकशौचादि कार्यान् पूरीकृत्वा राजपत्नीं सम्मिलित्वा कर्णिकादानं अयाचत् । सा हर्षेण कर्णिकां प्रदत्तवती । किन्तु सा एतत्कर्णिकां अपहर्तुं नागराजः तक्षकः उत्सुकः तथा उत्तङ्कः अति जागरूकतया तस्याः रक्षां करोतु इति पूर्वसूचनां अवदत्[१]।
राजपत्न्याः संदर्शनानन्तरं सः राज्ञा सह भोक्तुं आह्वानितः। भोजनं अनुष्णं रोमकणेन दूषितञ्च आसीत्। उत्तङ्कः रुष्टः तथा राजा अन्धः भवतु इति शपितवान् । तत्प्रति राजा उत्तङ्कः अपुत्रः भवतु इति अशपत् । परन्तु पुनः उभयतः शापं विमोचितवन्तौ [१] ।
उत्तङ्कः गुरोः आश्रमं पुनरागमनमध्ये मार्गे संप्राप्ते जलाशये स्नानं अचिकीर्षत् । स्वस्य यात्रासामग्रीः तटे स्थाप्य स्नानार्थं गतवान् । तत्क्षणे नागराजः तक्षकः श्रमणरूपे तत्र आगत्य कर्णिकां चोरितवान् । उत्तङ्कः तं श्रमणम् अन्वधावत् । किन्तु तक्षकः स्वरूपं पुनर्प्राप्य भूमिबिलं प्रविश्य नागलोकं गतवान् । उत्तङ्कः एकं बिलमार्गं खनितुं आरब्धवान् । देवेन्द्रः इदं दृष्ट्वा नागलोकं सम्प्राप्तुं खननार्थं स्वस्य वज्रायुधं साहाय्यकरणे प्रेषितवान् । यदा उत्तङ्कः नागलोकं आगतवान् सः तक्षकराजस्य च तस्य कुलस्य गुणानाम् च अतीव प्रशंसितवान् स्वकार्यकारणेन स्तुतवान् तथापि विफलः यत् तक्षकः कर्णिकां प्रत्यर्पयितुं न सिद्धः[१][३] ।
तदा उत्तङ्कः द्वे कार्यनिरते स्त्रियौ दृष्टवान् ये भित्यां स्थापितस्य एकस्य चक्रस्य उपरि श्वेतञ्च कृष्णञ्च सूत्रे स्थाप्य किञ्चित् वस्त्रं वयन्त्यौ। चक्रः द्वादश-आरौ सज्जितः तथा षड्जनैः वर्त्यमानः। एकः अश्वारूढः पार्श्वे स्तिथः । उत्तङ्कः तद्दृश्येन प्रभावितः तद्वयनं अश्वारूढञ्च प्रशंसितवान् स इन्द्र एव इति स्तुतवान् । तेन प्रसन्नः अश्वारूढः कथं उत्तङ्कः उपकरणीयः इति पृष्टवान् । उत्तङ्कः तत्रत्यान् सर्वान् सर्पान् वशीकर्तुं इष्टवान् । तदा अश्वारूढः उत्तङ्कः तत्रत्यस्य अश्वस्य पृष्टभागे श्वासं बलेन प्रवाहयितुं निर्दिष्टवान् । उत्तङ्कः तथैव कृतवान् । तदा ज्वालाग्निः अश्वस्य अभितः उत्पन्नः तन्नागलोकं सर्वं धूमेन ज्वालेन आपूरयत् । भयभीतः तक्षकः आगतवान् कर्णिकां प्रत्यर्पितवान् च [४][१]।
तदा उत्तङ्कः कथं सूचिते अल्पसमये वेदस्य आश्रमं गत्वा गुरुपत्न्यै कर्णिकां दातव्यं इति चिन्तितवान्। इदं दृश्ट्वा अश्वारूढः तस्य अश्वं दत्तवान् तमारूढ्य उत्तङ्कः निर्धारितसमये आश्रमं प्राप्तवान् । सूर्यास्तपूर्वे यदा गुरुपत्नी तं विलम्बकारणेन शपितुं उद्यता अभवत् तदैव आगतः । उत्तङ्कस्य कथनेन कष्टभरितयात्रां कर्णिकाप्राप्तिं तस्य प्रयासं सर्वं च ज्ञात्वा वेदऋषिः तस्य भार्या च अतीव प्रसन्नौ तथा आशिर्वादं ददतुः । वेदः उत्तङ्कस्य अनुभवं नागलोके यद्दृश्यं सर्वं विवरणं बोधितवान् । ते सौत्रिके धाता वाधाता भवतः जगत् तथा जगतः सर्वजन्तूनां च स्रृष्टिं कुर्वत्यौ । श्वेतकृष्णसूत्रे दिनरात्र्यौ । द्वादशआरयुक्तं चक्रं षष्टित्रिंशत् दिनानां संवत्सरः । षड्बालकाः षड्ऋतवः । सः महाकायः तस्य वृषभः इन्द्रः तस्य ऐरावतः हस्तिरेव च। गोगयं अमृतमेव नागलोके अत्तङ्कस्य जीवाधारः अभवत् । नागलोके स्थितः अश्वारूढः इन्द्रः अश्वः अग्निः । वेदऋषिः स्वस्य मित्रं इन्द्रः उत्तङ्कस्य साहाय्यं यात्रायां निरन्तरं कृतवान् इति अवदत् [१][५] ।
कर्णिकाप्रदानानन्तरं गुरोः अभिवादनं कृत्वा अत्तङ्कः हस्तिनापुरं प्रति प्रस्थानं अकरोत् यत्र राजा जनमेजयः राज्यभारं निर्वहति स्म । उत्तङ्कः तक्षकस्य दुर्व्यवहारस्य प्रतिकारं कर्तुं चिन्तयति स्म । जनमेजयस्य पितुः राजापरीक्षितः मरणस्य कारणभूतः तक्षकः एव इति राजानं सूचितवान् । तथा एकं बृहत् सर्पयागं संयोजयित्वा सर्वान् नागान् विनाशयतु इति बोधितवान् [१][६] राज्ञा नियोजिते सर्पसत्रयज्ञे सम्मिलितानां ऋषीनाम् एकः ऋषिः उत्तङ्कः। सर्पसत्रं सर्वान् सर्पसमूहान् मन्त्रोच्चारणप्रभावेन एव आकृष्य आहुतिं कर्तुं नियोजितम्। ततः सर्पाणां मरणं निश्चितम् । तथैव सर्पाः आकृष्टाः होमाग्नौ हुताः मृताः किन्तु तक्षकः एव अनागतः कुत्रापि न दृष्टः । यदा तं आनीतुं उत्तङ्कः उच्चैः उच्चैः मन्त्रान् उच्चरन् तक्षकः मरणात्त् भीतः इन्द्रस्य रक्षणे गतः इन्द्रस्य सिंहासनं संयुज्य भद्रस्थितः। इदं ज्ञात्वा उत्तङ्कः तक्षकं च इन्द्रं च तस्य सिंहासनमपि आहुतीकर्तुं मन्त्रान् अति तीव्रबलेन उच्चारितवान् । इन्द्रः तक्षकं सिंहासनात् विक्षिप्य पलायनं कृतवान् । किन्तु यदा तक्षकः होमाग्नौ ज्वलितुं उन्मुखः तत्क्षणे आस्तिकः नाम शास्त्रज्ञः तेजस्वी जरत्करुऋषेः कुमारः आगत्य सर्पसत्रं संनिवर्तयितुं जनमेजयं आदिशत् ।इत्थं आस्तिकेन ऋषिकुमारेण सर्पसत्रं समाप्तं तक्षकः अपि जीवितेन रक्षित: इति निष्पादितम् । [File:Indra deva.jpg|thumb|इन्द्रः उत्तङ्कस्य साहाय्यं करोति।]]
अश्वमेधिकपर्व
सम्पादयतुअश्वमेधिकपर्वे एषा कथा किञ्चिदन्यथा कथ्यते । उत्तङ्कः भृगुकुले संजातः ऋषिः ब्राह्मणः यः मरु नाम ईरिणप्रदेशे स्वस्य आश्रमे अनिवसत् । उत्तङ्कः गौतममुनेः शिष्यः तस्य सेवां शतवर्षपर्यन्तं कृतवान् च । उत्तङ्कः गौतमस्य अति प्रियः शिष्यः यस्य विद्याभ्यासानन्तरमपि उत्तङ्कं ऋषिः आश्रमात् निर्गन्तुं अनुमतिं न दत्तवान् । उत्तङ्कः कालेन वृद्धः अभवत् । एकदा उत्तङ्कः बृहत् समिन्धनकाष्टं आवहन् अति श्रान्तः संनिपतितवान् । गौतमस्य पुत्री तं दृश्य अरोदत् । यदा उत्तङ्कः गुरुणा आहूतः अति दुःखितः अश्रुपूर्णः अपृच्छत् किं कारणं सः गुरुणा आश्रमात् न विमोचितः यत् पूर्वं सहस्राः शिष्याः शिक्षानन्तरं गौतमेन विमोचिताः । गौतमः उत्तररूपे उत्तङ्काय नवयौवनं अनुदत्तवान् हर्षेण स्वस्य पुत्र्या सह उत्तङ्कस्य विवाहं कारितवान् आश्रमं विहर्तुं अनुमोदितवान् [६][१] ।
उत्तङ्कः गुरुदक्षिणां दातुं इच्छन् । गुरुः स्वस्य भार्यां अहल्यां तस्याः इच्छां प्रष्टुं कथितवान् । अहल्या राज्ञ्याः मदयन्त्याः देवकर्णिकां गुरुदक्षिणारूपेण अयाचत। मदयन्ती राजा मित्रसहसौदसस्य भार्या । सः राजा शापग्रस्तः तथा कल्मषपादः नाम नरभक्षकराक्षसः भूतवान्। उत्तङ्कः यदा कल्मषपादं मिलितवान् राक्षसः तं खादितुं उद्युक्तः । परन्तु उत्तङ्कः तं निरुध्य स्वस्य कार्यविषये परिचयं कृतवान् । राजपत्न्याः मदयन्त्याः देवकर्णिकां आलभ्य गुरुदक्षिणां समर्प्य भक्षणार्थं पुनरागमिष्यामि इति आश्वासितवान् । कल्मषपादः अङ्गीकृतवान् स्वस्य पत्न्यै प्रेषितवान् । परन्तु पत्नी कर्णिकां दातुं निराकरोत्। कल्मषपादस्य अङ्गीकारस्य किञ्चिदपि प्रमाणं ऐच्छत्। उत्तङ्कः राजस्य अङ्गीकारप्रमाणं आनीतवान् । राज्ञी मदयन्ती देवकर्णिकां दत्तवती । सा उत्तङ्काय सूचितवति नागाः यक्षाः राक्षसाः सर्वे देवकर्णिकां प्राप्तुं उत्सुकाः च तस्याः अपहरणं कर्तुं प्रयत्नं निश्चयेन करिष्यन्ति इति । उत्तङ्कः भूमिं कदापि न स्पर्षं करोतु यतः भूस्पर्षेण नागैः कर्णिकाअपहरणं संभवति इति उक्तवती [६][१] ।
आश्रमपुनरागमने उत्तङ्कः देवकर्णिकां मृगचर्मे बद्धीकृतवान् । मार्गे भोजनाय फलं चेतुं एकं फलवृक्षं आरूढवान् । मृगचर्मः शाके बद्धः तदपि निवृत्तः ततः देवकर्णिका भूमौ पतिता । हन्त एकः सर्पः झटिति कर्णिकां चोरयित्वा एकं वल्मीकं प्रविष्य निर्गतः । दुःखेन उत्तङ्कः वृक्षात् निपतितवान् । पञ्चत्रिंशत् दिनपर्यन्तं सर्पं गृहीत्वा कर्णिकां प्राप्तुं वल्मीकं उत्खतितवान् । तस्य बहु प्रहारेण भूमिः आकम्पिता । तदा रथोपस्थः मार्गे गच्छन् इन्द्रः तस्य नष्फलप्रयत्नं दृष्टवान् । यथा आदिपर्वणि तथैव इन्द्रः स्वस्य वज्रायुधं दत्तवान् तत्साहाय्येन उत्तङ्कः उत्खननं कृत्वा सुन्दरं नागलोकं प्रविष्टवान् । तत्र एकः विचित्रअश्वः दृष्टः । “तस्य पुच्छः श्वेतकृष्णवर्णः आसीत् तस्य मुखं नेत्रं च ताम्रवर्णम् विज्वलत् आसीत्“। अश्वः तस्य पृष्ठभागे बलेन फुत्कर्तुं कथितवान् यथा आदिपर्वणि कथितम् । सः अश्वः अग्निदेवः एव यः गौतमऋषेः गुरुः अभवत् तथा कर्णिकाप्राप्तिकार्ये पूर्वं साहाय्यवचनं दत्तवान्। उत्तङ्कः अश्वस्य वचनं परिपाल्य पृष्टे फुत्कृतवान् तदा झटिति अग्निः धूमाः अश्वस्य देहस्य सर्वभागात् आस्फुरन् नागलोकं सर्वं आवृत्य वायुरोधं कृतवान् । ततः निरुद्धाः भीताः सर्वे सर्पगणाः वासुकीनेतृत्वे बहिरागताः उत्तङ्कं नमस्कृत्य क्षमायाचमानाः देवकर्णिकां उत्तङ्काय प्रत्यर्पितवन्तः । उत्तङ्कः गौतमऋषेः आश्रमं पुनरागत्य अहल्यायै देवकर्णिकां समर्प्य सर्वं वृत्तान्तं निवेदितवान् [७][१] ।
कृष्णमेलनम्
सम्पादयतुअश्वमेधिकपर्वणि उत्तङ्कस्य भगवता कृष्णेन मिलनं वर्ण्यते । कृष्णः द्वारकां प्रतिगच्छन् मार्गे परिव्राजकं मुनिम् उत्तङ्कं अपश्यत् । उत्तङ्कः कृष्णं तत्पूर्वं किं प्रवर्तितमिति अपृच्छत् । कृष्णः महभारतयुद्धं तस्मिन् भवितं महानष्टं सर्वं कथितवान् । उत्तङ्कः विचलितः कृद्धः चिन्तयन् किं कृष्णः कौरवपाण्डवयौः शान्तिसंधानं न हि कृतवान् इति ततः कृष्णं शपितुं उद्युक्तः। कृष्णः उत्तङ्काय धर्मसंस्थापनाय युद्धस्य आवश्यकतां बोधयित्वा स्वस्य विश्वरूपं दर्शितवान् । मुनिः कृष्णं नमस्कृतवान् । कृष्णः किमपि वरं प्रष्टुं प्रेरितवान् । उत्तङ्कः यदा कदापि सः पिपासति तदेव पेयं जलं लब्धुं वरं अपृच्छत् । कृष्णः तथास्तु इति वरं दत्तवान् [१][८]। अर्जुनेन भीष्मेन अन्यः उत्तङ्कः एव यः कृष्णस्य विश्वरूपदर्शनं प्राप्तवान् [९]।
एकदा मरुभूमौ पर्यटन् उत्तङ्कः तर्षितः जलाय कृष्णस्य स्मरणं कृतवान् किन्तु एकः विवस्त्रः चण्डालः तत्र मूत्रं विसृज्य तत् पीतुं आदिशत् । सः चण्डालः पँङ्केन कलुषितः मलिनैः श्वानैः परिवृतः आसीत् । चण्डालः पुनःपुनः तस्य मूत्रं पातुम् उक्तवान् । उत्तङ्कः निराकृतवान् तत्क्षणं चण्डालः अदृश्यः । तदा कृष्णः तत्र आगतवान् । उत्तङ्कः ब्राह्मणस्य तृषां निवारितुं चण्डालं प्रेषितवन्तं कृष्णं तर्जितवान्। परन्तु कृष्णेन विशदीकृतम् इन्द्रः कृष्णस्य उत्तङ्काय अमृतं प्रदातुं निवेदनं न अङ्गीकृतवान् कारणं मनुष्येभ्यः अमृतं न दातव्यमिति ।
अन्ते इन्द्रः किन्तु चण्डालरूपं धृत्वा अमृतं दातुं सिद्धः यदि उत्तङ्कः न तिरस्करोति। कृष्णेन एतत् अँङ्गीकृतम् । तथा कृष्णः उक्तवान् चण्डालस्य अमृतनिवेदना उत्तङ्केन अनुपेक्षणीया तस्य व्यवहारः असाधु इति। तथापि कृष्णः भविष्ये उत्तङ्कस्य पेयजलापेक्षां यदा कदापि पूरीकरिष्यामि इति आश्वासितवान् । कृष्णः पुनः आशीर्वदितवान् उत्तङ्कः यदा कदापि मरुभूमौ जलदान् मेधान् वर्षाय अपेक्षते तदा घनमेघाः मरुभूमौ वर्षयन्ते इति। एते वर्षभरितमेघाः मरुभूमौ अति विरलाः एव तेषां नाम उत्तङ्कस्य मेघाः इति जनेन आख्यातम् [१०][१][८] ।
अन्यवृत्तान्ते कथितं कृष्णः उत्तङ्कं परीक्षितुं स्वयं नीचव्याधरूपे आगत्य मूत्रमिश्रितजलं पातुं तृषाय उत्तङ्काय दत्तवान् । उत्तङ्कः न स्वीकृतवान् यज्जलं अस्पृषेन व्याधेन दत्तम् । कृष्णः असन्तुष्टः स्वस्य निजरूपं दर्शितवान् [११] ।
अन्यकथाः
सम्पादयतुमहाभारते वनपर्वणि वर्णितं धुन्धुः नाम असुरः मरुधन्वा नाम प्रदेशे उज्जालकमरुभूमितले सिकतायाः अधः निवसन् आसीत् । धुन्धुः सर्वं लोकं बहु पीडितवान् । धुन्धोः दुराचारेण कुपितः उज्जालके स्थिते आश्रमे निवसन् उत्तङ्कः विष्णोः कृपार्थं तपसं आचरितवान् । संप्रीतः विष्णुः उत्तङ्कं उक्तवान् चिञ्ता मास्तु इक्ष्वाकुमहाराजः कुवलाश्वः विष्णोः अंशीभूतः असुरस्य संहारं करिष्यति इति । उत्तङ्कः राजावृहदश्वं मिलित्व विष्णोः वचनं कथितवान्। स राजा वानप्रस्थआश्रमं स्वीकर्तुं उद्युक्तः स्वस्य पुत्रं कुवलाश्वं उत्तङ्कस्य कार्यं कर्तुं आदिश्य वनं निर्गतः । कुवलाश्वः २१००० याद्धान् पुत्रान् च सङ्ग्राह्य उत्तङ्केन सह उज्जालकप्रदेशं प्रति अगच्छत्। मार्गे विष्णुः स्वस्य शक्त्यांशं राज्ञे प्रदत्तवान्। धुन्ध्वासुरः प्रजापतिना वरं गृहीतवान् केनापि देवांशेन सः न मारणीयः इति । कुवलाश्वः मरुभूमौ सिकतां सैन्येन सह खनित्वा अधःस्थं बृहदाकारं असुरं अन्विष्टवान् । बृहत्सेनेन आवृतः असुरः तीक्ष्णायुधैः प्रहृतः । कृद्धः असुरः सर्वान् आयुधान् निवार्य मुखेन ज्वालां प्रवहन् सर्वान् सैनिकान् क्षणे भक्षितवान् । तदा राजा बहु पराक्रमेन असुरं प्रतिरुद्ध्य जलराशिं उत्पाद्य अग्नेः उपशमनं कृतवान् । असुरं ब्रह्मास्त्रेण अमारयत् । राज्ञः त्रयः पुत्राः जीविताः आसन्। राजा कुवलाश्वः असुरहननेन संप्रीतैः ऋषिभिः देवैः अनेकवरान् संप्राप्तवान् । अनन्तरं सः धुन्धुमारः इति प्रखायातः अभवत् [१]|
नारदीयपुराणे कथितं उत्तङ्कः उज्जालके स्थिते आश्रमे निवसन् आसीत्। वृद्धाप्ये सः अनेकदेवतामन्दिराणां दर्शनार्थं तीर्थयात्रां अकरोत् । एकदा सौवीरक्षेत्रे विष्णुमन्दिरस्य स्वर्णकवचान् अपहरन्तं गुलिकः नाम व्याधं उत्तङ्कः दृष्ट्ववान्। गुलिकः उत्तङ्कं हन्तुं उद्युक्तः । उत्तङ्कः मारणकृत्यस्य पापकर्मस्फलं कठोरम् अनेकजन्मनि अनुभोक्तव्यमिति बोधितवान् । इदं श्रुत्वा चोरः गुलिकः पश्चात्तापेन मृतः। उत्तङ्कः चोरस्य मृतशरीरोपरि गङ्गाजलं प्रोक्षणं कृतवान्। गुलिकः पुनर्जीवितः तत्फलेन वैकुण्ठं प्राप्तवान्। महाविष्णोः आदेशेन उत्तङ्कः बदरिकाश्रमं गत्वा तपसं आचरितवान् स्वयं वैकुण्ठं सम्प्राप्तवान् [१] ।
उल्लेखाः
सम्पादयतु- ↑ १.०० १.०१ १.०२ १.०३ १.०४ १.०५ १.०६ १.०७ १.०८ १.०९ १.१० १.११ १.१२ १.१३ १.१४ Mani, Vettam (1975). Puranic Encyclopaedia: a Comprehensive Dictionary with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass Publishers. pp. 240, 815–6. ISBN 978-0-8426-0822-0.
- ↑ Vogel 1926, pp. 65–6.
- ↑ ३.० ३.१ Vogel 1926, p. 62.
- ↑ Vogel 1926, pp. 62–3.
- ↑ Vogel 1926, p. 63.
- ↑ ६.० ६.१ Vogel 1926, p. 64.
- ↑ Vogel 1926, pp. 64–5.
- ↑ ८.० ८.१ Renuka Narayanan (April 23, 2011). "The epic tale of Utanka's error". Hindustan Times. Archived from the original on 30 December 2014. आह्रियत 30 December 2014.
- ↑ Mehta 1992, p. 130.
- ↑ Heinrich 2002, p. 21.
- ↑ "Uttanka". Encyclopedia for Epics of Ancient India. आह्रियत 1 November 2013.