उत्तरगोवामण्डलम्

(उत्तरगोवामण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

उत्तरगोवामण्डलं ( /ˈʊttərəɡɑːməndələm/) (हिन्दी: उत्तर गोवा जिला, आङ्ग्ल: North Goa) गोवाराज्यस्य अन्यतरं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पणजी इति महानगरम् । पणजीमहानगरं राज्यस्यास्य राजधानी अपि अस्ति । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य त्रिंशत्तमे दिनाङ्के अभूत् ।

उत्तरगोवामण्डलम्

North Goa District
उत्तरगोवा जिल्ला
उत्तरगोवामण्डलम्
कोकोसमुद्रतटः
Location of उत्तरगोवामण्डलम्
देशः  India
राज्यम् गोवाराज्यम्
उपमण्डलानि पेरनेम, बारदेज(मापुसा), बिचोलिम, सतारी(वलपोई), तिस्वाडी(पणजी), पोण्डा
विस्तारः १७३६ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ८,१८,००८
Government
 • मण्डलसङ्गाहकः
(District Collector)
मिहिर वर्धन
 • मण्डलशिक्षणाधिकारी ए. वि. पवार
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८९.५७%
भाषाः कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website northgoa.gov.in

भौगोलिकम् सम्पादयतु

उत्तरगोवामण्डलस्य विस्तारः १७३६ च.कि.मी.-मितः अस्ति । गोवाराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि, पूर्वदिशि च महाराष्ट्रराज्यस्य द्वे मण्डले स्तः । ते क्रमेण सिन्धुदुर्ग-कोल्हापुरमण्डले स्तः । अस्य दक्षिणदिशि दक्षिणगोवामण्डलम्, पश्चिमदिशि अरबीसमुद्रश्चास्ति । अस्मिन् मण्डले ५०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा - तेरेखोल, माण्डवी, जुवारी, चपोरा, साल

जनसङ्ख्या सम्पादयतु

 

उत्तरगोवामण्डलस्य जनसङ्ख्या(२०११) ८,१७,७६१ अस्ति । अत्र ४,१६,६७७ पुरुषाः, ४०,१३३ स्त्रियः, ७७,७०५ बालकाः (४०,०८१ बालकाः, ३७,६२४ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.८४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८९.५७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.४०% स्त्री - ८५.६०% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ पेरनेम २ बारदेज(मापुसा) ३ बिचोलिम ४ सतारी(वलपोई) ५ तिस्वाडी(पणजी) ६ पोण्डा ।

कृषिः वाणिज्यं च सम्पादयतु

रागी(Finger millet), तण्डुलः, नारिकेलं, काजूतकं(Cashew), 'जवार्', ‘बाजरा’ च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति । गोवाराज्यस्य मण्डलयोः काजूतकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति ।

वीक्षणीयस्थलानि सम्पादयतु

'कोको'समुद्रतटः नेरुलनदी-अरबीसमुद्रयोः सङ्गमे स्थितः अस्ति । एषः समुद्रतटः अत्रस्थेषु सर्वेषु समुद्रतटेषु प्रख्याततमः । अस्मिन् मण्डले बहवः क्रैस्तप्रार्थनालयाः सन्ति । यथा - 'सेन्ट फ्रांसिस', 'ऑफ असीसी', 'होली स्पिरिट्', 'पिलर सेमिनरी', 'सालीगांव', 'रकोल सेमिनरी', 'सेन्ट् कारजन' इति । अन्यान्यपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा - 'सेन्ट् आगस्टीन टावर', 'ननरी ऑफ सेन्ट मोनिका', 'सेन्ट एरक्स चर्च' च । अस्मिन् मण्डले प्रसिद्धाः देवालयाः अपि सन्ति, यत्र प्रवासिनः गच्छन्ति । तेषु देवालयेषु मुख्याः सन्ति - श्रीकामाक्षी, सप्तकोटेश्‍वरः, श्रीशान्तादुर्गः, महालसा-नारायणीमन्दिरं, परनेम भगवतीमन्दिरं, महालक्ष्मीमन्दिरं, श्रीदेवकीकृष्णमन्दिरं च ।

बाह्यानुबन्धः सम्पादयतु

http://northgoa.gov.in/contacts.htm northgoa.gov.in

"https://sa.wikipedia.org/w/index.php?title=उत्तरगोवामण्डलम्&oldid=445660" इत्यस्माद् प्रतिप्राप्तम्