उत्तरफल्गुनी
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(फ़ेब्रुवरि २०१४) |
रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते पूर्वफल्गुनीनक्षत्रम् । प्रतिदिनं [चन्द्रः|चन्द्रः]] यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दु[[ज्योतिष्शास्त्रस्य अनुगुणम् पूर्वफल्गुनीनक्षत्रं भवति एकादशं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।
आकृतिः
सम्पादयतुपूर्व-उत्तर नेत्रद्वयोः - नेत्राकृतौ विद्यमाने द्वे नक्षत्रे ।
सम्बद्धानि अक्षराणि
सम्पादयतुटे टो पा पी - उत्तरफल्गुनीनक्षत्रसम्बद्धानि अक्षराणि ।
अधिदैवम्, वैदिकविवेचनम्
सम्पादयतु- गवां पतिः फल्गुनीनामसि त्वं तदर्यमन् वरुण मित्र चारु ।
- तं त्वा वयं सवितारं सनीनां जीवा जीवन्तमुपसंविशेम ॥
- येनेमा विश्वा भुवनानि संजिता यस्य देवा अनुयन्ति चेतः ।
- अर्यमा राजा अजरस्तु विष्मान् फल्गुनीनामृषभो रोरवीति ॥
उत्तरफलुनीनक्षत्रस्य अधिपतिः अर्यमा । ऋग्वेदस्य १-१६७-८ मन्त्रे अर्यमस्य अर्थः न्यायकारी इत्यस्ति । वस्तुतः अर्यमा सूर्यस्य पर्यायरूपः अस्ति । वेदे आर्यमा किरणानां स्वामी मन्यते । तैत्तिरीयब्राह्मणस्य कथनानुसारम् आर्यमा आपः फल्गुनी धेनुः इत्येतेषां स्वामिनी । आपः कल्याणकारिणी अस्ति । एषा संसारस्य पितृस्वरूपा कष्टनिवारिका च वर्तते । अपां कारणतः एव लोकः जीवति । देवगणः अपां चित्तस्य अनुसरणं करोति । हे आर्यमन्, भवान् बुद्धिमान् घोषकारी जरारहितश्च वर्तते ।
- न पूर्वयोः फल्गुन्योरग्निमादधीत्, एषा वै जघन्या रात्रिः संवत्सरस्य । पृष्टित एव संवत्सरस्याग्निमाधाय पापीयान् भवति, उत्तरयोराधीत ॥ एषा वै प्रथमा रात्रिः संवत्सरस्य यदुत्तरे फल्गुनी । मुखत एव संवत्सरस्याग्निमाधाय वसीयान् भवति ॥
पूर्व-उत्तरफल्गुनीनक्षत्रयोः अधिपत्योः भेदः अपि दृश्यते कदाचित् । पूर्वफल्गुन्याः अधिपतिः अर्यमा, उत्तरफल्गुन्याः अधिपतिः भगदेवता । तैत्तिरीयब्राह्मणस्य १-१-२ मन्त्रे उक्तमस्ति यत् पूर्वफल्गुनीनक्षत्रम् अशुभमिति । इयं संवत्सरस्य अन्तिमा रात्रिः अस्ति । तदा येन अग्न्याधानं क्रियेत सः पापभाक् भवेत् । उत्तर्फल्गुनी संवत्सरस्य प्रथमा रात्रिः भवति । अयं संवत्सरस्य मुखं वर्तते । अस्मिन् येन अग्न्याधानं क्रियेत सः भवति प्रमुखः श्रेष्ठश्च ।
आश्रिताः पदार्थाः
सम्पादयतु- आर्यम्णे मार्दवशौचविनयपाखण्डिदानशास्त्ररताः ।
- शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ॥
मार्दवरता मृदुभावसमेताः । शौचरताः शुद्धाः परधनादिष्वलुब्धाः । विनयरता नीतिज्ञाः । पाखण्डिनो वेदघाह्यास्तेषु ये रताः सक्ताः । दानरता दानसक्ताः । शास्त्ररताः पठनशीलाः । शोभनं धान्यं कलमशाल्यादि । महाधना अतिधनिनः । कर्मानुरताः कर्मस्वतिसक्ताः । ते च समनुजेन्द्रा मनुजेन्द्रैर्नृपैः सहिताः । एते सर्व एवाऽर्यम्णे उत्तरफल्गुन्याम् ।
स्वरूपम्
सम्पादयतु- उपनयनं करपीडनमखिलं स्थिरशिल्पभूषणं त्वखिलम् ।
- पुरसदनप्रारम्भणमम्बररणकार्यमर्यमर्क्षेषु ॥
उत्तरफाल्गुनीनक्षत्रे उपनयनविवाहसम्बन्धीनि सर्वाणि कार्याणि, स्थिरकर्म, शिल्पकार्यम्, आभूषणसम्बद्धानि समग्रकार्याणि, नगरस्य गृहस्य आरम्भकार्यं वस्त्रस्य युद्धस्य च कार्याणि कर्तुं शक्यन्ते ।
ध्रुवसंज्ञकनक्षत्राणि
सम्पादयतु- त्रीण्युत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् ।
- अभिषेकशान्तितरुनगरधर्मबीजध्रुवारम्भात् ॥
अधुना ध्रुवाणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह –
तेभ्यो नक्षत्रेभ्यस्त्रीण्युत्तराणि उत्तरफल्गुनी उत्तराषाढोत्तरभाद्रपदा तथा रोहिण्यः । एतानि नक्षत्राणि चत्वारि ध्रुवाणि स्थिराणीत्यर्थः । तैश्च ध्रुवैः किं तत् ? अभिषेको नृपादेः । शान्तिः शान्तिकमुत्पातप्रतीकारः । तरुवृक्षस्तस्य रोपणम् । नगरं पत्तनं तत्प्रतिष्ठादि । धर्मो धर्मक्रिया । बीजं बीजवपनम् । अन्येषां ध्रुवाणां स्थिराणां कर्मणामारम्भान् कुर्यादिति ।