प्रवेशः सम्पादयतु

श्रावणमसस्य सिंहमासे पूर्णिमायां यजुर्वेदीनां नूतनोपकर्मणः आचरणं भवति । सामवेदीनां भाद्रपदमासस्य ऋग्वेदीनां तु सिंहमासस्य श्रवणनक्षत्रदिने उपाकर्म यज्ञोपवीतधारणं च भवतः । उत्सर्जनं नाम त्यागः उपाकर्म नाम स्वीकरणम् इत्यर्थः । वेदान् त्यक्त्वा स्वीकरणस्य उत्सर्जनोपाकर्म इति व्यवहारः । अतः उपाकर्म विधिं वेदग्रहणसंस्कारः इति कथयन्ति ।

कुतो वा वेदत्यागः सम्पादयतु

अस्य प्रश्नस्य उत्तरम् ऋषिमुनयः विविधदृष्टिकोणेन दत्तवन्तः । कालम् अतिक्रम्य असारस्य यातयामः इति नाम । ओदनं १२घण्टासु यातयामं भवति । अथवा सूर्योदयं कृतम् ओदनं सूर्यास्तस्य अनन्तरं याकयमं भवति इत्यर्थः । एवमेव अधीतवेदाः एकवर्शानन्तरं यातयामाः भवन्ति । तादृशस्य वेदमन्त्रपठनेन किमपि प्रयोजनं नास्ति । अतः अधीतवेदानां प्रतिवर्षं नवीकरणम् अनिवार्यम् । अस्य एव नाम उत्सर्जनोपाकर्म । उत्सर्जनस्य सङ्कल्पे विषयोऽयम् उल्लिख्यते । अधीतानां छन्दसां यातयानुतानिरासेन पुनराप्यायनार्थम् इति । उत्सर्जनं माघमासस्य पूर्णिमायाम्, उपाकर्म श्रावनपूर्णिमायां भवतः। कृषिकर्म कुर्वाणाः धान्यार्जनकाले वेदध्ययनं त्यजन्ति । पुनः वर्षाकालारम्भे उनः वेदग्रहणं भवति ।

आचरणम् सम्पादयतु

कश्यपः अत्रिः भरद्वाजः विश्वामित्रः गौतमः जामदग्निः वसिष्टः इति सप्तर्षीनां पूजां कृत्वा तेषाम् अनुमतिं प्राप्य ऋग्वेदस्य दशमण्डलानाम् आद्यन्तमन्त्रैः आहुतिं दत्त्वा देवर्षिपित्राचार्येभ्यः तर्पणं दत्त्वा ’उत्सृष्टा वै वेदाः’ इति वदन् वेदोत्सर्जनं कुर्यात् । ततः उपाकर्माचरणम् । ’उपाकृता वै वेदाः’ इत्युक्त्वा वेदस्वीकरणं कुर्यात् । अत्र दधिसक्तुप्राशनं यज्ञोपवीतधारणं च भवतः । उपवीतं वेददीक्षितं इति कारणेन दीक्षाकङ्कणम् इव भवति ।

नूतनोपाकर्म सम्पादयतु

नूतनोपनीतस्य वटोः उत्सर्जनं नोक्तम् । यतो हि अस्वीकृतेन किं त्यक्तुं शक्यते । उपनयनविधौ गायत्रीग्रहणम् अभवत् न तु वेदग्रहणम् । अयां कार्त्तिकपूर्णिमायां नान्दीसमारधनेन आरभ्य पितृदेवान् उपासित्य उपनयनकाले उपयुक्तं दण्डं मौञ्जीं अजिनम् उपवीतं च विसर्ज्य नूतनोपवीतधारणं कुर्यात् । नूतनोपाकर्माङ्गतया अन्नदानमपि युक्तम् ।

यज्ञोपवीतपरिवर्तनस्य अवसराः सम्पादयतु

  • उपवीतस्य तन्तुः भग्नः चेत् ।
  • प्रमादवशात् उपवीतं शारीरात् पृथक् भवति चेत् ।
  • शवस्य काकस्य रजस्वलास्त्रियाः सपर्शः भवति चेत् ।
  • रोगकारणात् अस्नात्वा भोजनं कृतं चेत् ।
  • जाताशौचस्य मृताशौस्य समाप्तेः अनन्तरम् ।
  • नूतनोपाकर्मसु ।
"https://sa.wikipedia.org/w/index.php?title=उपाकर्म&oldid=408849" इत्यस्माद् प्रतिप्राप्तम्