ऊधमसिंहनगरमण्डलम्

(ऊधमसिंहनगरमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

ऊधमसिंहनगरमण्डलम् ( /ˈʊdhəmsɪhəməndələm/) (हिन्दी: ऊधमसिंहनगर जिला, आङ्ग्ल: Udham Singh Nagar District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रुद्रपुरम् । अस्य मण्डलस्य रचना ३०/०९/१९९५ दिनाङ्के अभूत् । ऊधमसिंहनगरमण्डलं वन्यजीवन-स्थापत्यकला-प्राकृतिकदृश्यादिभ्यः प्रख्यातमस्ति ।

ऊधमसिंहनगरमण्डलम्

Udham Singh Nagar District
ऊधमसिंहनगर जिला
देशः  India
राज्यम् उत्तराखण्डः
उपमण्डलानि जसपुर, काशीपुर, बाजपुर, गदरपुर, किच्छा, सितरगञ्ज, खटीमा
विस्तारः २,९०८ च.कि.मी.
जनसङ्ख्या(२०११) १६,४८,९०२
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ७३.१०%
भाषाः कुमाँउनी, गढवाली, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://usnagar.nic.in/

भौगोलिकम् सम्पादयतु

ऊधमसिंहनगरमण्डलस्य विस्तारः २,९०८ च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि नैनितालमण्डलं, दक्षिणदिशि उत्तरप्रदेशराज्यं, पूर्वदिशि नेपालदेशः, पश्चिमदिशि उत्तरप्रदेशराज्यम् अस्ति ।

जनसङ्ख्या सम्पादयतु

 

ऊधमसिंहनगरमण्डलस्य जनसङ्ख्या(२०११) १६,४८,९०२ अस्ति । अत्र ८,५८,७८३ पुरुषाः, ७,९०,११९ स्त्रियः, २,२९,१६२ बालकाः (१,२०,६८७ बालकाः, १,०८,४७५ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३३.४५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७३.१०% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ८९.२०% स्त्री - ६०.५६% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- १ जसपुर २ काशीपुर ३ बाजपुर ४ गदरपुर ५ किच्छा ६ सितरगञ्ज ७ खटीमा ।

वीक्षणीयस्थलानि सम्पादयतु

‘नानक मत्ता साहिब’ सम्पादयतु

नानक मत्ता साहिब-गुरुद्वारं रुद्रपुरात् पञ्चषष्टिः (६५) कि.मी. दूरेऽस्ति । सिक्खजनानां मुख्यतीर्थक्षेत्रेषु एतत् गुरुद्वारम् अन्यतमम् । सरयूद्याः तीरे स्थितमेतत् गुरुद्वारं रमणीये वातावरणे स्वाभां काश्यते । सद्यः तत्र जलबन्धः (Dam) निर्मितः सर्वकारेण । तस्य जलबन्धस्य नाम ‘नानक सागर’ अस्ति । नानकसागरः नानक मत्ता साहिब-गुरुरद्वारस्य सौन्दर्यं वर्धयते ।

अटरीयामन्दिरम् सम्पादयतु

अटरीयामन्दिरम् अटरीयादेव्याः प्राचीनमन्दिरमस्ति । एतन्मन्दिरं रुद्रपुरात् द्वि (२) कि.मी. दूरेऽस्ति । अस्य मन्दिरस्य निर्माणविषये किंवदन्ति श्रूयते यत्, एकदा शूरवीरः राजा रुद्रः वनमार्गेण यात्रां कुर्वन् कुत्रचित् गच्छन् आसीत् । मार्गे सः पल्वल्ये (marshy land = दलदलीय ज़मीन) पतितः । तस्मात् स्थलात् सः येन केनापि प्रकारेण बहिः निर्गतः । बहिरागत्य सः तस्मिन्नेव स्थले मन्दिरस्य एवं सोपानकूपस्य निर्माणस्य सङ्कल्पं चकार । एवं तत्र अटारीदेव्याः मन्दिरस्य निर्माणमभूदिति ।

द्रोणसागरः सम्पादयतु

द्रोणसागरः प्रख्यातमेवं पौराणीकं स्थलमस्ति । महाभारते अस्य स्थलस्य उल्लेखः प्राप्यते । काशीपुरस्य चैत्रमासस्य उत्सवः अत्र बहु प्रख्यातः अस्ति । एषः उत्सवः सुदूरात् भक्तान् आकर्षयति । उत्सवसमये लक्षशः भक्ताः गच्छन्ति तत्र ।

गिरिसरोवरः सम्पादयतु

गिरिसरोवरः काशीपुरात् २.५ कि.मी. दूरे स्थितमस्ति । तत्र जनाः प्राकृतिकसौन्दर्यस्य आनन्दम् आस्वादयितुं गच्छन्ति । कार्येण त्रस्ताः, जामिताः जनाः तत्र विहर्तुं (for picnic) गच्छन्ति । नगरस्य समीपस्थम् इदम् आनन्ददायकेषु स्थलेषु अन्यतमम् ।

बाह्यानुबन्धः सम्पादयतु

http://usnagar.nic.in/

http://www.mapsofindia.com/maps/uttaranchal/districts/udhamsinghnagar.htm

http://dcusn.uk.gov.in/ Archived २०१४-०१-३१ at the Wayback Machine

http://www.euttaranchal.com/uttaranchal/udham_singh_nagar.php Archived २०१३-११-०६ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=ऊधमसिंहनगरमण्डलम्&oldid=481457" इत्यस्माद् प्रतिप्राप्तम्