ऋष्यशृङ्गः
शान्ता दशरथस्य पुत्री। रामादीनाम् अग्रजा। दशरथस्य मित्रम् अङ्गाधिपः रोमपादः। रोमपादस्य अपत्यं न आसीत्। अतः मित्रस्य दुःखनिवारणाय दशरथः स्वपुत्रीं शान्तां रोमपादाय दत्तकरूपेण दत्तवान् आसीत्। अग्रे तस्याः विवाहः ऋष्यशृङ्गेन सह अभवत्। ऋष्यशृङ्गः कश्चन महान् तपस्वी । एतस्य जन्मकथा तु एवं वर्तते, यथा- पुरा विभाण्ड्को नाम मुनिः कदाचित् स्नानार्थं कञ्चित् सरोवरमवतीर्णः सन् तत्र ऊर्वशीमप्सरसं दृष्ट्वा स्खलिततेजा अभवत् । तदा तस्य वीर्यं काचिद्धरिणी पप्राश । तस्यां हरिण्याम् अयं सञ्जातः । पिता विभाण्डकस्तु एनं तथा पुपोष यथा कापि स्त्री नैतस्य दृष्टिगोचरा भवेत् । अत एष बाल्यादारभ्य महति तपसि मग्नः महान्तं महिमानं समपादयत् । एकदा अङ्गदेशाधिपतिः रोमपादः स्वदेशे अनावृष्टौ सत्यां एनं स्वराज्यं निनाय, अदृष्टस्त्रीकस्य, अस्खलितरेतस्कस्य विभाण्डकसूनोः ऋष्यशृङ्गस्य महिम्ना अङ्गदेशसीम्नि पादन्यासमात्रेण सुवृष्टिं प्राप च । अग्रे यदा दशरथः पुत्रकामेष्ठियागं कृतवान् तदा ऋष्यशृङ्गस्य एव पौरोहित्यम् आसीत्। इदानीन्तनकर्णाटकस्य चिक्कमगळूरुमण्डलस्य शृङ्गेरीसमीपे तस्य आश्रमः आसीत् । ऋष्यशृङ्गस्य गिरिः= शृङ्गगिरिः, स एव कालक्रमेण शृङ्गेरी इति कथ्यते ।