एस् वी रङ्गण्ण
यस्.वि.रङगण्णः (S V Ranganna)।
एस्. वी.रङ्गण्णस्य जन्मस्थानं कर्णाटकस्य हासनमण्डलस्य सालगामे ।एषः १८९८ तमे वर्षे डिसेम्बर् मासस्य २४ तमे दिनाङ्के वेङ्कटसुब्बय्यः तथा वेङकटलक्ष्मम्मयोः पुत्ररूपेण जन्म प्राप्तवान् । । रङ्गण्णः१९१९ तमे वर्षे बि.ए पदवीं,१९२१ तमे वर्षे एम्.ए(आङ्ल) पदवीं प्राप्तवान् । १९२३ तमे वर्षे मैसूरुमहाराजमहाविद्यालये आङ्ल-उपन्यासकरूपेण प्रविष्टवान् । अनन्तरं क्रमशः आङ्लविभागस्य मुख्यस्थः जातः। महाराजमहाविद्यालस्य प्रांशुपालः भूत्वा १९५४ तमे वर्षे निवृत्तः जातः।
अनेकासां सङ्घसंस्थानां पदाधिकारिरूपेण सेवां कृत्वा आङ्गलसाहित्ये कन्नडसाहित्ये च प्राविण्यतां प्राप्तवान् आसीत् । एषः उत्तमश्रेण्याः विमर्शकः आसीत् । कन्नडभाषायां , आग्ङ्लभाषायां च ग्रन्थरचनाकार्ये बहु परिणितः एषः मैसूरुविश्वविद्यालयस्य आङ्ल –कन्नडनिघण्टोः(शब्द कोशः) परिष्करणस्य योजनायाः प्रधानसम्पादकः आसीत् ।
कन्नडकृतयः
सम्पादयतु- १. कुमारव्यास
- २. शैली
- ३. होन्नशूल
- ४. कालिदासन नाटकगळ विमर्शा ग्रन्थ (कालिदासस्य नाटकानां विमर्शाग्रन्थः)
- ५. कुमारव्यासवाणि
- ६. कोल् कोल् कूडि बरलि
- ७. कविकथामृत
- ८. विडम्बने
- ९. हास्य
- १०. पाश्चात्त्यः गम्भीरनाटकगळु
- ११हरिश्चन्द्र नाटक
- १२. हळ्ळिय कथेगळु(ग्रामीणकथाः)
- १३.कविकथावलि
- १४. रङ्गय्यन वचनगळु (रङ्गय्यस्य वचनानि)
- १५. रङगबिन्नप
आङ्ग्लकृतयः
सम्पादयतु- १. बि.एम्.श्रीकण्ठय्य
- २. ओल्ड् टेल्स् रीटोल्ड्
- ३. आन् द् सेल्फ्
प्रशस्तयः
सम्पादयतुएतस्य "रङगभिन्नप" कृतेः १९६५ तमवर्षस्य केन्द्रसाहित्य- अकाडमीप्रशस्तिः प्राप्ता ।१९७० तमे वर्षे मैसूरु विश्वविद्यानिलयतः डि. लिट् पदवीं दत्त्वा सम्मनितवन्तः। १९७६ तमे वर्षे शिवमोगानगरे प्रचलितस्य ४९ तमस्य अखिलभारतकन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानम् एषः अलङ्कृतवान् आसीत् । एस् .वी.रङ्गण्णः १९८७ तमे वर्षे दिवङ्गतः।