एस् एम् कृष्ण

भारतीयराजनेतारः
(एस् एम् कृष्णा इत्यस्मात् पुनर्निर्दिष्टम्)

मण्ड्यमण्डलस्य सोमनहळ्ळि मल्लय्यमहोदयस्य सप्तमपुत्रत्वेन क्रि.श.१९३८तमे वर्षे मे मासस्य प्रथमे दिने एस्.एम्.कृष्णः अजायत । मण्ड्यमैसूरुमण्डलयोः प्राथामिकीं प्रौडाशिक्षां समाप्य मैसूरुमहारज महाविद्यालये पदवीं समापितवान् । बेङ्गळूरुनगरस्य सर्वकारीयाधुनिकन्यायशाश्त्रमहाविद्यालयात् बि.एल्.पदवीमपि प्राप्तवान् । उन्नताध्ययनार्थम् अमेरिकादेशं गत्वा टेक्सास् डालार्स नगरे विद्यमाने सदर्न मेथोडिस्ट विश्वविद्यालये अधुनिकन्यायशात्रे स्नतकोत्तरपदवीम् अधीतवान् । वाषिङ्ग्टन्नगरस्य जे सि यु जार्जवाषिङ्ग्टन् विश्वविद्यालयात् अतिचतुरविद्याप्रोत्साहधनं प्रप्तवान् भारतीयछात्रः कृष्णमहोदयः ।

Somanahalli Mallaiah Krishna
Minister of External Affairs
In office
23 May 2009 – 28 October 2012
Prime Minister Manmohan Singh
Preceded by Pranab Mukherjee
Succeeded by Salman Khurshid
In office
12 December 2004 – 5 March 2008
Chief Minister Vilasrao Deshmukh
Preceded by Mohammed Fazal
Succeeded by Sanayangba Chubatoshi Jamir
Chief Minister of Karnataka
In office
11 October 1999 – 28 May 2004
Governor V. S. Ramadevi
Triloki Nath Chaturvedi
Preceded by Jayadevappa Halappa Patel
Succeeded by Narayan Dharam Singh
व्यैय्यक्तिकसूचना
Born (१९३२-२-२) १ १९३२ (आयुः ९१)
Somanahalli, Mandya
(now India)
Political party Indian National Congress
Spouse(s) Prema Krishna
Alma mater Mysore University
Southern Methodist University
George Washington University
Website Official website

बाल्यं शिक्षा च सम्पादयतु

अस्य छात्रजीवनकालात् एव राजकीयं प्रवेष्टुम् इच्छा आसीत् । यदा एषः अमेरिकामायां पठन् आसीत् तदा जान् केनडि महोदयः अध्यक्षीयनिर्वाचने स्पर्धालुः आसीत् । एस्.एम्. कृष्णः केनडिमहोदयस्य परतया निर्वाचनप्रचारम् अकरोत् । केनडिमहोयदयस्य विजयानन्तरं सः स्वयं कृष्णं प्राशंसत् । अस्य जीवने ज़ान् एफ़्.केनडिमहोदयस्य प्रभावः अवश्यम् अस्ति । यदा भारतं प्रतिनिवृत्तवान् तदारभ्य वर्षद्वयं श्री जगद्गुरुरेणुकाचार्य महाविद्यालये अधुनिकन्यायशास्त्रस्य प्रवाचत्वेन कार्यं कृतवान् ।

राजकीयजीवनम् सम्पादयतु

क्रि.श. १९६२तमे वर्षे जन्मग्रामादेव राजकीयजीवनम् आरब्धवान् । प्रजासोशियलिस्ट् पक्षस्य अभ्यर्थी भूत्वा मद्दूरुविधानसभनिर्वाचने स्पर्धितवान् । चितः प्रथमवारं प्रशासकः भूत्वा राजकीयस्य प्रथमसोपानम् आरूढवान् । सुसंस्कृतकुटुम्बात् अगतस्य एस्.एम्.कृष्णः समाजसेवानुभवेन प्रगतिपरविचारैः राजकीयक्षेत्रे क्षुल्लकत्वं विना उदारगुणं प्रदर्शितवान् । एस्.एम्.कृष्णमहोदयः क्रि.श.१९६८तमे वर्षे प्रथमवारं लोकसभासदस्यः अभवत् । क्रि.श१९७१तमे वर्षे पुनरेकवारं सांसदः सञ्जातः ।

क्रि.श.१९७२तमे वर्षे सांसदस्थानस्य त्यागपत्रं दत्त्वा राज्यविधानपरिषदः सदस्यः अभवत् । अस्मिन् एव अवसरे यन्त्रोद्यमस्य वाणिज्यस्य सांसदीयव्यवहारस्य च मन्त्री अभवत् । क्रि.श.१९८०तमे वर्षे पुनः लोकसभानिर्वाचने प्रतिस्पर्ध्य जितवान् । क्रि.श.१९८३तः क्रि.श.१९८५ पर्यन्तं केन्द्रे यन्त्रोद्यमस्य अर्थविभागस्य च मन्त्री अभावत् । क्रि.श.१९८९तमे वर्षे मद्दूरुमध्ये विधनसभाभ्यर्थी भूत्वा निर्वाचने चितः अभवत् । विधानसभाध्यक्षरूपेण वर्षत्रयं सेवां कृतवान् । क्रि.श.१९९२तः १९९४पर्यन्तं विरप्प मोयिलिमहोदयस्य मन्त्रिमण्डले उपमुख्यमन्त्री अभवत् । क्रि.श.१९९४तमे वर्षे विधासभानिर्वचाने मद्दूरुक्षेत्रे पराजयम् अनुभूतवान् । अनन्तरं राज्यसभायां चितः पुनः राजकीयक्षेत्रे सुशोभितः ।

धर्मसिंहमहोदयस्य सेवानन्तरम् अनुभावबलात् एस्.एम्.कृष्णः के.पि.सि.सि. अध्यक्षः अभवत् । क्रि.श.१९९९तमे वर्षे कर्णाटकविधानसभानिर्वाचने काङ्ग्रेस्पक्षः प्रचण्डबहुमतेन विजयम् अवाप्नोत् । एस्.एम्.कृष्णस्य नायकत्वे एव जयः प्राप्तः अतः सः एव मुख्यमन्त्री अभवत् । तदा सः पाञ्चजन्य कर्णाटकराज्यस्य प्रतिकोणं गत्वा काङ्ग्रेस्पक्षस्य विषये जनजागरणं कृतवान् । नेह्रू कुटुम्बस्य विषये निष्ठावान् देशस्य हिते आसक्तः च एस्.एम्.कृष्णः वेषभूषणविषये वैभवयुतः अस्ति । दीनदुःखितानां विषये विशेषः आदरः अस्य । कृष्णमहाभागस्य पिता एस्.सि.मल्लय्यः अपि राजकीयक्षेत्रे असीत् । सामान्यतः २७वर्षाणि मौसूरुप्रजाप्रतिनिधिसभायाः सदस्यः आसीत् । क्रि.श. १९३४तमे वर्षे महात्मना गान्धिमहोदयेन साक्षात् आशीर्वादं प्राप्तवान् । तादृशस्य कुटुम्बादागतः एस्.एम्.कृष्णः राजकीयक्षेत्रे सहजतया सुशोभितवान् । पूर्वं मण्ड्यप्रदेशः मैसूरुमण्डले एव अन्तर्गतः आसीत् । सर्वकारीयकार्यर्थं मण्ड्यजनैः मैरूरुनगरं गन्तव्यम् आसीत् । अतः मल्लय्यमहोदयः सङ्घर्षं कृत्वा मण्ड्यमण्डलं सर्जितं कारणिकः अभवत् । एतातृशस्य पितुः गुणस्वभावान् आत्मसात् कृत्वान् एस्.एम्.कृष्णमहोदयः । यदा एषः यत्रोद्यममन्ती आसीत् तदा सोमनहळ्ळिमध्ये यन्त्रागारां संस्थाप्य ग्रामीणजानेभ्यः उद्योगावाकाशं दत्तवान् । मद्दूरुपत्तने लघुविधानसौधं निर्मितवान् । पत्तने पानजलं सञ्चारमार्गः इत्यादीनि मूलसौकर्यानि प्रकल्पितवान् । प्रतिमासचतुष्ठयं ग्रामदर्शनं करोति स्म । एस्.एम्.कृष्णमहोदयः स्नेहजीवी । राजकीयात् प्राप्तस्यापेक्षया नष्टमेव अधिकम् । पित्रार्जितं ३०एकरे क्षेत्रं समाजासेवाव्वाजेन नष्टम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=एस्_एम्_कृष्ण&oldid=480045" इत्यस्माद् प्रतिप्राप्तम्