एप्रिल् मासस्य १७ दिनाङ्के अओलिम्पिकदीपदण्डेन नवदेहली प्राप्ता । राष्ट्रपति भवनतः भारतमुख्यद्वारप्र्यन्तं २.३ कि.मी.द्वरं यावत् अखण्डधावनेन स च दीपदण्डः नीतः । अस्मिन् कार्यक्रमे ७० क्रीडापटवः अन्ये गण्यश्च भागम् अवहन् ।

दीपद्ण्डनयनम्२००२ शीतकालीना ओलम्पिक् क्रीडा
लि निग्.
The Olympic Flame at the Opening Ceremony, Athens 2004 Games

इतः पूर्वं बीजिङ्ग्-ओलम्पिक् -अयोजनसमितेः उपाध्यक्षेण जियाङ्गयुवर्येण नेयदीपरुपेण रक्षितया ओलम्पिक् ज्वालया सह यात्रा कृता । तेन देहल्याः मुख्यमन्त्रिण्यै शीम

त्यै शीलादीक्षितवर्यायै इयं ज्वाला प्रदत्ता । तया प्रवर्तितः दीपदण्डः भारतीयोलिम्पिकमण्डल्याः अध्यक्षाय सुरेशकल्माडिवर्याय द्त्तः । अखण्डधावनस्य आरम्भः कृतः अओलिम्पिकक्रीडापटुना ‘डयमानः सिक्कः’ इति प्रसिद्धेन मिल्कासिङ्गवर्येणा । अखण्डधावनस्य अन्ते प्रसिद्धौ टेनिसपटू लियण्ड्रपेसः महेशभूपतिः च मिलित्वा भारतमुखद्वारे स्थापितायाः उखायाः ज्वालनम् अकुरुताम् । ततः दीप-दण्डः अग्रिमायाः यात्रायाः निमित्तं थायल्याण्डं प्रति नीतः । अस्य वर्षस्य अओलम्पिक् क्रीडायाः उद्धाटनकार्यक्रमावसरे बीजिङ्गप्रदेशं प्रति अयं दीपदण्डः यावत् प्राप्येत तावता तेन पञ्चसु खण्डेषु विद्यमानाः २१ राजधान्यः स्पृष्टाः भवेयुः । आहत्य १३७,००० कि.मी.दुरं (८५,०००मल्स्) तेन क्रान्तं भवेत् ।\

वन्कुवर्ओलम्पिक् ज्वाला

ओलिम्पक्ज्वालायाः उद्गमः जातः पुरातनक्रीडावसरे एव (क्रि.पू.७७६ क्रि.श. ३९३) एतस्याः ज्वालायाः प्रवर्तनं सूर्यरश्मीनां द्वारा ग्रीसदेशस्य ओलिम्पियाप्रदेशस्थे हेरामन्दिरे प्रधानार्चिकायाः आध्वर्यत्वे क्रियमाणे विधिपूर्वकामारोह क्रियते स्म । सा च प्रक्रिया २७०० वर्षेभ्यः अनन्तरं गते मार्चमासस्य २४ तमे दिनाङ्के पुनः आवृत्ता । अस्मिन् अवसरे ग्रीकदेशीया अभिनेत्री म्यारियान्फप्लिटो प्रधानार्चिकायाः पात्रं निरुढवती । सा हेरामन्दिरस्य पुरतः दीपदण्डे अग्निं संयोज्य तं दीपं ग्रीकक्रीडापटवे अलेक्साण्ड्रोसनिकोलायडिसाय अयच्छत् (चित्रं द्दश्यताम्) । ग्रीसदेशं परितः षण्णां दिनानाम् अखण्डधवनस्य अनन्तरं २००८ तमवेषस्य आतिथेयाय चिनादेशाय ज्वाला प्रदत्ता आधुनिकोलिम्पिक्क्रीडोत्सवाय ओलिम्पिक्ज्वाला ऐदम्प्राथम्येन १९२८ तमे वर्षे जाते अमस्टरडामक्रीडोत्सवे प्रवर्तिता । १९३६ तमे वर्षे बर्लीन् -क्रीडोत्सवे एव अखण्डधावनम् आरब्धम् । ओलिम्पियातः बर्लिनप्र्यन्तं दीप्दण्ड्स्य नयने ३००० धावकाः सहकारम् अकुर्वन् । अत्र उपयुज्यमानः दीपदण्डः चित्रायसा निर्मितः अस्ति । बर्लिन् १९३६ ज्वाला लन्दन् १९४८ ज्वाला

मेल्बोर्ने १९५६ ज्वाला रोम् १९६० ज्वाला तोक्यो १९६४ ज्वाला मेहिको १९६८ ज्वाला मुनिक् १९७२ ज्वाला इन्स्ब्रुक् १९७६ ज्वाला मोन्त्रेल् १९७८ t ज्वाला लक् प्लेसिड् १९८० ज्वाला मोस्कोव् १९८० ज्वाला सर्जेवो १९८४ ज्वाला Los Angeles १९८६ ज्वाला कल्गेरि १९८८ ज्वाला सिओल् १९८८ ज्वाला

अट्लन्टा १९९६ ज्वाला नगनो १९९८ ज्वाला सिद्नि २००० ज्वाला सोल्ट् लेक् २००२ ज्वाला अथेस् २००४ ज्वाला टुरिन् २००६ ज्वाला बैज़्ग् 2008 ज्वाला वेन्कुवर् ज्वाला लन्दोन् २०१२ ज्वाला सोचि २०१४ ज्वाला रिओ २०१६ ज्वाला

External links सम्पादयतु

फलकम्:Olympic symbols

"https://sa.wikipedia.org/w/index.php?title=ओलम्पिक्_ज्वाला&oldid=480062" इत्यस्माद् प्रतिप्राप्तम्