ओषधिः स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः। तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३,४७,००० विधाः ओषधयः जीवन्ति।[] ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन पर्णहरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।

वनस्पतिः/Plantae

जैविकवर्गीकरणम्
अधिजगत् Eukaryota
(अश्रेणिकृतः) Archaeplastida
जगत् (जीवविज्ञानम्) पादपाः
Haeckel, 1866[][सत्यापनम् आवश्यकम्]
उपविभागीयस्तरः

Green algae

Land plants (embryophytes)

Nematophytes

पर्यायपदानि
  • Chloroplastida Adl et al., 2005
  • Viridiplantae Cavalier-Smith 1981
  • Chlorobionta Jeffrey 1982, emend. Bremer 1985, emend. Lewis and McCourt 2004
  • Chlorobiota Kendrick and Crane 1997
ओषधीयसस्यवैविध्यम्

महाकविः कालिदासः रघुवंशे कथयति यत्, आयौ शेषे सत्येव ओषध्युपायः फलं यच्छति इति।

नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।

प्रतिक्रारविधानमायुषः सति शेषे हि फलाय कल्पते।।[]

अर्थात्, आयोः अवशिष्टे सत्येव ओषधिः फलप्रदा भवति।

विभागाः

सम्पादयतु
  • अल्गे - सरलाः लघुपादपाः
  • ब्रयोफैटा - शैवलादयः
  • प्टेरिडोफैटा - वहुपत्रकादयः
  • जिम्नोस्पर्मा - देवदारवादयः
  • अञ्जियोस्पर्मा - सपुष्पकाः

चित्राणि

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. Haeckel G (1866). Generale Morphologie der Organismen. Berlin: Verlag von Georg Reimer. pp. vol.1: i–xxxii, 1–574, pls I–II; vol. 2: i–clx, 1–462, pls I–VIII. 
  2. रॉयलबोटैनिकगार्डेन्स्, क्यू, २०२०, पृ॰ ८२ "विश्वस्य ओषधि-शैवालादिप्रजातेः वर्तमानस्थितिः (PDF)". 
  3. रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ४०
"https://sa.wikipedia.org/w/index.php?title=ओषधयः&oldid=461990" इत्यस्माद् प्रतिप्राप्तम्