कंसः
कंसः यदुवंशस्य उग्रसेनस्य पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः जरासन्धस्य पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं यमुनानदीं गता कामपरवशा पत्युः स्मरणं कृतवती । सहसा द्रुमिलः इति राक्षसः उग्रसेनस्य रूपेण आगत्य रतिसुखमनुभूतवान् । रतिलक्षणेन एषः उग्रसेनः न इति शङ्किता तेन वास्तववृत्तान्तं प्राप्तवती । तदा रोषात् भवतः दुर्वीर्येण जातेन यदुवंशजेन एव मृत्युं प्राप्नोतु इति शप्तवती । अनेन कारणेन कंसे आसुरी स्वभावः संवृद्धः । प्रप्ते तारुण्ये कंसः उग्रसेनं कारागारे अस्थापयत् । स्वयं राज्यं दौष्ट्येन प्रशासितुम् आरब्धवान् ।
Kansa | |
---|---|
Maharaja Kansa | |
Vasudeva and Devaki traveling in a carriage | |
कंस | Sanskrit |
जन्मस्थलम् | Mathura |
मरणस्थलम् | Mathura |
पूर्वराजः | Ugrasena |
उत्तराधिकारी | Ugrasena |
राज्ञी | two daughters of Jarasandha |
राजप्रासादः | Bhoja |
राजवंशः | Surasena or Yadu |
पिता | Ugrasena |
माता | Pawan Rekha |
धार्मिकविश्वासः | Hindu |
कृष्णजनम्
सम्पादयतुपितृव्यस्य पुत्र्याः देवक्याः विवाहं वसुदेवेन सह वैभवेन अकरोत् । नवदम्पत्योः सम्प्रेषणावसरे कंसः 'अस्याः गर्भजः शिशुः ते मृत्युः भविष्यति' इति अशरीरवाणीं श्रुतवान् । भीतः कंसः देवकीवसुदेवौ कारागारे स्थापितवान् । तयोः जाते सन्ताने कंसः तान् मारयति स्म:। एवं तयोः सप्तापत्यानि मारितवान् । वसुदेवदेवक्योः अष्टमे गर्भे श्रीकृष्णः अजायत । देववाणीम् अनुसरन् वसुदेवः तं शिशुं नन्दगोकुलस्य नन्दगोपस्य पत्न्याः यशोदायाः निकटं निक्षिप्य तया प्रसूतां कन्याम् आनीय देवक्याः समीपम् अस्थापयत् । देवक्याः स्त्रीजननम् अभवत् इति ज्ञात्वा कंसः खड्गपाणिः तत्रागतः । शिशुम् उपरि क्षिप्त्वा खड्गं प्रसारितवान् । किन्तु शिशुः तव मृत्युः नन्दगोकुले वर्धते इति उक्त्वा अदृश्यः अभवत् । अनेन कंसस्य भयं तापः कोपः च शतगुणिताः अभवन् ।
कंसवधः
सम्पादयतुकथञ्चिदपि कृष्णस्य हननं भवेदेव इति विचिन्तयन् कंसः बालकृष्णं मारयितुं पूतना, शकटः, धेनुकः, यमलार्जुनः केशी, इत्यादीन् चित्रविचित्रान् मायाविराक्षसान् सम्प्रेषितवान् । ते सर्वेऽपि क्षुद्राः बालकृष्णेन हताः । कृष्णे तारुण्ये आगते मन्त्रिणा अक्रूरेण बलरामं श्रीकृष्णं च मथुराम् आनायितवान् । कंसस्य राजभवनस्य प्रवेशद्वारे एव कुवलयपीडः इति मत्तगजं कृष्णबलरामयोः वधार्थम् अत्यजत् । कृष्णः गजं हत्वा बलरामेण सह कंससभां प्राविशत् । तत्र आत्मनः वधार्थं सिद्धौ चाणूरमुष्टिकौ मल्लयुद्धेन संहार्य कंसवधं कृतवन्तौ । पश्चात् श्रीकृष्णः उग्रसेनं पुनः सिंहासने उपावेशितवान् ।