कटकचण्डीमन्दिरम्
इतिहास:
सम्पादयतुमरहट्टाशासनकाले बारबाटीदुर्गपरिसरे कटकचण्डी इत्यस्या: मूर्तिः पूज्यते स्म । १५६८ तमे वर्षे कृष्णपर्वताक्रमणकाले ततः देवीविग्रहं निष्कास्य दुर्गस्य दक्षिणदिशि किञ्चित् दूरे पूजा प्राप्ता। अयं प्रदेशः पश्चात् कनिकारा़जशासनाधीन: आसीत् । अधुना चण्डीमन्दिरविषये एका आख्यायिका अस्ति । तदनुसारं शेखबजारक्षेत्रस्य निवासी गोपालचन्द्रबेहेरा बारबाटीदुर्गस्य शिलानाम् उपरि उपविष्टः आसीत् । तदा ताः शिलाः कम्पितुं आरब्धाः। तस्याम् रात्रौ सः स्वप्नं दृष्टवान् यत् चण्डी तत्र अस्ति इति। अतः परस्मिन्दिने सः शिलाराशिं खनित्वा देवीविग्रहम् उद्धारितवान् । देवीविग्रहं शिरसि वहन् वर्तमानस्य पीठस्य समीपं नीतवान् । तदा विग्रहस्य भार: अधिक: जात: । अतः सः तं विग्रहं तत्रैव स्थापितवान् ।
पौराणिककथा
सम्पादयतुसहस्रवर्षपुरातनं कटकनगरम् । ओडिशायाः पुरातनराजधानी । ऐतिहासिकस्य कटकनगरस्य कलासंस्कृतेः प्राणकेन्द्रं च अध्यक्षदेवता इति प्रसिद्धा 'कटकचण्डी' । 'चण्डीच्छक' इति नाम्ना प्रसिद्धस्य स्थानस्य अनतिदूरे प्रायः त्रिंशत् पादपरिमितम् ऊर्ध्वं संगमरवरेण आच्छादितं मन्दिरं 'कटकचण्डी' इति नाम्ना स्थितमस्ति ।
पर्वाणि
सम्पादयतुदशहरायां कालिपूजायां च षोडशोपचारेण च कटकचण्ड्याः नीतिपालनं क्रियते । पणासंक्रान्त्यां मातुः सुनाबेशः आचर्यते ।:-
"प्रसन्नवदने चण्डि चण्डासुर विमर्दिनि,
संग्रामे विजयं देहि शत्रून् जहि नमोऽस्तुते ॥'