कथालक्षणम्
कथालक्षणग्रन्थस्य रचयिता मध्वाचार्यः भवति। कथालक्षणग्रन्थः प्रमाणानां शास्त्रचर्चादिविवरणं ददाति। शास्त्रचर्चायाः स्वरूपम्, चर्चायाः ये भागं वहन्ति तेषाम् अर्हता, उद्देश्यम्, फलश्रृतिः इत्यादयः विषयाः अन्तर्भूताः। शास्त्रचर्चा त्रिधा, वादजल्पवितण्डा इति। गुरुशिष्ययोः या चर्चा भवति सा चर्चा वादः इति। विचारान् ज्ञातुम् उद्युक्तः भवति शिष्य़ः, गुरुः शिष्याय समाधानं ददाति। तत्वनिर्णयः एव फलं भवति।उभयोः पण्डितयोः यदा स्पर्धा भवति चेत् तदपि प्रख्यातय एव भवति चेत् जल्पः भवति। अस्मिन् स्वपक्षस्थापनम् एवं परपक्षनिराकरणम् उभयमपि भवेत्। यदा योग्यायोग्ययोः यदा चर्चा भवति सा वितण्डा भवति। अस्मिन् स्वपक्षस्य स्थापनस्य आवश्यकता नास्ति। प्रतिवादः तत्त्वज्ञानाय अनर्हः भवति। परपक्षखण्डनमेव लक्ष्यं भवति। प्राश्निकाः, निर्णायकाः, उत्तमविद्वांसः, रागद्वेषरहिताश्च भवेयुः। ब्रह्मतर्कस्य आधारेणैव कथालक्षणस्य रचना जाता इति। बृहदारण्यकभाष्यस्य सम्बन्धितनि ब्रह्मतर्कवचनान्येव निरूपितानि। अस्य ग्रन्थस्य वैशिष्ट्यं सुमध्वविजये निरूपितम् अस्ति।
- कथालक्षणाय श्री पद्मनाभतीर्थस्य, श्री जयतीर्थस्य च टीकाविद्यते।
- श्री जयतीर्थस्य टिकायाः कृते श्री वेदेशतीर्थस्य, श्री राघवेन्द्रतीर्थस्य, बिदरहळ्ळि श्रीनिवासतीर्थस्यच व्याख्यानानि लभ्यन्ते।