पूर्णसरस्वती महोदयेन विरचितं नाटकं भवति कमलिनीराजहंसम् । पञ्चभिः अङ्कैः उपनिबद्धम् अस्ति इदं नाटकम् । राजहंसस्य, पम्पासरसि वर्तमानायाः कमलिन्याः च परस्परानुरागः एव नाटकस्य कथातन्तुः । यद्यपि मत्तः गजः प्रतिनायकरूपेण आगच्छति तथापि सरसि वर्तमानानां नक्राणां साहाय्येन सः पलायितः । पुनः राजहंसस्य ब्रह्मलोकगमनावसरे कालमेघः स्वानुचरेण पुरोमारुतेन साकं कमलिनीं जलाभ्यन्तरे बन्दीकरोति स्वसुहृदं मयूरं विहगराजपदव्यां अभिषेक्तुं यतते च । तथापि शरदः शापेन कालमेघः विनष्टः । एवं कमलिन्याः राजहंसस्य च पुनः समागमः भवति । इदं नाटकं केरलसर्वकलाशालातः १९४७ तमे संवत्सरे सम्पादितम् ।

कमलिनीराजहंसम्
सरस्वती
सरस्वती

"https://sa.wikipedia.org/w/index.php?title=कमलिनीराजहंसम्&oldid=470659" इत्यस्माद् प्रतिप्राप्तम्