आयोधनप्रधानं केरलीयकलारूपं भवति कलरिप्पयट्ट् । अस्य अनुष्ठानेन मानसिकं शारीरिकं च आरोग्यं वर्धयितुं शक्यते । "खळूरि" इति संस्कृतपदस्य तद्भवं भवति कलरि इति । कलरिप्पयट्ट् एकं प्राचीनं तथा प्रसिद्धं आयोधनकलारूपं भवति। अस्यां पद्धत्याम् ईषद्विशेषेण विविधाः विभागाः दृश्यन्ते। कालीस्तवरूपेषु कालिप्पाट्ट् गानेषु कलरिकलारूपाण्यधिकृत्य सूचनाः उपलभ्यन्ते। कलरिप्पयट्ट् न केवलं आयोधनप्रधानम् अपि तु कलाप्रधानं च । अस्याः कलायाः प्रभावः कोल्कलि, पूरक्कलि इत्येवमादिषु कलारूपेषु अपि द्रष्टुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=कलरिपयट्ट्&oldid=388589" इत्यस्माद् प्रतिप्राप्तम्