इदानीं भारते अपि वर्धमानः कश्चन धान्यविशेषः कलायः । अयं कलायः अपि सस्यजन्यः आहारपदार्थः । अयं कलायः आङ्ग्लभाषायां Peanut (Groundnuts) इति उच्यते । प्रायः अस्य कलायस्य मातृभूमिः अन्यः एव कश्चन देशः स्यात् । विदेशीयैः सह नौकया भारतं प्रविष्टः स्यात् । यतः अद्यतने जगति बहुविधेन चिरपरिचितस्य अस्य कलायस्य प्राचीनेषु आयुर्वेदग्रन्थेषु कुत्रापि उल्लेखः न दृश्यते । संहिताकाराः, कोषकाराः वा कलायस्य स्पर्शम् एव न कृतवन्तः इव भाति । इदानीन्तनाः केचन आयुर्वेदस्य ग्रन्थकर्तारः अस्य परिगणनां कृतवन्तः सन्ति । एषः “भूचणकः” इति अपि उच्यते । “निर्धनानां वातामम्” इत्येव प्रसिद्धः अस्ति कलायः । तन्नाम वातामे विद्यमानाः पौष्टिकांशाः एव कलाये अपि सन्ति इति अर्थः । कलायः समययापनार्थं प्रायः सर्वत्र अपि उपयुज्यते, “टैम्पास् खाद्यम्” इत्येव प्रसिद्धः अस्ति । कलायं पक्वं कृत्वा, भर्जयित्वा, तथैव चापि खादन्ति । कलायः क्वथिते, व्यञ्जने, चित्रान्ने, आम्लान्ने (पुळियोगरे), पौलौ च उपयुज्यते । तेन उपसेचनचूर्णं, “चिक्कि” इत्याख्यं मधुरविशेषं च निर्मान्ति ।

कलायः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
उपकुलम् Faboideae
ट्राइबस् Dalbergieae
वंशः Arachis
जातिः A. hypogaea
द्विपदनाम
Arachis hypogaea
L.
उपविभागीयस्तरः
  • subsp. fastigiata Waldron
    • var. aequatoriana Krapov. & W. C. Greg
    • var. fastigiata (Waldron) Krapov. & W. C. Greg
    • var. peruviana Krapov. & W. C. Greg
    • var. vulgaris Harz
  • subsp. hypogaea L.
    • var. hirsuta J. Kohler
    • var. hypogaea L.
कलायाः
त्वक्सहितः कलायः
सस्ये लम्बमानाः कलायाः
भर्जिताः कलायदालाः

अस्य कलायस्य स्वभावः सम्पादयतु

एषः कलायः अपि किञ्चित् द्विदलयुक्तं धान्यम् । पौष्टिकः आहारः अयं पचनार्थं जडः । मलस्य मूत्रस्य च स्तम्भकः । वात-पित्तकरः अपि किञ्चित् प्रमाणेन ।

मार्गपार्श्वे कलायानां शुष्कीकरणम्
१. यद्यपि कलायः “निर्धनानां वातामं” तथापि गर्भवत्यः अस्य उपयोगं न कुर्युः । वातामं तु गर्भवतीनाम् अपि उत्तमम् एव ।
२. मितिम् अतिक्रम्य सेवनेन पित्तम् अधिकं भवति । तेन पित्तकारणेन वमनम् अपि भवेत् ।
३. कलायः किञ्चित् प्रमाणेन वातकरः चेत् अपि कलायस्य तैलं वातहरम् अस्ति ।
४. कलायस्य तैलं विभिन्नेषु पाकेषु उपयुज्यते । तेन पाकस्य रुचिः वर्धते ।
५. कलायस्य तैलेन सह हरिद्रां योजयित्वा लेपनेन कण्डूयनं न्यूनं भवति ।
६. कलायस्य तैलं त्वक्दूषकं चेदपि कुत्रचित् चर्मरोगे अपि (Psoriasis) उपयुज्यते ।
७. कलायस्य स्तम्भकगुणः तैले अपि अस्ति एव । अतः तादृशी कापि समस्या अस्ति चेत् तैलस्य अपि उपयोगः न करणीयः ।
८. कलायस्य द्वयोः दलयोः मध्ये विद्यमानम् अङ्कुरं निष्कास्य उपयुज्यते चेत् वातपित्तदोषः निवारितः भवति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कलायः&oldid=482792" इत्यस्माद् प्रतिप्राप्तम्