कलायोत्सवः
कार्तीकमासस्य अन्तिमे सोमवासरे कर्णाटकराज्यस्य बेङ्गलूरुनगरस्य "सुङ्केनहल्लि" इति नाम्ना परिचिते "बसवनगुडी"प्रदेशे परम्परानुसारेण कलायोत्सवः प्रतिवर्षं प्रचलति। ’बसवनगुडि’ नाम ’वृषभमन्दिरम्’ इति । अत्र वृषभस्य महान् देवालयः अस्ति । एतस्मिन् अवसरे अस्मिन् विशाले वृषभमन्दिरे वृषभस्य विशेषपूजां पुष्पालङ्कारं च कृत्वा सर्वेभ्यः भक्तेभ्यः निःशुल्कं कलायान् प्रसादरूपेण यच्छन्ति । देवालयस्य प्राङ्गणे एव प्रसादसेवनं वराय इति भक्तानां विश्वासः अस्ति । एतस्मात् पूर्वं, देवालयस्य पुरतः विशेषेण निर्मिते मण्डपे साङ्केतिकरूपेण कलायानां तुलनां कृत्वा भक्तेभ्यः संविभज्यन्ते । बेङ्गलूरुजनाः सङ्गणकतन्त्रज्ञानक्षेत्रे उच्चस्थाने सन्तः अपि स्वसम्प्रदायान् सम्यक् आचरन्ति ।
व्युत्पत्तिः
सम्पादयतुकडलेकायि परिषे इत्येषः कन्नडभाषाशब्दः यस्य अर्थः भवति कलायोत्सवः इति । [[कलायोत्सवः [१]
मनोरञ्जनकार्यक्रमाः
सम्पादयतुउत्सवे अस्मिन् न केवलं कलायानां विपण्यः अपि च दोला, बृहत्-चक्रक्रीडा इत्यादीनि अपि भवन्ति। उत्सवे केचन भक्तिभावेन, केचन क्रीडादिभिः च हर्षम् अनुभवन्ति । अन्ये केचन अभरणानां, मेलायां विशेषेण उपलभ्यमानानां वस्तूनां क्रयणकार्ये मग्नाः भवन्ति । बेङ्गलूरुनगरं परितः स्थिताः कलायकृषकाः स्वस्वकलायकृषिं बसवदेवाय (वृषभदेवाय) समर्प्य श्रमस्य फलं प्राप्तुं मार्गाणां पार्श्वे कलायराशिं स्थापयित्वा विक्रयणं कुर्वन्तः भवन्ति।
पौराणिकीकथा
सम्पादयतुबेङ्गलूरुनगरस्य बसवनगुडिप्रदेशं परितः होसकेरेहल्लि, गुट्टाल्लि, मावल्लि, दासरहल्लि इत्यादयः ग्रामाः आसन् । एतेषु सर्वेषु प्रदेशेषु कलायस्य एव कृषिः क्रियते स्म । प्रति पौर्णिमायां वृषभः आगत्य कृषिकाणां श्रमेण प्रवृद्धान् कलायान् खादन्ति स्म। एकदा जागृताः कृषिकाः तं वृषभं ग्रहीतुं प्रयत्तवन्तः । किन्तु सः वृषभः वेगेन धावित्वा एकस्य गिरेः उपरि अदृश्यतां गतः । अनन्तरं गिरौ शिलारूपं प्राप्य स्थीतं तं वृषभं दृष्ट्वा कृषिकाः आश्र्चर्यचकिताः अभवन् । न केवलं तावत् । अग्रे सः शिलावृषभः बृहदाकारेण वर्धितः । एषः शिलावृषभः अत्रत्यः महान् वृषभः (बसवः) । अस्त्रैः ये जनाः वृषभं प्रहृतवन्तः आसन् ते इमं शिलावृषभं दृष्ट्वा चकिताः अभवन् । ईश्वरस्य वाहनं नन्दिः एव एषः वृषभः इति मत्वा भक्त्या नमस्कृतवन्तः। ईश्वरः अस्माकं रक्षणाय एव स्वस्य वाहनं प्रेषितवान् अस्ति इति चिन्तितवन्तः। तं पूजितुम् आरब्धवन्तः । वृषभः स्वस्य प्रियं कलायं खादति स्म । वयं तत् स्थगयितुं वृथा प्रयत्नं कृतवन्तः इति पश्चात्तापम् अनुभूतवन्तः। तदर्थं प्रथमं कररूपेण तस्मै कृषिं समर्प्य विक्रयणम् आरभ्यन्ते । ईश्वरः एव कृषिं रक्षति इति विश्वसन्ति । तस्य देवालयम् अपि निर्मितवन्तः । अनन्तरं १५३७ तमे वर्षे बेङ्गलूरुनगरनिर्मार्त्रा केम्पेगौडमहोदयेन दक्षिणभारतशैल्या मन्दिरस्य पुनर्निर्माणं कृतम् । अतः प्रतिवर्षम् अन्तिमे कार्तीकसोमवासरे कृषकाः कलायानां राशिम् अत्र स्थापयन्ति। बसवं (वृषभं) "यावत् इच्छति तावत् खादतु " इति प्रार्थयन्ति । एषः सम्प्रदायः बहुभ्यः वर्षेभ्यः आचर्यते । भक्ताः अपि कलायान् क्रीत्वा वृषभाय समर्पयन्ति । [२]एषः शिलावृषभः वर्धमानः एव भवति स्म । अतः तस्य शिरसः उपरि एकं कीलं स्थापितवन्तः। तदनन्तरं तस्य वर्धनं स्थगितम् । सः कीलः त्रिशूलरूपेण अस्ति ।[३]
विविधेभ्यः प्रदेशेभ्यः कलायः
सम्पादयतुचिन्तामणी, श्रीनिवासपुरः, कोलारः, चिक्कबल्लापुरः,मागडी, मण्ड्य, मैसूरु, तुमकूरु, कुणिगल् - एवं विविधैः भागैः कृषकाः कलायान् आनयन्ति । तमिलुनाडु, अन्ध्रप्रदेशराज्यस्य कृषकाः अपि अस्मिन् उत्सवे भागं वहन्ति । उत्सवं प्रति आगताः सर्वे अपि जनाः किञ्चित् वा कलायान् क्रीणन्ति । एतेन कृषिकाः लाभान्विताः भवन्ति ।
काव्येषु उल्लेखः
सम्पादयतुशतावधानिना रा गणेशवर्येण रचिते ऋतुकल्याणम् इति काव्ये कलायोत्सवस्य उल्लेखः कृतः दृश्यते । यथा -
बसवनगुडिकेन्द्रे नन्दिनो मन्दिराग्रे
प्रतिशरदमुपात्तं कान्त कालाय्यपर्व ।
अनुभव नगरेऽपि ग्रामसीम्नः प्रमोदं
त्वमहमिव सुधारुट्साक्षिकं च प्रकामम् ॥
अलमलमयि कृत्वा श्लाघनं पर्वणोऽस्य
प्रतिमुहुरतिवेलं दूषितं निर्मलत्वम् ।
जनपद इव नेत्रा दूरदृष्टिच्युतेन
प्रकटपरिसरेऽस्मिन् स्फूर्जितेन क्षणेन ॥
भर्जितानां कलादानां समुद्गं पाणिना वहन् ।
अट क्षणे मया सार्थं स्मारयं बाल्यविक्रमम् ॥
कलायोत्सवः कोषमोषोत्सवाख्यां
वहत्येव मुग्धे क्वबाल्यस्मृतिस्ते ।
मिलद्बालका अत्र लुण्टाकलीलाः
खलन्तीत्यलं विस्तरेणप्रणीय ॥[४]
सम्बद्धाः लेखाः
सम्पादयतु
उल्लेखाः
सम्पादयतु- ↑ http://www.karnataka.com/festivals/groundnut-festival.html
- ↑ "कलायोत्सवः".
- ↑ सर्वजनतोषकः कलायोत्सवः
- ↑ आर् गणेशः, शतावधानी (2020). ऋतुकल्याणम्. p. 67.