काडुकुरुबजनाङ्गः
काडुकुरुब भलकः।
जन्म मैसूरुमण्डलस्य
काडुकुरुबजनाङ्गः
काडुकुरुब भलकः।
काडुकुरुब भलकः।

काडुकुरुबजनानां वासस्थानानि सम्पादयतु

पर्वतवासिनः एते वेत्रेण, वंशेन वा कण्डोलं, शूर्पं च निर्मान्ति । अतः एतान् प्रादेशिकभाषया बेट्ट अथवा बेत्त अथवा काडुकुरुब इति आह्वयन्ति । मैसूरुमण्डलस्य नञ्जनगूडु, पिरियापट्टण, हुणसूरु, हेग्गडदेवनकोटे इत्यादिषु उपमण्डलेषु, चामराजनगरमण्डलस्य गुण्ड्लुपेटे उपमण्डले च एते दृश्यन्ते । एतेषां वसतिप्रदेशं ‘हाडि’ इति आह्वयन्ति । वामनं, लघुं च कुटीरं जलसौकर्यस्थानेषु निर्मान्ति ।

सामाजिकव्यवस्था सम्पादयतु

एतेषु १८ कुलानि सन्ति । एतानि ‘सालु’ इति वदन्ति । एतेषाम् आराध्यदैवं हाडिसमीपे कुत्रचित् कुटीरे स्थापयन्ति । भूत-पिशाचादिषु अधिकः विश्वासः इति कारणेन तेभ्यः नियततया नारिकेलं, कदलीफलं, धनं, कुक्कुटं च दत्त्वा पूजां कुर्वन्ति । एतेषां कन्नडभाषायां तमिळु-मलयाळशब्दाः अपि भवन्ति। तथापि एषा स्वतन्त्रा विशिष्टभाषा इव भासते ।

"https://sa.wikipedia.org/w/index.php?title=काडुकुरुबजनाङ्गः&oldid=401330" इत्यस्माद् प्रतिप्राप्तम्