कान्तिः
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
बन्धस्यात्युज्जवलत्वं कान्तिरुच्यते । विमलविचित्रायतवर्णावृत्तिमृदुलावचनरचना कान्तिरिति नरसभूपालीयकर्तुराशयः । दण्डी लौकिकार्थाश्रयणत्वं कान्तिरित्यवोचत् । अस्याः अभावे काव्यं पुराणचित्रस्थानीयं भवेत् । यथा –
- जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
- क्षेणीरेणुभरे नभस्यपि भृशं भूविभ्रमं बिभ्रति ।
- जातामर्त्यनदी विशङ्कटतटीदीर्घावियद्दीर्घिका
- गाढं गूढतमा च गौतमनदी पातालगङ्गायते ॥