जयशंकर प्रसादः हिन्दीभाषायां छायावाद इति नाम्नायाः साहित्यिकीपरम्परायाः एकः प्रमुखः कर्णधारः आसीत्। 1936 तमे वर्षे प्रकाशिता तस्य कृतिः कामायनी इति आधुनिकीहिन्दीभाषायाः एकः महत्त्वपूर्णः महाकाव्यः मन्यते। अस्मिन् ग्रन्थे जलप्लावनप्रलयोः उपरान्तं मानवसृष्टेः पुनर्विकासस्य कथा विद्यते। कथायाः प्रमुखाः पात्राः वैवस्वत-मनुः श्रद्धा, इडा च सन्ति।[]

काव्यारम्भे प्रलयोपरान्तं मनुः एकस्मिन् पर्वतशिखरे सीदितः आसीत्। चिन्ताग्रस्तः स विनाशम् अवलोकयति स्म अपि च तस्य कारणानां विश्लेषणं करोति स्म।

किञ्चित् समयोपरान्तं प्रकृतिः स्वस्य पुनर्निर्माणं प्रारभत्। मनुः विस्मृतः अभवत् इदं दृष्ट्वा। स्थितिरियं आशाप्रदा आसीत्। परन्तु मनुः क्लान्तः हतोत्साहः लक्ष्यहीनश्च प्रतीयते स्म।

एकस्मिन् दिवसे एका युवती तत्र आगच्छत् यत्र मनुः निवसति स्म। तस्या नाम श्रद्धा। मनुं क्लान्तः दृष्ट्वा सा तस्मै प्रेरयितुं अवोचत्, "निराशां त्यज, आशावादी भव, विनाशस्थितौ अपि ईश्वरस्य महती कृपा वर्तते। संसृतेः पुनर्जन्मस्य प्रवर्तकः भवितुं शक्यः त्वम्।"

मनुः श्रद्धायै प्रति आकृष्टः कामभावनायुक्तः च अवर्तत। उभौ युवानौ, तस्य मनसि तस्यै प्रति समन्वयस्य आकांक्षा प्रबला जाता। प्रेमकलायाः संदेशवाहिनी स ताम् अमन्यत।

कामभावनायाः तीव्रं रूपं वासना। मनोः मनसि वासना उद्भूता। स उत्तेजितः, तस्य वक्षः अशान्तः, तस्य हृदयः अधीरश्च जातः। स श्रद्धायै तस्य प्रेमाग्रहम् अवदत्।

श्रद्धा नारी, अतः तस्यै लज्जा स्वाभाविकीप्रतिक्रिया। स्पर्शे संकोचः, दर्शने नयननमनम् अन्वभवत् सा। तस्याः कपोलौ रक्तवर्णौ, मनः व्यथितश्च जातः।

एकदा द्वयोः तान्त्रिकयोः कुप्रेरणया मनुः श्रद्धाया: प्रियमृगशिशुं तस्याः अनुपस्थितौ हत्वा यज्ञे बलिरूपे प्रयुक्तवान्। पुनरागमने श्रद्धा तं प्राताडयत्। तस्मै इत्थं प्रेरकवचनानि च अवदत् "अन्यान् सुखीकरोतु, मुदितः भूयात्, स्वयं सुखी भूयात्। स्वसुखं विस्तारयतु यस्मिन् अन्येषां सुखम् आवृत्तं भवेत्।" परन्तु मनुः तस्याः उपदेशं अस्व्यकरोत्, तां रति कर्मे च अपादयत्।

श्रद्धा गर्भवती अभवत्। मनुः वनं गत्वा भोजनाय पशून् मृगयति स्म। श्रद्धा ताभ्यां गर्भस्थशिशवे च एकस्याः कुट्याः निर्माणं प्रारभत्। शिशोः आगमने श्रद्धायाः स्नेहः अंशयिष्यति उभयोर्मध्ये इति चिंतयन् मनोः मनसि ईर्ष्या उत्पन्ना अभवत्। क्रुद्धः स श्रद्धाम् सहसा अत्यजत् अपागच्छत् च।

कस्मिंश्चित् काले यत्रतत्र व्रजणोपरान्तं मनुः एकं नगरम् आपयत् यदपि जलप्लावने खिलीकृतम् आसीत्। एका राजकन्या नगरस्य शासिका आसीत्। तस्याः नाम इडा। सा सौन्दर्यवती विदुषी चासीत्। सा मनुं तस्याः नगरस्य पुनर्निर्माणाय न्यमन्त्रयत्।

मनुः निपुणः योजनाकार आसीत्। तेन सुयोजनाभिः एकं कुशलराज्यं स्थापितम्, प्रशासननीतयश्च निर्धारिताः। तस्य साफल्यं मनोः मनः प्रादूषयत्। स स्वयं राज्यस्य सर्वेषां भोगानां स्वामी, तेषाम् अनियन्त्रितोपयोगस्य अधिकारी च अमन्यत्। स इडाम् अपि अभ्यलषत् प्रेयसीरूपे परन्तु सा तस्य प्रस्तावं निरस्त्र्यकरोत्। क्रुद्धः स अघोषयत्, "इडे, यत् किमपि अहं कामये तद् मम भवेत्। तवोपरि च मम अधिकारः भूयात्, अन्यथा अहं प्रजापतिः वृथया एव।" इदं उक्त्वा स बलप्रयोगेन तां स्ववशीकर्तुं तत्परः अवर्तत। परन्तु सौभाग्येन इडायाः कतिपयाः स्वामिनीभक्ताः नागरिकाः ससमयं तत्र आगच्छन्, मनुम् प्रति आक्रमणं च अकुर्वन्। मनुः निपुणः योद्धा आसीत्। संघर्षे स अनेकान् जनान् अहन्यत। परन्तु देवाः क्रुद्धाः जाताः, दिव्यहस्तक्षेपेण स भूमौ अचेतनः अपतत्। उदारमना इडा तम् अक्षाम्यत्, अचेतनस्य तस्य रक्षां च अकरोत्।

मध्या कतिपयदिवसाः पूर्वे एव श्रद्धा इयं घटनां दुःस्वप्ने अपश्यत्। चिन्तिता सा किशोरपुत्रेण सह मनुं गवेषयितुं यत्रतत्र आटत्। कस्मिंश्चित् समये सा तत्र आगच्छत् यत्र अचेतः मनुः भुवि पतन् आसीत्।

श्रद्धायाः सश्रद्धसेवया निर्वेदः मनुः पुनः सचेतः अवर्तत। श्रद्धायै प्रति स कृतज्ञतां प्रकट्यकरोत्। परन्तु तस्य मस्तिष्के अस्थैरत्वम् आसीत्। स पुनः गृहस्थजीवने प्रवेशे न रुचिकरः आसीत्। तद्रात्रौ यदा सर्वे सुप्ताः आसन्, स एकदा पुनः ततः पलायत्।

प्रातःकाले श्रद्धा पुत्रं इडायाः संरक्षणे स्थापयित्वा पुनः मनुम् अभिवेत्तुं परायत्। शीघ्रमेव सा सफला जाता, मनुः ग्लानिं प्रकट्यकरोत्। देवाः प्रसन्नाः अवर्तन्त श्रद्धायाः भक्तिभावेन। प्रकृतौ शुभशाकुनानां दर्शनम् आविरभवत्। मनोः मनसि परिवर्तनम् अभ्यवर्तत, अध्यात्मे तस्य रुचिः अजाग्रत् च। स श्रद्धाम् अभ्ययाचत् तं तत्र नयनार्थं यत्र देवाः रमन्ते।

श्रद्धा मनुं हिमालयं अनयत्। प्रकृतेः रहस्येन मोदयन्तौ उभौ प्रभूतकालाय व्यचरताम्। अन्ततः एकस्मिन् स्थले उभौ अतीव शान्तिं आध्यात्मिकसुखं दिव्यानुभूतिं च अन्वभवताम्, तत्रैव वसितुं स्व्यकुरुताम् च।

शीघ्रम् इयं वार्ता प्रसिद्धा जाता निकटस्थेषु सुदूरेषु च स्थलेषु यत् हिमालयक्षेत्रे एकस्मिन् स्थाने एकः दम्पती निवसति दिव्यशान्ततया आध्यात्मिकानन्देन सह च। इडा अन्ये च अनेके जनाः तयोः दर्शनार्थं तत्र अगच्छन्। मनुः श्रद्धा च इडायाः सहर्षं स्वागतम् अकुरुताम्। यत्र उभौ निवसतः स्म तत्स्थानस्य सौन्दर्यशान्ततयोः विवरणेन सह कथाकाव्यं समापयति।

महाकाव्ये अस्मिन् पञ्चदश अध्यायाः। प्रत्येकस्य अध्यायस्य नाम विविधमानसिकस्थितौ आधृतः। तेषां सूची इयम् अस्ति -- चिन्ता, आशा, श्रद्धा, कामः, वासना, लज्जा, कर्मन्, ईर्ष्या, इडा, स्वप्नं, संघर्षः, निर्वेदः, दर्शनं, रहस्यम्, आनन्दः च।

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भा:

सम्पादयतु
  1. "कामायनी". 
"https://sa.wikipedia.org/w/index.php?title=कामायनी&oldid=476418" इत्यस्माद् प्रतिप्राप्तम्