काव्यसमीक्षणम्
काव्यसमीक्षणं सामान्यतः काव्यवस्तुनश्चतस्र आश्रयभूमयः पुराणानि, इतिहासः, जनश्रुतिः, कविकल्पना च । यानि खलु पौराणिक कथामाश्रित्य प्रणीतानि तानि पौराणिककाव्यानि, यानि च ऐतिहासिकाधारेण प्रणीतानि तानि ऐतिहासिकानि, यानि च जनश्रुत्याधारेण विरचितानि तानि जनश्रुतिकाव्यानि, यानि च कविकल्पनोभूतवस्त्वाधारेण प्रणीतानि तानि काल्पनिकानि काव्यानि भवन्ति ! यद्यपि पौराणिकादौ काव्येऽपि कल्पनायाः प्राधान्यं भवत्येव तथापि गणनैषा कथावस्तुमात्राश्रया । तानि च पुनः समालोचकैः स्वरूपतः देवकाव्ययमककाव्य-श्लेषकाव्यादिभेदेनापि बहुशो भेदितानि ।। । पौराणिकानि खलु काव्यानि पाणिनेजम्बवतीविजयः, व्याडेः बालचरितं, कात्यायनस्य स्वर्गारोहणं, पतञ्जलेर्महानन्दमयं, कालिदासस्य रघुवंशः कुमारसम्भवं च, कुमारदासस्य जानकीहरणं, भारवेः किरातार्जुनीयं, बाणस्य हर्षचरितं, भट्टिकवेः रावणवधं, माघस्य शिशुपालवधं, श्रीहर्षस्य नैषधीयचरितञ्चेतिप्रभृतीनि ।
ऐतिहासिककाव्येषु हि वाक्पतिराजस्य गौडवधं ( गउडवहो ) शिवस्वामिनः कप्फणाभ्युदयः, पद्मगुप्तस्य नवसाहसाङ्कचरितं, बिल्हणस्य विक्रमाङ्कदेवचरितं, कल्हणस्य राजतरङ्गिणी, जल्हणस्य सोमपालविजयः, हेमचन्द्रस्य कुमारपालचरितं, सोमेश्वरस्य कीतिकौमुदीकाव्यं, अरिंसिंहस्य सुकृतकीर्तनं, बालचन्द्रस्य वसन्तविलासः, नंयनचन्द्रस्य हम्मीरमहाकाव्यं, चन्द्रशेखरस्य सुर्जनचरितं, राजनाथस्य अच्युतराजाभ्युदयं, गङ्गादेव्या मधुराविजयं, वीरकम्परायचरितञ्च, सन्ध्याकरनन्दिनो रामपालचरितं, चण्डकवेः पृथ्वीराजविजयं, शम्भुकवेः राजेन्द्रकर्णपूरः, सर्वानन्दस्य जगदूचरितं, राजनाथस्य सालुवाभ्युदयं, रुद्रकवेः राष्ट्रौढवंशमहाकाव्यम्, यज्ञनारायणस्य रघुनाथभूपविजयः, परमेश्वरशिवद्विजस्य श्रीरामवर्ममहाराजचरितं, शङ्करलालस्य रावजीराजकीतिविलासः, नागराजस्य भारतीयदेशभक्तचरितं, दिलीपदत्तस्य मुनिचरितामृतं, मथुरानाथस्य जयपुरवैभवं, मथुराप्रसादस्य प्रतापविजयम्, द्विजेन्द्रनाथस्य स्वराज्यविजयम्, सत्यव्रतस्य गोविन्दसिंहमहाकाव्यं चेत्यादीनि सन्ति प्रसिद्धीनि समुल्लेखनीयानि ।
जनश्रुतिमूलककाव्येषु प्रायो गद्यसाहित्यमेवं दृश्यते । तेषु सुबन्धोवसवदत्ता, बाणस्य कादम्बरी, दण्डिनो दशकुमारचरितञ्चेत्यादीनि प्रसिद्धानि । एवमेव गुणाढयस्य बृहत्कथा, सोमेश्वरस्य कथासरित्सागरः, क्षेमेन्द्रस्य बहत्कथामञ्जरी च । बहत्कथामञ्जरी च ।।
कल्पनामूलकेषु मेघदूत-ऋतुसंहारप्रभृतीनि लघुकाव्यान्येव दृश्यन्ते ।
एवमेव देवकाव्येषु स्वाभीष्टदेवयशो वय॑ते पुण्यलोभेन, एतादृशेषु काव्येषु उत्प्रेक्षावल्लभस्य भिक्षाटनकाव्यं, नीलकण्ठस्य शिवलीलार्णवः, जयरथस्य हरचरितचिन्तामणिः, लोलिम्बराजस्य हरिविलासकाव्यं, वेदान्तदेशिकस्य यादवाभ्युदयं, चेतिप्रभृतीनि काव्यानि गृहीतानि । अत्रेदमवधेयं यद्देवमहिमवर्णनपरकाण्यपि काव्यानि यदि कवित्वप्रदर्शनपराणि तदा तानि नैव देवकाव्यानि भवन्ति यथा शिशुपालवधम् । पुण्यलोभेन प्रणीतान्येव देवकाव्ये समावेशितव्यानीति ।
यमकप्रधानानि यमककाव्यानि । तानि च यथा घटकर्परस्य घटकर्परकाव्यं, नीतिवर्मणः कीचकवधकाव्यं, वासुदेवाख्यस्य नलोदयकाव्यञ्चेत्यादीनि । यद्यपि यमकं तु रघुवंशादावपि विद्यते किन्तु यमकप्रदर्शनायैव प्रणीतानि काव्यान्येवात्र प्रकरणे गृह्यन्ते।
श्लेषप्रधानकाव्यानि यथा धनञ्जयस्य राघवपाण्डवीयं ( ९८० वै० ), सन्ध्याकरनन्दिनो रामपालचरितं ( ११८० वै०), कविराजस्य राघवपाण्डवीयं ( १२०० वै० ), रामचन्द्रस्य रसिकरञ्जनं (१५९९ वै०), चिदम्बरस्य यादवीयराघवपाण्डवीयं ( १६६० वै० ), वेङ्कटाध्वरिणो यादवराघवीयं ( १७०७ वै० ), मेघविजयगणेः सप्तसन्धानमहाकाव्यं ( १७२७ वै० ), हरदत्तस्य राघवनैषधीयं ( १७६० वै० ), विद्यामाधवस्य पार्वतीरुक्मिणीयञ्चेत्यादीनि । दैवज्ञसूर्यस्य रामकृष्णविलोमकाव्यमपि तथैव श्लेषप्रधानम् । * काव्यान्येतानि महाकाव्यखण्डकाव्यप्रकरणे यथावसरं निरूपितान्येव तत्र तत्र द्रष्टव्यानि ।