काव्यालङ्कारसूत्रग्रन्थः(Kavyalankara Sootragrantha) प्रसिद्धः वर्तते । एतस्मिन् भागत्रयं विद्यते।

  • सूत्रम्
  • वृत्तिः
  • लक्षणम्

भागत्रयमपि स्वयमेव लिखितावान् । अस्मिन् ग्रन्थे ५ अधिकरणानि सन्ति । प्रत्येकस्मिन् अपि अधिकरणे अध्यायद्वयं त्रयं वर्तते । संहत्य १२ अध्यायाः सन्ति ।

  • प्रथमे अधिकरणे काव्यविधाः , प्रयोजनानि च वर्तन्ते ।
  • द्वितीये अधिकरणे काव्यदोषाः प्रदर्शिताः ।
  • तृतीये अधिकरणे काव्यगुणाः सन्ति ।
  • चतुर्थे अधिकरणे यमक-अनुप्रास-उपमादि अलङ्काराः विद्यन्ते ।
  • पञ्चमे अधिकरणे काव्यसमयः, शब्दशुद्धिविचाराः सन्ति ।

वमनमतम् सम्पादयतु

एतस्य प्रकारेण सुन्दरौ शब्दार्थयुगलौ एव काव्यम् इति । काव्यं ग्राह्यम् अलङ्कारात् , सौन्दर्यमलङ्कारः स दोषगुणालङ्कार-हानादानाभ्याम् इति इत्यारभ्य काव्यश्ब्दोयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोः वर्तते इति एतस्य मतं प्रख्यापितवान् ।

"https://sa.wikipedia.org/w/index.php?title=काव्यालङ्कारसूत्रम्&oldid=395270" इत्यस्माद् प्रतिप्राप्तम्