काश्यपस्मृतिः
काश्यपस्मृतौ विशेषरुपेण प्रायश्चित्तव्यवस्थाया विस्तृता चर्च्चा विहितास्ति । यद्यपि गृहस्थाश्रमस्य कापि व्यवस्था वर्त्तते, सा स्वल्पतरैवास्ति । मनुष्यादि-प्राणिनां विनाशेन पापस्य परिमाणे यथा तारतम्यं परिलक्ष्यते, तथा परिणामानुसारेणापि प्रायश्चित्तव्यवस्था पृथक् पृथक् वर्त्तते । मनुष्याणां पशूनां, सरीसृपादिप्राणिनां, तिर्यक् जातीयप्राणिनाञ्च कृते प्रायश्चितव्ववस्ता काश्यपेन भिन्ना भिन्ना विहिता । तथैव ब्रह्महत्या, सुवर्णहरणम्, स्वप्रक्षेपः, गुरुपत्नीहरणं तथा महापातकिनां स्पर्शदोषश्च एतेषां महापापानां कृते दण्ड मत्यन्तं गुरुतरं विहितम् । प्राकृतिकदुर्विपाकजनितस्य अपधातस्य कृतेऽन्यतरा व्यवस्था निरुप्यते । सूतकमृतकादि-स्पर्शदोषायापि प्रायश्चित्तव्यवस्था दर्शिताऽस्ति । यदि शूद्र्-निषाद-चाण्डालादीनां गृहे बाह्मणो भक्षयेत्, तदर्थं प्राश्चितं वर्त्तते । किञ्च् यदि गृहे गोधा, सर्प उलूको वा कश्चन जन्तुः प्रविशेत्, तदर्थमपि प्रायश्चित्तमस्ति । कुतः किंभूता कन्या बोढव्या, काश्यपेन तस्यापि निर्णयो दर्शितः । तथा कन्याया दोषादोष विषयेऽपि सुपरामर्शो दत्तोऽस्ति ।
अन्ते नरकगतिः षोडशभिः श्लोकैः वर्णितास्ति । कृतिरियं क्वचिद् गद्यमयी क्वचिच्च पद्यमयी दृश्यते । काश्यपेन प्रायश्चित्तद्वरेण समाजस्य कापि निर्दोषता प्रदर्शिता । समाजो दूषणरहितोऽस्तु इत्युद्देश्यं निमित्तीकृत्य काश्यपेन पर्याप्ताः पन्थानः प्रदर्शिताः सन्ति ।