किं संस्कृते ला कारःअस्ति


फलकम्:व्प्कुप

अक्षर विचारः

सम्पादयतु

आम्, उपरि विध्यमानं शीर्षकं सम्यगेव वर्तते. तमि भाषायां केरलभाषायां च प्रसिद्धः कारः संस्कृते अस्ति वा इत्येव प्रश्नः. देवनागरीलिप्यां असन्दिग्धरूपेण अस्य वर्णस्य प्रतिपादनाय किमपि प्रसिद्धं चिन्न्हं नास्ति (अध्यावधि) इत्यतः ' ' इति तमि चिन्हम् उपयुज्यते असन्दिग्धनिर्देशार्थं इत्येतत् सर्वैः सहृदयैः अनुमोदनीयम् . पूर्वं यथा संस्कृते ह्रस्वः एकारः ओकारश्च वर्तते एव इति श्रीरमणशर्माख्येन विदुषा निरूपितं अस्यां पत्रिकायां, तथा अधुना कारः अस्ति इत्यपि निरूप्यते. ततः प्राक् अवश्यचिन्तनीयं किञ्चिद् विचारयाम.

प्रथमतः संस्कृते ळकारः अस्ति किम्?

सम्पादयतु

'आ, अयं प्रश्नस्तु समीचीनः . ळकारस्तु संस्कृते अस्त्येव' इति हृडम् उच्यते खलु ? हम्. लोके उत वेदे ? पूर्वं 'हृस्वः एकारः ओकारश्च लोके न वर्तते, वेदे एव वर्तते, अत एव कौमुध्यां 'हृस्वाभावात्' इत्यस्ति' इत्युक्तं खलु ? तथैव कौमुध्याम् ळकार-विषये अपि नास्ति किल. ततश्च ळकारो अपि लोके संस्कृते नास्तीत्येव. यध्यपि बहवो जनाः मङ्गलं इत्यादिषु शब्देषु 'मङ्गळम्' इति ळकारं कुर्वन्ति. तथापि पाणिनीयभाषायां ळकारः न अङ्गीकृतः इत्येव वक्तव्यं. यतः ळकारस्तु धातुपाठ आदौ कापि न उपदिष्टः . न वा सूत्रादिना विहितः . तर्हि कथं तस्य पाणिनीयायां भाषायां प्राप्तिः भवति? ततश्च मङ्गलं इत्यादिप्रयोगः एव पाणिनीयः .

पाणिनीयशिक्षायां

सम्पादयतु

यध्यपि पाणिनीयशिक्षायां 'दुःस्पृष्टः' इति नाम्ना अस्य उल्लेखः कृतः , तथापि उत्करीत्या प्राप्त्यभावादेव ळकारो लोकभाषायां नास्ति इति स्थितं. शिक्षावचने तु वेदस्थस्यैव परामर्शः .

प्रसिद्धश्च ळकारः ऋग्वेदस्य प्रथमे मन्त्रे एव 'ईळे' इति पदे. ऋग्वेदस्य च सर्वत्र लोके प्रसिद्धत्वं अस्तीति सर्वेऽपि वेदस्थं एतं ळकारं जानन्ति. (कारं तु वेदे विध्यमानमपि न जानन्ति. तदग्रे पश्याम. )

अयं च ळकारः डकारस्य स्थाने भवतीत्यपि प्रायेण सर्वैः ज्ञातम् एव. डळयोः अभेदः इति वचनमपि प्रथते. व्याडि: इति प्रसिद्धः पाणिनेः प्राग्भावी वैयाकरणाचार्यः 'व्याळिः' इत्यपि उच्यते.

ऋग्वेदीयमन्त्रे 'ईले' इति यत्र भवति तत्रकृष्णयजुर्वेदे सामवेदस्य कौथुमराणायनीयशाखयोश्च 'ईडे' इत्येव प्रयोगः। ईड स्तुतौ इति धातोः निष्पन्नं चेदं तिङिन्तं लोके अपि डकारस्यैव प्रयोगः - 'स्वात्मारामं मुदितवदनं दक्षिणामूर्तिं ईडे' इति।

भवतु , डकारस्य स्थाने ळकारश्चेद् ढकारस्य स्थाने महाप्राणळकारो भवति किम्?

आम् ! महाप्राणळकार एव। परन्तु देवनागर्याम् (अन्यासु च लिपिषु) तस्य पृथक् चिह्नं नास्तीत्यतः सर्वे अपि लकारहकारसम्युक्ताक्षरमिव लिखन्ति 'ळह' इति। 'वोढुम्' इति यद् लोके कृष्णयुर्वेदादौ वा भवति तद् ऋग्वेदादौ 'वोलहुम्' इति भवति। अयं च वस्तुतः संयोगः न, प्रत्युत पृथग् वर्ण ळकारस्य महाप्राणरूपः इत्येदपि स्मर्तव्यम्।

तस्माद् 'ळ' 'ळह' इत्येतौ वर्णौ विशिष्टौ विद्येते इति प्रथमतो ज्ञायम्।

(कोचित्तु 'ळ ' 'ळह' इत्यनयोः ड-ढ-अपेक्षया स्वातन्त्र्येण प्रयोगाभ प्रयोगाभावात् पृथग्वर्णत्वं  नाङ्गीकुर्वन्ति, तस्यैव उच्चारेण विशेषः अयम् इति वदन्ति। तस्मिन्  पक्षे पाणिनीयशिक्षायां दुःस्पृष्टस्य पृथक्कथनं नोपपद्यते।

इदमपि अत्र वत्कव्यम। डकारो ढकरो वा यत्र अन्येन व्यंजनेन संयुक्तौ भवतः , तत्र सर्वासु शखासु तथैव तयोः उच्चारणम् , तन्नाम 'ळ' 'ळह' इति व्यत्ययो नास्ति। द्वेयोः स्वरवर्णयोर्मध्येएव व्यततः। अतः 'ईडायः' 'मृढ्वम्' इत्यदयःएव वैदिकाः प्रयोगाः भवन्ति, न तु तत्र ळळहौ भवतः।

जैमिनीयशाखापरिचयः

सम्पादयतु

अधुना तावत् अधिकृतं विषयं वदामः। यत्र लोके कृष्णयुर्वेदे समवेदस्य कौथुमराणायनीयशाखयोञ्च डकरो भवति, ऋग्वेदे शुक्लयुर्वेदे च ळकरो भवति, तत्र साम्वेद्स्य जैमिनीयशाखायां कारो भवति।

वेदविचारः

सम्पादयतु

जैमिनीशाखा इति सामवेदस्य अप्रसिद्धतरा कचनशखा । सहस्त्रवर्त्मा सामवेदः इति सामवेदे सहस्त्रं शाखाः आसन् इति महाभाष्यकारः वदति । तत्र अद्यत्वे अध्ययनपरम्परयां तिस्रः एव शाखाः अवशिष्टाः- ताश्च कौथुम –राणायनीयशाखा- जैमिनीशाखा:। प्रायेण महाराष्ट्रस्मीपवर्तिषु जनपदेषु राणायनीयशीखा विद्यते। अन्यत्र सर्वत्र कौथुमशाखा। जैमिनीशाखा तु तमिखयनाडु – कैरल –प्रदेशेयोः अद्यत्वे कौथुम-भूयिष्ठत्वे अपि अल्पप्रमाणेन अवाशिष्यते ।

ऋग्वेद
 
ऋग्वेदे ळकारस्य प्रयोगः