कित्तूरु चेन्नम्म
चेन्नम्म ( ( शृणु) /ˈkɪttuːrʊ xɛnnəmmə/) (कन्नड: ಕಿತ್ತೂರು ಚೆನ್ನಮ್ಮ, आङ्ग्ल: Kittur Rani Chennamma) दक्षिणभारतस्य कित्तूरु-नामकस्य प्राक्तनराज्यस्य राज्ञी आसीत् । तत् अधुना कर्णाटकराज्ये अन्तर्भवति । १९५७ तमस्य वर्षस्य प्रप्रथमे भारतस्वतन्त्रताविप्लवे राज्ञी चेन्नम्म स्वप्राणाहुतिम् अयच्छत् । १९५७ तमस्य वर्षस्य आङ्ग्लविरुद्धविप्लवेषु वहाबीविद्रोह-संन्यासिविद्रोह-सन्थालविद्रोह-चुआडविद्रोहाः मुख्याः । एतेषु विद्रोहेषु पुरुषैः सह महिलाः अपि मुख्यभूमिकाम् अवहन् । तासु महिलासु चेन्नम्म इत्यस्याः अपि मुख्यतया स्मरणं भवति । तया आङ्ग्लैः सह भीषणं युद्धं कृतम् । परन्तु देशद्रोहिणां विश्वासघातत्वात् तस्याः पराजयः अभवत् । विश्वासघातः यदि नाभविष्यत्, तर्हि आङ्ग्लाः निश्चयेन पराजिताः अभविष्यन् ।
Kittur Rani Chennamma कित्तूरु रानी चेन्नम्म | |
---|---|
कित्तूरु राज्ञी चेन्नम्म | |
जन्म | सूचना नास्ति |
मृत्युः |
१८२८ कित्तूरुराज्यम् |
वृत्तिः | Soldier, स्वतंत्रता सेनानी |
भार्या(ः) | मल्ल सर्जनाम |
अपत्यानि | रुद्रसेनः |
तदानीन्तनस्य कित्तूरुराज्यस्य इतिहासः
सम्पादयतुकित्तूरुराज्यस्य निर्माणं मल्लप्प शेट्टि-नामकेन वीरपुरुषेण कारितम् आसीत् । कित्तूरुराज्यं लघु आसीत् । लघुराज्यं सदपि तत् शक्तिशालिराज्यत्वेन परिगण्यते स्म । दक्षिणभारतं जेतुम् एतत् राज्यम् आङ्ग्लजनेभ्यः अवरोधरूपम् आसीत् । "यदि वयम् अस्य राज्यस्योपरि स्वाधिपत्यं स्थापयितुं सफलाः भवेम, तर्हि दक्षिणभारतस्य बहूनि राज्यानि अस्माकं साम्राज्ये अन्तर्भविष्यन्ति" इति आङ्ग्लानां चिन्तनम् आसीत् । अतः ते पौनःपुन्येन कित्तूरुराज्यस्योपरि आक्रमणं कुर्वन्ति स्म ।
यदा आङ्ग्लाः कित्तूरुराज्यस्योपरि आक्रमणं कर्तुम् उद्यताः आसन्, तदा मल्लवंशीयः ‘मल्लसर्ज’-नामकः राजा कित्तूरुराज्ये शासनं कुर्वन् आसीत् । मल्लसर्ज इत्यस्य वयः अधिकम् अभवत् । अतः तस्य पत्नी चेन्नम्म राज्यस्य राजकार्यस्य भारं वहति स्म । मन्त्रिपरिषदि सिद्धप्प, मल्लप्प, वेङ्कट राव् इति मन्त्रित्रयं राज्ञ्या नियुक्तम् । तेषां मन्त्रिणां साहाय्येन चेन्नम्म सुचारुरीत्या राज्यस्य शासनं करोति स्म ।
जीवनम्
सम्पादयतुचेन्नम्म एकस्य राज्यस्य राज्ञी आसीत् परन्तु तस्याः जन्म इत्यादिविषये सूचना न प्राप्यते । कर्तव्यपरायणा सा नित्यं ब्राह्ममुहूर्ते जागर्ति स्म । आदिनं सा राज्यव्यवस्थायाः कार्ये रता भवति स्म । बहुवारं तु सा भोजनं कर्तुम् अपि विस्मरति स्म । सा दीर्घद्रष्ट्री आसीत् । अतः आङ्ग्लानां साम्राज्यवादिनीतेः, विस्तारवादिनीतेः च राज्यं रक्षितुं सा सर्वदा तत्परा आसीत् । तस्याः आदेशेन राज्ये सैनिकप्रशिक्षणम् अनिवार्यत्वेन भवति स्म । शस्त्रागारे अपि नव्यव्यवस्थानुसारं कार्यं भवति स्म ।
सैनिकेषु, राज्यजनेषु च देशभक्त्याः भावः उद्भावयितुं तया बहवः निर्णयाः स्वीकृताः । राजसभायाः अन्ते तया राष्ट्रप्रार्थनायाः प्रद्धतिः आरब्धा । सैनिकानां मनोबलं, तेषां मनसि देशभक्त्याः भावं च दृढयितुं तया सर्वेषु सैनिकशिबिरेषु राष्ट्रप्रार्थनायाः गानम् अनिवार्यं कृतम् । नागरिकाः अपि देशभक्त्याः रङ्गेन रङ्गिताः भवन्तु इत्यपि तस्याः आशयः आसीत् । नागरिकेषु देशसेवायाः भावं जनयितुं तया विद्यालयेषु, सामाजिकसभासु च राष्ट्रप्रार्थनायाः गानम् अनिवार्यं कृतम् । तया चिन्तितं राष्ट्रप्रार्थनायाः अन्ते सरलभाषायां यदि एका प्रतिज्ञा अपि भवेत्, तर्हि प्रार्थनायाः प्रभावः अधिकः भविष्यति इति । अतः तया प्रार्थनायाः समनन्तरं मातृभूमिप्रतिज्ञा अपि अनिवार्या कृता । तस्याः प्रतिज्ञायाः सर्वेऽपि शब्दाः नागरिकेषु देशं प्रति स्वस्य दायित्वस्य बोधम् उद्भावयन्ति स्म । सा प्रतिज्ञा एवम् आसीत्, “हे परमपावने जन्मभूमे ! वयं तव सन्तानाः तव सपथं कुर्मः यत्, केऽपि आक्रमकाः यदि तव सम्मानस्योपरि आक्रामणस्य दुःस्साहसं करिष्यन्ति, तर्हि वयं तेषाम् आक्रमकाणां सर्वान् सैनिकान् यावत् न नाशयिष्यामः, तावत् युद्धं करिष्यामः । अस्माकं पोषणं कृतवत्याः भवत्याः रक्षणं वयं प्राणाहुतिं दत्वाऽपि करिष्यामः” इति ।
स्वस्याः सामर्थ्यानुसारं चेन्नम्म युद्धस्य पर्याप्तसज्जताम् अकरोत् । चेन्नम्म इत्यस्याः मन्त्रिपरिषदि द्वे मन्त्रिणौ आस्ताम् । मल्लप्प शेट्टि, वेङ्कट राव् च । तयोः वास्तविकतायाः विषये चेन्नम्म सतर्का नासीत् । तौ मन्त्रिणौ व्यक्तिगतस्वार्थस्य पूर्त्यै देशद्रोहिप्रवृत्तिं प्रारभेताम् । तयोः देशद्रोहस्य लाभेन आङ्ग्लाः कित्तूरु-राज्यस्योपरि आक्रमणम् अकुर्वन् । आक्रमणकाले राजद्वारम् उद्घाट्य एतौ राज्यप्रवेशे आङ्ग्लसैन्यस्य साहाय्यम् अकुरुताम् । तस्मिन् आक्रमणे राज्यस्य त्रिसहस्रम् अश्वाः, द्विसहस्रम् उष्ट्राः, अष्टशतं गजाः, षड्त्रिंशत् शतघ्न्यः (cannon), पञ्चसहस्रम् अग्निशस्त्रम्, अन्यानि युद्धसाधनानि लुण्ठित्वा आङ्ग्लैः पलायनं कृतम् । तैः अमूल्यरत्नानि, आभूषणानि अपि लुण्ठितानि ।
समृद्धराज्यस्य समृद्धिः अनष्यत् । राज्यस्य आर्थिक-मानसिकस्थितिः अपि नष्टा अभवत् । तस्मिन् काले एव राज्यस्य राज्ञः ‘मल्लसर्ज’ इत्यस्य अवसानम् अभवत् । तस्य राज्ञः रुद्रसेन-नामकस्य पुत्रस्य राज्याभिषेकः अभवत् । तस्य आयुः अधिकः नासीत्, अतः मन्त्रिणः स्वच्छन्दतया कार्याणि कुर्वन्ति स्म । तस्मिन् एव काले मराठाजनानाम् आङ्ग्लैः सह भीषणं युद्धम् अभवत् । पेशवा इत्ययं मराठाशासकः कित्तूरु-राज्ञ्याः साहाय्यम् अपृच्छत् । चेन्नम्म झटिति मल्लप्प शेट्टि, वेङ्कट राव् इत्येतौ मन्त्रिणौ प्रैषयत् । परन्तु तौ देशद्रौहिणौ मन्त्रिणौ विकटसमये देशद्रोहम् अकुरुताम् । तेन मराठाजनाः पराजिताः । ततः आङ्ग्लानाम् आत्मविश्वासः अवर्धत । ते चेन्नम्म इत्यस्याः समीपं सन्धिप्रस्तावं प्रैषयन् । परिस्थितिं दृष्ट्वा चेन्नम्म सन्धिप्रस्तावं स्व्यकरोत् । ततः आङ्ग्लानां साहसम् अवर्धत । ते कित्तूरुराज्ये स्वप्रतिनिधेः नियुक्तेः आग्रहम् अकुर्वन् । चेन्नम्म क्रोधेन आङ्ग्लानां दुराग्रहस्य दमनम् अकरोत् । सा आङ्ग्लान् अवदत्, "मम राज्ये युष्माकं हस्तक्षेपः नावश्यकः" इति ।
आङ्ग्लैः सह युद्धं, मृत्युश्च
सम्पादयतुआङ्ग्लानां गृध्रदृष्टिः कित्तूरुराज्यस्योपरि एवासीत् । कित्तूरुराज्यस्य नवयुवा राजा रुद्रसेनः गभीररोगेन ग्रस्तः अभवत् । तस्य मृत्युः निश्चितः आसीत् । अतः चेन्नम्म एकं दत्तकपुत्रं स्व्यकरोत् । सा यस्मिन् दिने अपरं दत्तकपुत्रम् अङ्ग्यकरोत्, तस्य द्वितीये दिने एव रुद्रसेनस्य मृत्युः अभवत् । आङ्ग्लाः दत्तकपुत्रस्य राजत्वेन स्वीकारं नाकुर्वन् । ते स्वपोषिताय देशद्रोहिणे मन्त्रिणे मल्लप्प शट्टि इत्यस्मै राज्यव्यवस्थां दातुं चेन्नम्म इत्यस्यै आदेशम् अयचछन् । पुनः आङ्ग्लान् स्वस्थानं प्रदर्शयन्ती चेन्नम्म "मम राज्ये हस्तक्षेपः मास्तु" इति क्रोधेन अवदत् ।
दक्षिणभारते आङ्ग्लानां प्रतिनिधिः थैकरे आसीत् । सः येन केन प्रकारेण कित्तूरुराज्यस्योपरि आधिपत्यम् इच्छति स्म । कित्तूरुराज्यस्योपरि आक्रमणं कर्तुं तस्य पार्श्वे एषः सुवर्णावसरः आसीत् । अतः सः ब्लॅक्, सिबिल् इत्यादीनाम् आङ्ग्लाधिकारिणां नेतृत्वे एकां सेनां कित्तूरुराज्यस्योपरि आक्रमणार्थं प्रैषयत् । चेन्नम्म इत्यस्याः नेतृत्वे कित्तूरुराज्यस्य प्रजाः, सैनिकाः, अधिकारिणः युद्धम् अकुर्वन् । आङ्ग्लैः सह तद्युद्धे कित्तूरुराज्यस्य यदा विजयः निश्चितः आसीत्, तदा मल्लप्प शेट्टि, वेङ्कट राव् इत्येतौ मन्त्रिणौ देशद्रोहम् अकुरुताम् । राज्ञ्याः विश्वासुसैनिकः रामाण्ण इत्ययं आङ्ग्लसेनापतिना छलेन हतः । ततः अन्यदेशद्रोहिणः गुप्ततया आङ्ग्लसैन्ये अन्तरभवन् । तेषु सबर मण्डारी, शिवप्प च मुख्यौ आस्ताम् । तौ युद्धसामग्रिषु गोमलस्य मिश्रणम् अकुरुताम् । तेन सर्वाः युद्धसामग्र्यः नष्टाः अभवन् । शिवप्प कित्तूरुराज्यस्य मुख्यदुर्गस्य सिंहद्वारम् उद्घाटितवान्, येन आङ्ग्लाः दुर्गस्योपरि स्वाधिपत्यं प्राप्तवन्तः ।
तस्मिन् युद्धे सर्वैः निष्ठया युद्धं कृतं, परन्तु देशद्रोहिणां विषये केषामपि मनसि विचारः नासीत् । अतः कित्तूरुराज्यस्य पराजयः अभवत् । ( लोहपुरुषस्य पिता झवेरभाई बाल्यकालात् बालवल्लभं कथयति स्म यत्, “१८५७ तमस्य वर्षस्य स्वातन्त्र्यविप्लवस्य असफलतायाः कारणं देशद्रोहः, देशजनेषु एकतायाः अभावश्च आसीत्” । अतः बाल्यकालात् लोहपुरुषः अखण्डभारतस्य कल्पानां कुर्वन् देशसेवाम् अकरोत् । तस्य सम्मुखम् एतादृशानि बहूनि उदाहरणानि स्युः । )
देशद्रोहिणां विश्वासघातेन कित्तूरुराज्यस्य करुणपराजयः अभवत् । चेन्नम्म इत्यस्याः अनेेकेभ्यः विश्वसिकेभ्यः आङ्ग्लाः मृत्युदण्डम् अयच्छन् । चेन्नम्म इत्येनाम् अपि ते कारागारं प्रैषयन् । १९२८ तमे वर्षे कारागारे एव चेन्नम्म देहत्यागम् अकरोत् ।
सम्बद्धाः लेखाः
सम्पादयतुबाह्यानुबन्धाः
सम्पादयतुhttp://books.google.co.in/books?id=p2qFYxtq3GYC&printsec=frontcover#v=onepage&q&f=false
http://www.hindu.com/2007/09/12/stories/2007091258190400.htm
http://news.oneindia.in/2007/09/11/pratibha-unveils-kittur-rani-chennamma-statue.html Archived २०१४-११-०६ at the Wayback Machine