अस्य सस्यशास्त्रीयं नाम अकेसिया अरबिका वैल्ड् इति अस्ति । अरिमेधः, अजभक्ष्यः, बब्बुलः इति अस्य नामान्तरम् । अस्य कुटुम्बः फ्याबेसि विमोसि इति । भारतस्य उष्णवलयेषु रोहति ।

कृष्णखदिरवृक्षः
कृष्णखदिरवृक्षः
कृष्णखदिरवृक्षः
कृष्णखदिरवृक्षः
बबुल्
बबुल्

अन्यभाषासु अस्य वृक्षस्य नामानि यथा...
आङ्ग्लम् - दि बबुल्, इण्डियन् गं ट्री, । The Babul, Indian gum Tree
कन्नडम् - जालि, करिजालि, गोब्फ़्ब्ळि, बब्बुळि । ಜಾಲಿ, ಕರಿಜಾಲಿ, ಗೊಬ್ಬಳಿ, ಬಬ್ಬುಳಿ |
हिन्दी - बाबुल्, किकार्, बब्ला ।
तमिळु - करु वेलम् । கரு வெலம் |
तेलुगु - नल्ल तुमा । నల్ల తుమా ।
मराठि - बभूल, वेदिबुल ।
मलयाळम् - करु वेलम्, करुवेलकम् । കരു വെല്ം, കരുവേലകം |

अस्य वृक्षस्य औन्नत्यं १८मी. पर्यन्तम् अपि भवति । वल्कलं कृष्णवर्णस्य भवति । संयुक्तपर्णाणि नाम एकसमिन् दण्डे १०-२० पर्णानि संलग्नानि भवन्ति । पत्रस्य दीर्घता ५-१०से.मी. भवति । पुष्पाणि गुच्छेषु भवन्ति । पत्रस्य कक्षे पुष्पगुच्छं तिष्ठति । कुसुमानि पीतवर्णितानि सुगन्धितानि भवन्ति । कृष्णखदिरवृक्षः जूनतः अक्टोबर्मासानां मध्ये कुसुमितः तिष्ठति । अस्य भस्मवर्णीयं फलं १०-१५से.मी.दीर्घं १.५.विशालं च भवति । प्रत्येकं पले १०-१२सङ्ख्याकानि अण्डाकाराणी बीजानि भवन्ति । वृक्षस्य वंशाभिवृद्धिः वीजेनैव भवति ।

उपयोगाः

सम्पादयतु

कृष्णखदिरावृक्षस्य फलानि कफनियन्त्रणस्य रक्तस्रावसंरोधनस्य औषधेषु उपयोजयन्ति । पत्ररसं शर्करया सह खादति चेत् कफशमनं भवति । लैङ्गिकस्य गनोरिया इति रोगस्य नियन्त्रणार्थम् अस्य कषायं योग्यं भवति । पत्रपेषः वर्णस्य लेपनं भवति । वृक्षत्वचः रसेन सह स्तन्यं सम्मिश्र्य नेत्रयोः लिम्पति चेत कञ्जक्टिवैटिस् रोगोपशमनं भवति । घृतभर्जितस्य अस्य निर्यासस्य भक्षेणेन लैङ्गिकनिश्शक्तिः नश्यति ।

"https://sa.wikipedia.org/w/index.php?title=कृष्णखदिरवृक्षः&oldid=479740" इत्यस्माद् प्रतिप्राप्तम्