केन्द्रीयकुक्कुटसंस्था

केन्द्रीयकुक्कुटसंस्था एषा केन्द्रीयकृषिपशुविज्ञानमन्त्रालयस्य अधीने कार्यं करोति । एषा कर्णाटकराज्यस्य बेङलूरुनगरमण्डलस्य हेसरघट्ट इति प्रदेशे अस्ति । एषा २००३वर्षस्य जून्मासतः कार्यं कुर्वती अस्ति ।

मुख्य-उद्देशाः सम्पादयतु

• ग्रामेषु कुक्कुटाभिवृद्ध्यर्थं साहाय्याचरणम् ।
• सेवाकालिकप्रशिक्षणं , प्रायोजकत्वं प्राप्य आगतानां विदेशीयानां कृते अपि प्रशिक्षणम् अत्र प्रदीयते ।
• ग्रामीणभागस्य महिलानां , कृषकाणां कृते कुक्कुटोद्यमे प्रशिक्षणम् ।
• कृषकेभ्यः उत्कृष्टगुणयुक्तकुक्क्टानाम् अण्डानां च प्रदानम्।
• कुक्क्टोत्पादनस्य द्विगुणीकरणं च ।

अस्याः मुख्याङ्गानि सम्पादयतु

1. प्रशिक्षणविभागः तथा सेवाविभागः
2. कुक्कुटोद्यमविभागः
3. टर्कीकुक्कुटविभागः ।
4. बकविभागः
केन्द्रीयकुक्कुटसंस्था