कोकिलसन्देशः

(कोकिलसन्देश इत्यस्मात् पुनर्निर्दिष्टम्)


कोकिलसन्देशः ( /ˈkkiləsəndɛʃəhə/) (हिन्दी: कोकिलसन्देश, आङ्ग्ल: Kokil Sandesh) इति उद्दण्डशास्त्रिविरचितं संस्कृतभाषायाः सन्देशकाव्यम् । द्विषष्ट्यधिकशतपद्यात्मकं खण्डकाव्यमेतत् । अस्मिन् काव्ये कोऽपि प्रेमी स्वपत्नीसकाशात् दिव्यमहिलाभिरपहृयते । विरहपीडितेन तेन कोकिलेन प्रेयस्यै सन्देशः प्रेष्यते । एतत् सन्देशकाव्यं कालिदासस्य मेघदूतनाम्नः काव्यस्य अनुसरणं करोति[१]। केरलीयसन्देशकाव्येषु कोकिलसन्देशः अतिप्रसिद्धतां गतोऽस्ति ।

कविः सम्पादयतु

तमिलप्रदेशे पञ्चशताब्दे उत्पत्तिरुद्दण्डशास्त्रिणः । यस्मिन् ग्रामे तस्य उत्पत्तिस्तत्र विद्यातिशयात् कीरा अपि वेदान् पठन्तीति काव्ये उच्यते[२]। उद्दण्डमहोदय आश्रयदातुरन्वेषणस्य कृते पश्चिमं दिङ्मुखं गत्वा केरलप्रदेशे उषितवान् । या जयन्तमङ्गलनगरे (कोच्चीनगरस्य समीपे) कोकिलेन मार्गितव्या, सा नयिका तस्य पत्नीति कैश्चित् पण्डितैरुच्यते । [३] कुक्कुटक्रोडस्थात् (कोझिकोडे) समूथिरिराजात् तेनोद्दण्ड इति स्वोपाधिर्लब्धेत्युच्यते । तस्य प्रकृतनामधेयमिरुगुपनाथ इति[४] । अधस्ताद् दत्तस्य श्लोकस्य हेतुरेव कविः उद्दण्ड इति उपाधिं समूथिरिराजात् प्राप्नोदिति उच्यते । उद्दण्डः परदण्डभैरव भवद्यात्रासु जैत्रश्रियो हेतुः केतुरतीत्य सूर्यसरणिं गच्छन् निवार्यस्त्वया । नो चेत् तत्पटसम्पुटोदरलसच्छार्दूलमुद्राद्रवत् सारङ्गं शाशिबिम्बमेष्यति तुलां त्वत्प्रेयसीनां मुखैः ॥ [५]

कोकिलसन्देशस्य पुस्तकानि सम्पादयतु

  1. अनन्तनारायणशास्त्री, पी एस् । १९३९ । कोकिलसन्देशः (श्रीमदुद्दण्डशास्त्रिप्रणीतः) – टिप्पणीसङ्कलनपूर्वकं प्रसाधितः। द्वितीयं मुद्रणम् । द मङ्गलोदयं प्रेस्, थ्रिस्सूर् । एतत् पस्तकमेकामेव मूलप्रतिमामाधारीकरोति ।
  2. ऊण्णी, एन् पी । १९७२ । उद्दण्डस्य कोकिलसन्देशः । कालेज् बुक् हास्, तिरुवनन्तपुरम् । अपि च - ऊण्णी, एन् पी । १९९७ । उद्दण्डस्य कोकिलसन्देशः । द्वितीयं मुद्रणम् । केरलसंस्कृतं पब्लिकैशन्स्, तिरुवनन्तपुरम् । अस्मिन् पुस्तके विस्तरेण परिचयः, काव्यस्य आङ्ग्लभाषायां संक्षेपरूपेणानुवादः, टिप्पणी चैतत् सर्वमन्तर्हितम् । एतत् पस्तकं मूलप्रतिमाचतुष्टयम् आधारीकरोति ।
  3. मूरलीमाधवन्, पी सी । १९९९ । उद्दण्डशास्त्रिणः कोकिलसन्देशः । एतस्मिन् मलयाळलिपिवर्तिनि पुस्तके मलयाळभाषायामनुवादः परिचयः टिप्पणी चैतत् सर्वमन्तर्हितम् । एतत् पस्तकं दशाधिका मूलप्रतिमा आधारीकरोति ।
  1. राजरामन्, एस् कोटमराजु, वी च । २०१२ । द मेसेज् ओफ् द कोयल् – उद्दण्डशास्त्रिणः कोकिलसन्देशः । रसाल, बेङ्गलूरु । एतस्मिन् पुस्तके संस्कृतमूलसहित आङ्ग्लभाषानुवादो वर्तते ।

आधाराः सम्पादयतु

  1. ऊण्णी प्.१
  2. पूर्वभागः २६
  3. ऊण्णी प्.२३-४
  4. मल्लिकामारुतनाटकस्य प्रस्तावना
  5. शास्त्री प्.४

ग्रन्थाः सम्पादयतु

  • अनन्तनारायणशास्त्री, पी एस् । १९३९ । कोकिलसन्देशः (श्रीमदुद्दण्डशास्त्रिप्रणीतः) – टिप्पणीसङ्कलनपूर्वकं प्रसाधितः। द्वितीयं मुद्रणम् । द मङ्गलोदयं प्रेस्, थ्रिस्सूर् ।
  • ऊण्णी, एन् पी । १९७२ । उद्दण्डस्य कोकिलसन्देशः । कालेज् बुक् हास्, तिरुवनन्तपुरम् ।
  • ऊण्णी, एन् पी । १९९७ । उद्दण्डस्य कोकिलसन्देशः । द्वितीयं मुद्रणम् । केरलसंस्कृतं पब्लिकैशन्स्, तिरुवनन्तपुरम् ।
  • मूरलीमाधवन्, पी सी । १९९९ । उद्दण्डशास्त्रिणः कोकिलसन्देशः ।
  • राजरामन्, एस् कोटमराजु, वी च । २०१२ । द मेसेज् ओफ् द कोयल् – उद्दण्डशास्त्रिणः कोकिलसन्देशः । रसाल, बेङ्गलूरु ।
  • विद्यासागर, जै । उद्दण्डशास्त्रिणः मल्लिकामारुतम् । १८७८ । कोल्कत्ता

"https://sa.wikipedia.org/w/index.php?title=कोकिलसन्देशः&oldid=367337" इत्यस्माद् प्रतिप्राप्तम्