कोसळ्ळिजलपातः कर्णाटकराज्ये]] उडुपीमण्डलस्य कुन्दापुर-उपमण्डले बैन्दूरुसमीपे अस्ति । बैन्द्रूरुतः ११ कि.मी दूरे जलपातः अस्ति । बैन्दूरुतः शिरूरुमार्गे ७कि.मी.दूरे तूदळ्ळि अस्ति । ततः ३कि.मी. अरण्यमार्गे गम्यते चेत् दृश्यते अयं जलपातः । अत्र लघुनदीजलं पञ्चश्रेणिषु पतति । बेङ्गळूरुतः ३८०कि.मी.दूरे कुन्दापुरम् अस्ति । सर्वदा राजधानीतः सर्वकारीयानि असर्वकारीयानि यानानि अहर्निशं चलन्ति । रेल् यानेन गम्यते चेत् मङ्गलूरुपर्यन्तं गत्वा ततः कोङ्कणरेल् द्वारा बैन्दूरु आगन्तव्यम् । मङ्गळूरुतः गोवा गमनस्य राजमार्गे(सं – १७) १३०कि.मी दूरे कुन्दापुरं लभ्यते । अन्यदेकं समीपस्थं पत्तनं तु भट्कळ । कोल्लूरुमूकाम्बिकामन्दिरं, मुर्डेश्वरमन्दिरम्, उडुपीश्रीकृष्णमन्दिरम्, मरवन्ते समुद्रतटः, इत्यादीनि समीपस्थानि दर्शनीयस्थानानि ।

कोसळ्ळिजलपातः
कोसळ्ळिजलपातः
कोसळ्ळिजलपातः

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कोसळ्ळिजलपातः&oldid=482797" इत्यस्माद् प्रतिप्राप्तम्