क्रिकेट्-क्रीडा
क्रिकेट्-क्रीडा | |
---|---|
A bowler bowling to a batsman. The paler strip is the cricket pitch. The two sets of three wooden stumps on the pitch are the wickets. The two white lines are the creases. | |
नियामकगणः | आन्तरराष्ट्रीया क्रिकेट् समिती |
प्रथमक्रीडा | षोडशायां शताब्दौ। |
वैशिष्ट्यसमूहः | |
गणसदस्याः | प्रतिपक्षे ११ क्रीडकाः चोटस्य वा रोगस्य वा सन्दर्भेषु विकल्पक्षेत्रस्य (केवलं) अनुमताः सन्ति |
उभयलिङ्गम् | Single |
वर्गीकरणम् | Team, Bat-and-ball |
उपकरणम् |
Cricket ball, cricket bat, wicket: stumps, bails |
स्थलम् | Cricket field |
उपस्थितिः | |
ओलिम्पिक् | 1900 Summer Olympics only |
- क्वचित् कश्चित् क्षेप्ता कुहचन वरोधाऽवनपरः
- कुतोऽप्यागोप्तारोऽपरत उदस्तार इतरे ।
- चतुष्कैः षट्कैर्वा लकुट-हननैः कन्दुकमरं
- ‘क्रिकेटं’ क्रीडन्तः कमिह सुखयन्ते नहि चिरम् ॥u
ऐतिहासिकी पृष्ठभूमिः (काष्ठपट्टिकाकन्दुकक्रीडा)
सम्पादयतुक्रिकेट्(Cricket)-क्रीडाया जन्म प्रायेण षडशतवर्षेभ्यः पूर्वम् अभूत् । इंग्लेण्डस्थे एडवर्ड प्रथमस्यैकस्मात् संग्रहात् प्राप्ताया दैनन्दिन्या इदम् अवगम्यते यत् क्रिकेटस्य सर्वतः प्रथमं क्रीडनं केण्टस्थिते निवेण्डने त्रयोदश्यां शत्यां समपद्यत इति । आक्स्फोर्ड्-पुस्तकालयस्य भित्तौ एकं चित्रम् आचित्रितं विद्यते यस्मिन् द्वौ क्रिस्तधर्मगुरू क्रिकेटं क्रीडमानौ चित्रितौ स्तः । एताभ्याम् अपि अस्याः क्रीडायाः प्रारम्भविषये ज्ञातुं शक्यते ।
एका सारसम्पन्ना गदासदृशी यष्टिः ‘क्रिक’ कथ्यते । तदानीं तस्यां यष्टेः अथवा यष्टित्रयस्य (विकेटस्य)प्रयोगो न अभवत्, एकः लधुगर्तकः भूमौ खन्यते स्म तथा कान्दुकिकः कन्दुकं तस्मिन् गर्ते पातयितुं प्रयतते स्म । पूर्वं क्रीडकः कन्दुकं ताडयति स्म तथाऽपरः कश्चन क्रीडकः तं कन्दुकं निगृह्णाति स्म। निगृहीते सति कन्दुके प्रथमः निर्गतः (आउट) मन्यते स्म । ततः परं गर्तस्य स्थाने चिह्नावगमाय यष्टित्रय्याः प्रयोगः आरब्धः ।
अस्य चतुः शतवर्षाणामानन्तर्येण क्रिकेट्-क्रीडायाः रूपं साम्प्रदायिकरूपेण साम्यं धारयत् प्रारभत । क्रीडने गर्तं परित्यज्य यष्टिद्वयं निखाय तदुपरि ६ इंचमितं प्रतिभूरूपेण यष्टिखण्डमेकं (गुल्लीं) संस्थाप्य खेलनम् आरब्धम् । क्रीडकः कन्दुकम् उपरि उत्थाप्य साम्प्रतमिव न अक्षिपत । तदानीं तु कन्दुकः हस्तं नीचैः नीत्वा क्षित्यते स्म । क्रिक-यष्टेः स्थानं (बैट-बल्ले)-यष्टिकया गृहीतम् । अस्या यष्टिकाया अधोभागः मनाग् वलितः अभवद् येन क्रीडार्थी कन्दुकं ताडयितुं प्राभवत् । तदा धावनसंख्या(रन्) कस्मिंश्चित् फलके चिह्ननिर्मित्या लिख्यते स्म ।
सन् १७७५ तमे वत्सरे अस्मिन् एकं विशिष्टं परिवर्तनम् अभूत् । स्थितिः इयम् आसीद् यत् 'कण्ट्-हेम्बलडन्’योः मध्ये काचन प्रतियोगिता प्राचलत् । तत्र हैम्बलडनाय जेतुं १४ धावनानि अपेक्षितानि आसन् तथा तस्य एकः क्रीडकः खेलने अवाशिष्यत । केण्टस्तं निर्गमयितुं बहु प्रयतितवान् परं कन्दुकः उभयोः अपि यष्टिकयोः मध्यात् निर्गच्छति स्म । स च कथमपि बहिर्गतः नाभूत् । केन्टस्य क्रीडका अतीव खिन्ना अभवः तथा तैः अस्मिन् विषये निर्णायका निवेदिताः । तदा द्वयोः यष्टिकयोः मध्ये अन्या अपि एका यष्टिः आरोपिता । इदमम् एव यष्टित्रयम् अधुना 'विकेट्’नाम्ना ख्यातम् अस्ति ।
प्रायः ५० वर्षपर्यन्तं कन्दुकक्षेपणाय हस्तम् अधः विधाय एव क्रीड्यते स्म । परम् एकेन कान्दुकिकेन उच्चैः हस्तं भ्रामयित्वा कन्दुकः क्षिप्तो येन ताडनयष्टि(बल्ला)धारी निर्गतिं प्राप्नोत् । ततः आरभ्य सैव परम्परा प्रचलिता या अद्यापि प्रवर्तते । अस्या एकं विशिष्टं कारणम् इदम् आसीद् यद यद् दलम् उच्चैः हस्तं भ्रामयित्वा कन्दुकं प्राक्षिपत तद् नीचैः हस्तं परिभ्राम्य क्षेपकानां दलम् अजयत् । एवं प्रकारोऽयं लोकप्रियतां प्राप्नोत् ।
यदा क्रीडाक्षेत्रं समभवत् तदा कान्दुकिकेन करभ्रामणपूर्वकं कन्दुके प्रक्षिप्ते सति धावनस्थल्यां (पिच् मध्ये) गर्तानां कारणात् तथा ततः सङ्घट्टय कन्दुकस्य उच्छलनाद भूयांस आघाताः भवन्ति स्म । ततः क्रीडकं सुरक्षयितुं पादाच्छादकयोः (लैग्गार्ड) हस्ताच्छादकयोः (दस्ताने)श्च प्रयोगः स्वीकृतः । इत्थं निरन्तरम् उन्नतिं लभमाना क्रीडा इयम् अधुना अतीव लोकरञ्जनी संवृत्ता । जनानां तु इयं धारणा अस्ति यद् 'मार्गे यत्र द्वौ पन्थानौ विभक्तौ भवतः तत्र च सूचनाफलके च एकतः स्वर्गं गमनाय अपरतः च क्रिकेट्स्पर्धास्थले गमनाय पथोः सूचना भवेत् तर्हि स्वर्गमार्गं परित्यज्य सर्वेऽपि क्रिकेट्-क्रीडास्थलीमेव गन्तुं चेष्टन्ते स्वर्गमार्गे नैवेति ।’
भारते अस्याः क्रीडायाः साम्प्रतिकरूपेण क्रीडनं व्यापाराय समागतानां वैदेशिकानाम् आगमनात् परं प्रवृत्तम् । ‘ईस्ट-इण्डिया-कम्पनी’ यदा अत्र प्रभुत्वम् अस्थापयत् तदा तस्याः बहवः सैनिकाः यत्र तत्र सम्भूय 'काष्ठपट्टिकाकन्दुकक्रीडां’ कुर्वन्ति स्म । प्राचीनाभिलेखेभ्य इदं ज्ञायते यत् सन् १८८३ वत्सरे विशिष्टा आंग्लपदाधिकारिणः भारतस्य राजधान्यां कलकत्तानगर्यां क्रिकेट्क्रीडनं कुर्वन्ति स्म इति ।
क्रिकेट्क्रीडाङ्गणं क्रीडोपकरणानि च
सम्पादयतु(क) क्रीडाङ्गणम्
सम्पादयतुसर्वप्रथमं ‘क्रिकेट्’ –क्रीडार्थम् एकस्याः अण्डाकारस्य वृत्ताकारस्य वा शाद्वलिताङ्गणस्य आवश्यकता भवति । अस्य आयाम-विस्तार-व्यासानां विषये नास्ति कश्चन विशिष्टः नियमः । अस्मिन् क्रीडाङ्गण(प्ले ग्राउण्ड)क्षेत्रे स्वल्पानि तृणानि अवश्यं कर्तितानि भवन्ति । उभयतः जवनिका पटो वा निबदघ्यते । पटयोः मध्ये तृणकर्तनपुरस्सरं भूमिः समतला विधीयते । तस्यां 'धावनस्थली’ निर्मियते यत्र कन्दुकप्रक्षेपो भवति । इदमङ्गणं ६ संख्यकाः क्रीड्का एव स्वाधिकारे रक्षन्ति ।
(ख) धावनस्थली रेखाविधानानि च
सम्पादयतुधावनस्थल्याः विस्तारः १० फुटमितो भवति । तस्यां २२ गजमितेऽन्तराले यष्टित्रय-द्वितयं (विकेट्द्वयं)समारोप्यते । यष्टित्रयात् चतुःफुटमिता भूमिः अग्रे उभयतः मुच्यते तथा एका रेखा यष्टित्रयस्य रेखायाः स्मानान्तरे क्रुष्यते या 'पौपिंगक्रीज' इत्युच्यते । अस्याम् एव रेखायां स्थित्वा यष्टिताडकः (बल्लेबाज) क्रीडति । यष्टित्रयं मध्याधारीकृत्य एका ऋज्वी रेखा दीयते या मध्ययष्टेः (स्टम्पतः ) उभयतः ५ फुट्दूरे भवति । इत्थं धावनस्थल्याः विस्तारः १० फुट्मितः क्रीयते । अस्याः रेखायाः तथा पौपिंग् क्रीजरेखाया मध्यवर्ति क्षेत्रं यष्टिताडकस्य भवति । यदि सः अस्मात् क्षेत्राद् बहिः गच्छति तथा यष्टिरक्षकः कन्दुकेन काष्ठखण्डं (गिल्लीं) निपातयति तर्हि स निर्गतः क्रियते । कन्दुकक्षेपणाय यष्टिधारकस्य पुरोवर्तिनो यष्टित्रयस्य उभयतः एका तादृशी रेखा कृष्यते यतो मध्ययष्टोर्द्वितीयतटावधिकमन्तरं ४ फुटमितं भवेत् । इत्थम् अस्याः रेखाया आयामः ८ फुट् ८ इंच मितो भवति तथा सर्वतो मध्ये केन्द्रयष्टिः (सेन्टर विकेट) भवति । एतां 'कन्दुक-क्षेपक-रेखां’ (बौलिंग क्रीज) इति कथयन्ति । कन्दुकक्षेपकः अत्रैव स्थित्वा कन्दुकं क्षिपति । रेखायाः उभयभोगयोरेका समकोण लध्वी रेखा भवति ययेदं स्पष्टरूपेण ज्ञायते यदियं कन्दुकक्षेपणरेखा (बौलिंग-क्रीज) विद्यते । कन्दुकक्रीडकेन अनयोः तटयोः दूराद् बहिर्भाग उपस्थाय कन्दुको न क्षेपणीयः । इमौ समकोणौ "रिटर्न-क्रीज" नाम्ना सम्बोध्येते ।
(ग) यष्टित्रयम् (विकेट्)
सम्पादयतुयष्टित्रयस्य विस्तारः अधिकाधिकं ६ इंचमितो भवति तदुपरि च द्वौ काष्ठखण्डौ (वेल्स)तथा भूमौ आरोपिताः तिस्रः यष्टयो भवन्ति । एतासाम् उच्चता भूमेः २८ इंचमिता क्रियते यष्टिषु च निहितस्य काष्ठखण्डस्य आयामः ४ ३/८ इंचमितो भवति । काष्ठखण्डस्य स्थापनाय यष्टीनाम् उपरितनः भागो वर्तुलः भवति, अधोभागे च तासाम् आरोपणाय तीक्ष्णता विधीयते । तत्र लोहस्यारग्वधस्य वाऽऽवरणमपि क्रियते येन आरोपणे सारल्यं भवेत् । यष्टीनाम् आयामः ३१ १/२ इंचमितो भवति स च आरोपणात् परं २८ इञ्चमितोऽवशिष्यते । काष्ठखण्डस्थापनाद् यष्टीनाम् औन्नत्यं १/२ इञ्चमितमेव वर्धेत ततोऽधिकं नैव । विकेटस्य स्थानं सदैव यष्टेः २२ गजमिते दूरवर्तिनि स्थले भवति ६ इञ्चमितेनान्तरालेन च तिस्त्रोऽपि यष्टयो निखन्यन्ते । एतासु वामभागयष्टिः पदयष्टिः (लैगस्टम्प्), दक्षभागस्था यष्टिः दूरस्था यष्टिः (आफ स्टम्प) तथा मध्या 'केन्द्रयष्टिः’ (सेन्ट्रल स्टम्प) कथ्यते ।
(घ) काष्ठपट्टिका (बल्ला अथवा बैट्)
सम्पादयतुअस्याः पट्टिकाया विस्तारः करस्यामपि स्थितौ ४ १/२ इञ्चतोऽधिको न भवति । आयामः ३८ इंचमितो भारश्च अस्या भिन्न-भिन्नस्थितिकः क्रीडकस्य रुच्यनुसारं स्वक्रियते । यस्यां नमनीयता भवेत् सैव पट्टिका हितावहा भवति यतः कन्दुकोऽनयैव ताड्यते । नवीनायां पट्टिकायामतसीतैलस्य मर्दनम् उचितं मन्यते । एतेन तस्याः सुदृढता वर्धते ताडने च सौविध्यं भवति । अस्या मुष्टिकाभागस्य धारणं द्वाभ्यां हस्ताभ्यां क्रियते, पट्टिकायाः अधोभागः समतमो भवति तस्मिन् भागेऽड्गुल्योऽङ्गुष्ठश्च भवन्ति । वामहस्तेन उपरितनः भागः तथा दक्षहस्तेन तदधोभागो गृह्यते । एवंविधग्रहणेन कन्दुकताडने सारल्यं भवति कन्दुकश्च न उच्छलति ।
(ङ) कन्दुकः(बाल्)
सम्पादयतुक्रिकेट्क्रीडायाः कन्दुकः ५ १/२ औसमितभारवान् भवति । वर्तुलता च अस्य ८ १३/१३ इञ्चतः ६ इञ्चावधिका । कन्दुकोपरि चर्मावरणम् आवश्यकम् । अन्तः कठोरतायै किमपि भारवद वस्तु सम्पूर्य तत्स्थाने सुदृढतया सीव्यते ।
क्रिकेट्क्रीडकाः तेषां नियमाश्च
सम्पादयतु- (क) क्रीडकसंख्या दलव्यवस्था च अस्यां क्रीडायां दलद्वय भवति । प्रतिदलं ११-११ संख्याकाः क्रीडकाः क्रीडन्ति । तेषु प्रत्येकं दलस्य एकः नायको भूत्वा स्वं स्वं दलं नियन्त्रयति । दलनायकौ सम्भूय क्रीडासमयं निर्णयतः । क्रीडाया नियमानां यथावत् संरक्षणाय द्वौ निर्णायकौ (अम्पायर् )भवतः ययोः निर्णयः द्वयोरपि दलयोः कृते मान्यो भवति । कन्दुकक्षेपणरेखातः कन्दुकक्षेपकं 'गैदबाज' (बौलर्) तथा कन्दुकक्षेपणकार्यं 'गेंदबाजी’ (बौलिंग) इति कथयन्ति । विकेटस्य रक्षणाय स्थितौ कन्दुकताडकौ काष्ठपट्टिकाधरौ 'बल्लेबाज' तयोः क्रियां 'बल्लेबाजी’ति गदन्ति । अन्ये क्रीडकाः क्षेत्ररक्षका: (फील्डर) भवन्ति ।
- (ख) वस्त्रोपवस्त्रे -प्रत्येकं क्रीडार्थी ग्रीष्मतौ श्वेतपादयामं कञ्चुकं च शीतकाले विशिष्य मणिबन्धान्तमूर्णाकञ्चुकं (स्वटेर)पत्रयोजनं भवति । हस्तप्रच्छादने द्विविधे भवतः । प्रथमे करतलम् आच्छादितं भवति द्वितीये च केवलम् अङ्गुल्योङ्गुष्ठश्च आच्छादिता भवन्ति । पादप्रच्छादने गुल्फपर्यन्तं तूलपूरिते मध्ये च स्वल्पाः काष्ठपत्रिकाः भवन्ति । जानुपर्यन्तम् अनयोः प्रलम्बताऽऽघातवारणाय उचिता मन्यते ।
- (घ) उपानद्युगलम् (बूट्स्)
श्वेतवर्णं गुल्फवधिकं तलभागे कीलकजटितं सुदृढं धावने सौविध्यकरम् ऊर्ध्वभागात् सूत्रबद्धम् उपानद्युगलं क्रीडकेन धार्यते ।
- (ङ्) क्षेत्रव्यूहरचना
क्षेत्ररक्षणाय क्षेत्ररक्षका मुख्यत्वेन भिन्न-भिन्नेषु स्थानेषु स्थित्वा क्षेत्रं रक्षन्ति । तदर्थं तेषां स्थाननाम् निर्धारणम् इत्थं विद्यते -
- (१) सिलीमिड आन्
- (२) मिडविकेट्
- (३) मिड-आन्
- (४) लांग-आन्
- (५) स्क्वेयर लैग्
- (६) लैग-स्लिप्
- (७) डीप स्क्वैयर-लैग्
- (८) शार्ट्-लैग्
- (९) लांग -लैग्
- (१०) थर्ड मैन्
- (११) स्लिप्
- (१२) गली पाइण्ट्
- (१३) सिली पाइण्ट्
- (१४) सिली मिड् प्राफ्
- (१५) कवर् पाइण्ट्
- (१६) एक्स्ट्रा कवर्
- (१७) डीप एकस्ट्रा कवर्
- (१८) मिड प्राफ्
- (१९) लांग आफ्
- (२०) विकेट कीपर्
कन्दुकताडकस्य वामभागशालिनीं पुरोवर्तिनीं यष्टित्रयीं प्रति 'आन् साइड' भवति तस्य दक्षभागशालिनीं पुरोवर्तिनीं यष्टिं प्रति च 'आफ् साइड्’ भवति । क्षेत्ररक्षका नायकस्यादेशानुसारं स्वस्वस्थानेषु तिष्ठन्ति ।
क्रीडाविधयः नियमाः
सम्पादयतु(क) क्रीडारम्भः
सम्पादयतुपूर्वं द्वावपि दलनायकौ क्रीडाङ्गणम् आगत्य मुद्रोत्क्षेपणं कुरुतः यत् कस्य दलं प्रथमं क्रीडिष्यतीति ? टास्-विजेतुः दलनेतुः अयम् अधिकारः भवति यत् सः स्वयं क्रीडेत् अथवा विपक्षदलं पूर्वं क्रीडयेत् । निर्णयानन्तरं क्रीडकदलस्य द्वौ ताडकौ क्षेत्रम् आगत्य यष्टित्रय्या निकटम् उपतिष्ठतः । द्वितीयं दलं च तौ क्रमशः क्रीडयतः । यष्टिरक्षकः (विकेट् कीपर) यष्टित्रय्याः पृष्ठे स्थित्वा कन्दुकम् अवरुणद्धि । अन्ये नव क्षेत्ररक्षकाः क्रीडाङ्गणं परितः कन्दुकम् अवरोद्धुं तथा धावन(रन्)संख्यावृद्धेः अवरोधाय तिष्ठन्ति ।
(ख) बहिर्गतत्वम्
सम्पादयतुयदि क्रीडयितृदलस्य कन्दुकक्षेपकः (गदबाज) कन्दुकं यष्टित्रय्या सङ्घट्ट्य काष्ठखण्डं पातयति तदा ताडकः बहिर्गतत्वं भजते । यदि ताडकः कन्दुकताडनसमये तम् उच्चैः उच्छालयेत् तथा विपक्षी क्षेत्रारक्षकः तं निगृह्णीयात् तदा स बहिर्गतः भवति । यदि ताडकस्य पादो दक्षयष्टेः समक्षं भवेदथ च क्षेपकेन क्षिप्तः कन्दुकः तस्य वामं पादं स्पृशति तदापि स निर्गतः मन्यते । इयं स्थितिः पदबाधा (‘लैग बिफोर् विकेट्’ LBW) इति कथ्यते । ताडकः कन्दुकं वेगेन सन्ताडय स्वसमक्षस्थ-यष्टित्रय्या निकटे निशिचतायां रेखायां गच्छति तथा समक्षस्थः अन्यः ताडकः तस्य स्थाने निश्चितरेखायाम् आगच्छति तदा एकं धावनं (रन्)भवति । अनयोः एकोऽपि ताडकः रेखायां नोपयाति तथा विपक्षदलस्य कोऽपि क्षेत्ररक्षकः कन्दुकं यष्टिरक्षकस्य निकटे प्रक्षिपदेथ च स हस्ते कन्दुकं नीत्वा काष्ठखण्डं पातेयेत् तदा समक्षस्थस्ताडकः बहिर्गतो भवति । एवमेव अन्येषां विधीनां पालनाभावेऽपि बहिर्गतत्वं क्रियते ।
(ग) कन्दुकक्रीडनम्
सम्पादयतुअस्यां क्रीडायां कन्दुको नानाविधिभिः क्रीडयते तस्य च नामान्यपि विभिन्नानि सन्ति । कन्दुकताडकस्य ताडनप्रक्रियायाः मुख्यतः अष्टौ प्रकारा मन्यन्ते । यथा -(१) स्ट्रोक्, (२) ड्राइव्, (३) स्क्वेयर् कट्, (४) डाउन दि गली (५)बैक-कट् अथवा लेट- कट्, (६) लैग -ग्लांस, (७) हुक्स्ट्रोक् तथा (८) पुल् शाट् ।
- (१) स्ट्रोक्- शब्दस्यार्थो मन्दताडनं विद्यते । केवलं बहिर्गतत्वाय यत् क्रीडयते तत् 'स्ट्रोक-प्ले’ इति कथ्यते । अस्य (१) अग्रप्रतिरक्षितक्रीडा (फारवर्ड् डिफेन्सिव् प्ले) तथा (२) पार्श्वप्रतिरक्षितक्रीडा (बैकवर्ड् डिफेन्सिव् प्ले ) नामभ्यां द्वौ प्रकारौ स्तः ।
- (२) ड्राइव् शब्दस्य तात्पर्यं कन्दुकस्याग्रे चालनं वर्तते । अस्य (१) आनड्राइव्, (२) स्ट्रेट् ड्राइव्, (३) आफ् ड्राइव् तथा (४) कवर् ड्राइव्-नामकाः चत्वारः प्रकारा भवन्ति येषु कन्दुकताडनं समानमेव क्रियते; परमन्तरमिदमेव भवति यत् ताडनं कस्यां दिशि क्रियत इति । अनेन विधिना सुदृढताडने सति यदा कन्दुकः क्षेत्रस्य परितः कृष्टां रेखामुल्लङ्घयति तदैकं चतुष्कं (चोका) भवति । निर्णायक-निर्धारित सीमोल्लङ्घनेन षट्कं (छक्का) भवति । कदा कस्य विधेः प्रयोगः कर्तव्य इति विषये ताडकस्यैव निर्णयः प्रमाणम् ।
- (३) कन्दुकं ताडनयष्टेर्दक्षभागे स्वल्पताडनेन अपाकुर्वन्ति तत् 'स्कवेयर् कट्’ इति कथ्यते । (४-८) इत्थमेव वाम -दक्ष-मध्यवीथि-प्रभृतयः ताडनविधयः अन्यासु ताडनप्रक्रियासु अन्तर्भवन्ति ।
अस्य सविधे प्रत्येकं कन्दुक आयाति स च सर्वदैव तं निगृहीतुं यतते । ताडकस्य अग्रे गमनात् परं योऽपि लाभो, प्राप्तुं शक्यते तं गृह्णाति । यष्टित्रयरक्षकस्य इमानि पञ्च ध्यातव्यानि सन्ति
- (१) तीव्रकन्दुकावसरे यष्टित्रय्या रक्षणम् ।
- (२) मन्दकन्दुकावस्थायां निकटे स्थितिः ।
- (३) कन्दुकग्रहणे सदैव तत्परत्वम् ।
- (४) तस्य ध्यानं नेत्रे च कन्दुके एव भवेयुः तथा
- (५) कन्दुकेन यष्टित्रयमुत्खायैकं क्रीडकं धावनबहिर्गतं विधातुं प्रयतेत ।
क्रीकेटक्रीडाया द्वे अपि दले द्वयोर्द्वयोः चक्रयोः क्रीडतः । प्रथमचक्रस्य आरम्भो मुद्रोत्क्षेपणेन भवति । चक्रनिर्धारणेन समयनिर्घारणेन वाऽपि क्रीडितुं शक्यते । दलनायकः क्रीडाचक्रघोषणे अधिकरोति । एकं दलं प्रथमे चक्रे द्वितीयदलात् १५० अथवा २०० धावनानि न्यूनानि कृत्वा बहिर्भावति तदा द्वितीयदलस्य नेता तद् दलं तदैव द्वितीयचक्रं क्रीडितुं कथयति तदेव 'फालो आन्’ इति कथयते ।
(च) कन्दुकषट्कम् (ओवर्)
सम्पादयतुएकस्मिन् समये षड्वारं कन्दुकक्षेपणं 'ओवर्’ इति कथ्यते । इदं क्षेपणम् उभयतो भवति । एकक्रमे षड्वारं कन्दुकक्षेपणेन एका पूर्तिर्भवति । एकस्यां पूर्तावेक एव क्रीडकः कन्दुकं क्षिपति । यस्यां पूतौ किमपि धावनं न भवति तदा 'मैडन् ओवर्’ नाम्ना सम्बोध्यते ।
क्रिकेट्सम्बद्धाः केचन विशिष्टा निर्देशाः शब्दाश्च
सम्पादयतुक्रिकेट्-क्रीडा साम्प्रतं विश्वव्यापिनी विद्यते । अस्यां क्रीडायां जनरुच्यनुसारम् अनेके नियमाः यथावसरं परिष्क्रियन्ते, परिवर्त्यन्ते । बहवः नियमाः तु सूक्ष्मतमाः सन्तः अतीव महत्त्वं भजन्ते । क्रीडेच्छावतां निपुणानां क्रीडकानां साहचर्येण ते ज्ञातव्याः परिपालनीयाश्च । तथाऽपि अत्र निर्देशरूपेण केषाञ्चन सूचनाः उपस्थाप्यन्ते । यथा -
- (१) क्रीडानिर्णायकस्य इदं कर्तव्यं भवति यत् स समयात् प्राक् क्रीडाङ्गणमुपेत्य स्थलीं निरीक्षेत्, दलनेतृभ्यां साहचर्यं सम्प्राप्य क्रीडायाः सर्वान् नियमान् निश्चिनुयात् । पक्षपातं विना क्रीडाविधिं चालयेत् । क्रीडानिर्णायको धावनानां सूचनाय (१) दक्षहस्तमुत्थाप्य करतलं प्रसार्य च 'बाई' सङ्केतं करोति तेन ४ धावनानि सूच्यन्ते (२) दक्षपादमुत्थाप्य जानुनि दक्षहस्तं निधाय च 'लैग बाई' घोषणां करोति तथा दक्षहस्तं स्कन्धं यावदुत्याप्य एकाम् अङ्गुलीं दर्शयति तदा 'नो बाल्’ घोषणा सूच्यते । इमानि धावनानि गणनापुस्तिकायां पृथक्-पृथग् लिख्यन्ते । ईदृशं प्रत्येकं धावनस्य कारणमपि भिन्नं भिन्नं भवति ।
- (२) धावनसंख्यालेखकः 'स्कोरर्’, धावनसंख्या च 'स्कोर्’ इति कथ्यते । लेखको निर्णायकस्य निर्देशान् पालयति लिखति च । यत्र गणना लिख्यते सा गणनापुस्तिका (स्कोर् बुक) गद्यते ।
- (३) क्रीडायां कन्दुकलोपे सति क्षेत्ररक्षकः कन्दुकलोपं 'लास्ट् बाल्’ घोषयति । खण्डिते त्रुटिते स्फाटिते च सति कन्दुके तस्य परिवर्तनं शक्यते । यष्टित्रयरक्षकस्य कन्दुकक्षेपकस्य हस्ते कन्दुकप्राप्त्याः सीमारेखातो बहिर्गत्या निर्णायकस्य वस्त्रेऽवरोधाच्च स कन्दुको 'डैड् बाल्’ विनष्टः कन्दुक इति घोष्यते । कन्दुक-प्रक्षेपणस्य नियमानाम् उल्लङ्घने सति 'नो बाल्’ अप्रयुक्तः कन्दुक इति सूच्यते । कन्दुकस्योच्चावच-प्रक्षेपणेन 'वाइड् बाल्’ घोषणा क्रियते । कन्दुकताडकस्य काष्ठपट्टिकयाऽथवा शारीरकेण केनापि भागेन स्पर्शं प्राप्य यदि काष्ठखण्डस्य पतनं भवति तदा 'विकेट् डाउन्’ घोषणा भवति । कान्दुकिकेन क्षिप्तः कन्दुकः ताडकेन ताडितः सन् भूमिस्पर्शं विना निगृह्यते तदा 'केच्’ भवति तथा ताडकं 'केच् आउट्’ इति कथयन्ति । यदा कश्चन क्रीडको यष्टित्रये कन्दुकस्पर्शात् पूर्वं स्वकीय निर्धारितरेखास्थले नागच्छेत् तदा स 'रन् आउट्’ निगद्यते ।
इत्थमियं क्रीडा सम्प्रति समस्तं विश्वं व्याप्य स्थिताऽस्ति । अस्यां प्रावीण्यं प्राप्तानां सङ्ख्यापि अतिदवीयसी विद्यते । विभिन्नस्य क्रीडकस्य विभिन्ने विषये वैशिष्ट्यम् आलोक्यते । यथा-
- (१) चतुःशतादधिकधावनकर्तारः
- (२) शीघ्रगत्या धावनकर्तारः
- (३) ताडने प्रवीणाः
- (४) चतुष्क-षट्क-ताडननिपुणाः
- (५) एकस्यां प्रतियोगितायां १६ विकेट्-प्रापकाः
- (६) अधिकतमविकेट्गृहीतारः
- (७) यष्टिरक्षणपण्डिताः
- (८) अधिकतमं कन्दुकनिगृहीतारः
- (९) अधिकाधिकं दूरे कन्दुकप्रक्षेपकाश्च । प्रावीण्यभाजां क्रीडकानां समादरः सर्वत्र अवलोक्यते । नानाविधैः उपहारैः ते सभाज्यन्ते च । अतो वयमपि तान् अभिनन्द्य वदामः-
- परीक्षणार्थं प्रतियोगितादृशा, प्रवर्तमाना विविधा हि शृङ्खलाः ।
- मनांसि नित्यं रमयन्ति सर्वतः क्रिकेट्-खेला जगतीतलेऽभवत् ॥
आधारः
सम्पादयतुअभिनवक्रीडातरंगिणी
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडियाकोषे क्रिकेट्-क्रीडा अनेन सम्बद्धमाध्यमाः सन्ति। |