क्रिकेट्क्रीडोपकरणानि

(क) क्रीडाङ्गणम्

सम्पादयतु
 
क्रीडाङ्गणम्

सर्वप्रथमं ‘क्रिकेट्’ –क्रीडार्थम् एकस्याः अण्डाकारस्य वृत्ताकारस्य वा शाद्वलिताङ्गणस्य आवश्यकता भवति । अस्य आयाम-विस्तार-व्यासानां विषये नास्ति कश्चन विशिष्टः नियमः । अस्मिन् क्रीडाङ्गण(प्ले ग्राउण्ड)क्षेत्रे स्वल्पानि तृणानि अवश्यं कर्तितानि भवन्ति । उभयतः जवनिका पटो वा निबदघ्यते । पटयोः मध्ये तृणकर्तनपुरस्सरं भूमिः समतला विधीयते । तस्यां ‘धावनस्थली’ निर्मियते यत्र कन्दुकप्रक्षेपो भवति । इदमङ्गणं ६ संख्यकाः क्रीड्का एव स्वाधिकारे रक्षन्ति ।

(ख) धावनस्थली रेखाविधानानि च

सम्पादयतु
 
धावनस्थली रेखाविधानानि च

धावनस्थल्याः विस्तारः १० फुटमितो भवति । तस्यां २२ गजमितेऽन्तराले यष्टित्रय-द्वितयं (विकेट्द्वयं)समारोप्यते । यष्टित्रयात् चतुःफुटमिता भूमिः अग्रे उभयतः मुच्यते तथा एका रेखा यष्टित्रयस्य रेखायाः स्मानान्तरे क्रुष्यते या ‘पौपिंगक्रीज’ इत्युच्यते । अस्याम् एव रेखायां स्थित्वा यष्टिताडकः (बल्लेबाज) क्रीडति । यष्टित्रयं मध्याधारीकृत्य एका ऋज्वी रेखा दीयते या मध्ययष्टेः (स्टम्पतः ) उभयतः ५ फुट्दूरे भवति । इत्थं धावनस्थल्याः विस्तारः १० फुट्मितः क्रीयते । अस्याः रेखायाः तथा पौपिंग् क्रीजरेखाया मध्यवर्ति क्षेत्रं यष्टिताडकस्य भवति । यदि सः अस्मात् क्षेत्राद् बहिः गच्छति तथा यष्टिरक्षकः कन्दुकेन काष्ठखण्डं (गिल्लीं) निपातयति तर्हि स निर्गतः क्रियते । कन्दुकक्षेपणाय यष्टिधारकस्य पुरोवर्तिनो यष्टित्रयस्य उभयतः एका तादृशी रेखा कृष्यते यतो मध्ययष्टोर्द्वितीयतटावधिकमन्तरं ४ फुटमितं भवेत् । इत्थम् अस्याः रेखाया आयामः ८ फुट् ८ इंच मितो भवति तथा सर्वतो मध्ये केन्द्रयष्टिः (सेन्टर विकेट) भवति । एतां ‘कन्दुक-क्षेपक-रेखां’ (बौलिंग क्रीज) इति कथयन्ति । कन्दुकक्षेपकः अत्रैव स्थित्वा कन्दुकं क्षिपति । रेखायाः उभयभोगयोरेका समकोण लध्वी रेखा भवति ययेदं स्पष्टरूपेण ज्ञायते यदियं कन्दुकक्षेपणरेखा (बौलिंग-क्रीज) विद्यते । कन्दुकक्रीडकेन अनयोः तटयोः दूराद् बहिर्भाग उपस्थाय कन्दुको न क्षेपणीयः । इमौ समकोणौ "रिटर्न-क्रीज" नाम्ना सम्बोध्येते ।

(ग) यष्टित्रयम् (विकेट्)

सम्पादयतु
 
यष्टित्रयम्

यष्टित्रयस्य विस्तारः अधिकाधिकं ६ इंचमितो भवति तदुपरि च द्वौ काष्ठखण्डौ (वेल्स)तथा भूमौ आरोपिताः तिस्रः यष्टयो भवन्ति । एतासाम् उच्चता भूमेः २८ इंचमिता क्रियते यष्टिषु च निहितस्य काष्ठखण्डस्य आयामः ४ / इंचमितो भवति । काष्ठखण्डस्य स्थापनाय यष्टीनाम् उपरितनः भागो वर्तुलः भवति, अधोभागे च तासाम् आरोपणाय तीक्ष्णता विधीयते । तत्र लोहस्यारग्वधस्य वाऽऽवरणमपि क्रियते येन आरोपणे सारल्यं भवेत् । यष्टीनाम् आयामः ३१ / इंचमितो भवति स च आरोपणात् परं २८ इञ्चमितोऽवशिष्यते । काष्ठखण्डस्थापनाद् यष्टीनाम् औन्नत्यं / इञ्चमितमेव वर्धेत ततोऽधिकं नैव । विकेटस्य स्थानं सदैव यष्टेः २२ गजमिते दूरवर्तिनि स्थले भवति ६ इञ्चमितेनान्तरालेन च तिस्त्रोऽपि यष्टयो निखन्यन्ते । एतासु वामभागयष्टिः पदयष्टिः (लैगस्टम्प्), दक्षभागस्था यष्टिः दूरस्था यष्टिः (आफ स्टम्प) तथा मध्या ‘केन्द्रयष्टिः’ (सेन्ट्रल स्टम्प) कथ्यते ।

(घ) काष्ठपट्टिका (बल्ला अथवा बैट्)

सम्पादयतु
 
काष्ठपट्टिका

अस्याः पट्टिकाया विस्तारः करस्यामपि स्थितौ ४ १/२ इञ्चतोऽधिको न भवति । आयामः ३८ इंचमितो भारश्च अस्या भिन्न-भिन्नस्थितिकः क्रीडकस्य रुच्यनुसारं स्वक्रियते । यस्यां नमनीयता भवेत् सैव पट्टिका हितावहा भवति यतः कन्दुकोऽनयैव ताड्यते । नवीनायां पट्टिकायामतसीतैलस्य मर्दनम् उचितं मन्यते । एतेन तस्याः सुदृढता वर्धते ताडने च सौविध्यं भवति । अस्या मुष्टिकाभागस्य धारणं द्वाभ्यां हस्ताभ्यां क्रियते, पट्टिकायाः अधोभागः समतमो भवति तस्मिन् भागेऽड्गुल्योऽङ्गुष्ठश्च भवन्ति । वामहस्तेन उपरितनः भागः तथा दक्षहस्तेन तदधोभागो गृह्यते । एवंविधग्रहणेन कन्दुकताडने सारल्यं भवति कन्दुकश्च न उच्छलति ।

(ङ) कन्दुकः(बाल्)

सम्पादयतु
 
रक्तकन्दुकः

क्रिकेट्क्रीडायाः कन्दुकः ५ / औसमितभारवान् भवति । वर्तुलता च अस्य ८ १३/१३ इञ्चतः ६ इञ्चावधिका । कन्दुकोपरि चर्मावरणम् आवश्यकम् । अन्तः कठोरतायै किमपि भारवद वस्तु सम्पूर्य तत्स्थाने सुदृढतया सीव्यते ।

 
श्वेतकन्दुकः