संस्कृतव्याकरणे धोतूनां दश क्रियापदरूपाणि (गणाः) सन्ति। एकैकेभ्यः धातुगणेभ्यः लकारप्रत्ययाः सन्ति। एते गणाः सन्ति -

भ्वाद्यदादि जुहोत्यादिः दिवादिः स्वादिरेव च ।
तुदादिश्च रुधादिश्च तनादि-क्री-चुरादयः।।

  1. भ्वादिः
  2. अदादिः
  3. जुहोत्यादिः (ह्वादिः)
  4. दिवादिः
  5. स्वादिः
  6. तुदादिः
  7. रुधादिः
  8. तनादिः
  9. क्र्यादिः
  10. चुरादिः

एते गणाः इह व्याख्यान्ते

भ्वादिः

सम्पादयतु

भ्वादयः भू-धातुरिव सन्ति। भ्वादिभ्यो धातुभ्योऽकार-गणप्रतययोऽस्ति। अपि च कदाचित् समये धातोः स्वरो गुण्यते। एतद् गुणवषयः सर्वेषु गणेषु अस्ति (तु तुदादिषु नास्ति)। अतो लट् लकाराय भ्वादयः इत्येवं क्रियन्ते-

भू + अ + ति → गुण → भो + अ + ति → सन्धि → भव + ति → भवति

भू धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भवति भवतः भवन्ति
मध्यमपुरुषः भवसि भवथः भवथ
उत्तमपुरुषः भवामि भवावः भवामः
वन्द् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वन्दते वन्देते वन्दन्ते
मध्यमपुरुषः वन्दसे वन्देथे वन्दध्वे
उत्तमपुरुषः वन्दे वन्दावहे वन्दामहे

अन्यानि रुपाणि इत्येव -

अभवत्, अभूत्, बभूव, भवेत्, भूयात्, भवतु, भविता, भविष्यति, अभविष्यत्।

अवन्दत, अवन्दिष्ट, ववन्दे, वन्देत, वन्दिषीष्ट, वन्दताम्, वन्दिता, वन्दिष्यते, अवन्दिष्यत।

अदादयोऽद्-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययो नास्ति। अतो लट् लकाराय अदादयः इत्येवं क्रियन्ते -

अद् + ति → सन्धि → अत्ति

अद् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्ति अत्तः अदन्ति
मध्यमपुरुषः अत्सि अत्थः अत्थ
उत्तमपुरुषः अद्मि अद्वः अद्मः
वृज् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वृक्ते वृजाते वृजते
मध्यमपुरुषः वृक्षे वृजाथे वृग्ध्वे
उत्तमपुरुषः वृजे वृज्वहे वृज्महे

अन्यानि रुपाणि इत्येव -

आदत्, आघसत्, आद, अद्यात्, अद्यात्, अत्तु, अदिता, अत्स्यति, आत्स्यत्।

अवृक्त, अवर्जिष्ट, ववृजे, वृजीत, वर्जिषीष्ट, वृक्ताम्, वर्जिता, वर्जिष्यते, अवर्जिष्यत।

जुहोत्यादिः (ह्वादिः)

सम्पादयतु

जुहोत्यदयो हु-धातुरिव सन्ति। एतेषां प्रत्ययोऽपि नास्ति (अदादयरिव)। किन्तु एतेषाम् आरम्भे लिट् लकारे इव द्विगुणन्ते। अतो लट् लकाराय जुहोत्यदयः इत्येवं क्रियन्ते -

दा + ति → द्विगुण → ददा + ति→ ददाति

दा धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददाति दत्तः ददति
मध्यमपुरुषः ददासि दत्थः दत्थ
उत्तमपुरुषः ददामि दद्वः दद्मः
भृ धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बिभृते बिभ्राते बिभ्रते
मध्यमपुरुषः बिभृसे बिभ्राथे बिभृध्वे
उत्तमपुरुषः बिभ्रे बिभृवहे बिभृमहे

अन्यानि रुपाणि इत्येव -

अददात्, अदत्, ददौ, दद्यात्, देयात्, ददातु, दाता, दास्यति, अदास्यत्।

अबिभृत, अभृत, बिभ्रे, बिभ्रीत्, भृषीष्ट, बभृताम्, भर्ता, भरिष्यते, अभरिष्यत।

दिवादिः

सम्पादयतु

दिवादयो दिव्-धातुरिव सन्ति। एते भ्वादयश्च सदृशाः सन्ति। परन्तु एको यकार-गणप्रत्ययोऽकार-प्रत्ययेन सह अस्ति। अतो लट् लकाराय दिवादयः इत्येवं क्रियन्ते -

नृत् + य + ति → नृत्य + ति → नृत्यति

नृत् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नृत्यति नृत्यतः नृत्यन्ति
मध्यमपुरुषः नृत्यसि नृत्यथः नृत्यथ
उत्तमपुरुषः नृत्यामि नृत्यावः नृत्यामः
दीप् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दीप्यते दीप्येते दीप्यन्ते
मध्यमपुरुषः दीप्यसे दीप्येथे दीप्यध्वे
उत्तमपुरुषः दीप्ये दीप्यावहे दीप्यामहे

अन्यानि रुपाणि इत्येव -

अनृत्यत्, अनर्तित्, ननर्त, नृत्येत्, नृत्यात्, नृत्यतु, नर्तिता, नर्त्स्यति, अनर्त्स्यत्।

अदीप्यत, अदीपीष्ट, दिदीपे, दीप्येत, दीपिषीष्ट, दीप्यताम्, दीपिता, दीपिष्यते, अदीपिष्यत।

स्वादिः

सम्पादयतु

स्वादयः सु-धातुरिव सन्ति। एतेषां गणप्रत्ययः 'नु' इति। कदाचित् समये एकवचने अयम् प्रत्ययो गुण्यते (नु → नो)। अतो लट् लकाराय दिवादयः इत्येवं क्रियन्ते -

सु + नु + ति → गुण → सु + नो + ति → सुनो + ति → सुनोति

सु धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुनोति सुनुतः सुन्वन्ति
मध्यमपुरुषः सुनोषि सुनुथः सुनुथ
उत्तमपुरुषः सुनोमि सुन्वः/सुनुवः सुन्मः/सुनुमः
सु धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः सुनुते सुन्वाते सुन्वते
मध्यमपुरुषः सुनुषे सुन्वाथे सुनुध्वे
उत्तमपुरुषः सुन्वे सुन्वहे/सुनुवहे सुन्महे/सुनुमहे

अन्यानि रुपाणि इत्येव -

असुनोत्, असावीत्, सुषाव, सुनुयात्, सूयात्, सुनोतु, सुोता, सोष्यति, असोष्यत्।

असुनुत, असोष्ट, सुषुवे, सुन्वीत, सोषीष्ट, सुनुताम्, सोता, सोष्यते, असोष्यत।

तुदादिः

सम्पादयतु

तुदादय तुद्-धातुरिव सन्ति। एते भ्वादयश्च सदृशाः सन्ति। किन्तु लट् लकारे स्वरो न गुण्यते। अपि च वेदेषु तुदादीनां उदात्ताः तेषां अकार-प्रत्ययेषु सन्ति (भ्वादीनां उदात्ताः धातुषु सन्ति)। अतो लट् लकाराय तुदादयः इत्येवं क्रियन्ते -

तुद् + अ + ति → तुद + ति → तुदति

तुद् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुदति तुदतः तुदन्ति
मध्यमपुरुषः तुदसि तुदथः तुदथ
उत्तमपुरुषः तुदामि तुदावः तुदामः
तुद् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तुदते तुदेते तुदन्ते
मध्यमपुरुषः तुदसे तुदेथे तुदध्वे
उत्तमपुरुषः तुदे तुदावहे तुदामहे

अन्यानि रुपाणि इत्येव -

अतुदत्, अतौत्सीत्, तुतोद, तुदेत्, तुद्यात्, तुदतु, तोत्ता, तोत्स्यति, अतोत्स्यत्।

अतुदत, अतुत्त, तुतुदे, तुदेत, तुत्सीष्ट, तुदताम्, तोत्ता, तोत्स्यते, अतोत्स्यत।

रुधादिः

सम्पादयतु

रुधादयो रुध्-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययो नास्ति, तु मध्ये विकरणप्रत्ययो नकारो भवति। अतो लट् लकाराय रुधादयः इत्येवं क्रियन्ते -

रु + न + ध्+ ति → सन्धि → रुण + द्धि → सन्धि → रणद्धि

रुध् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुणद्धि रुन्धः/रुन्द्धः रुन्धन्ति
मध्यमपुरुषः रुणत्सि रुन्धः/रुन्द्धः रुन्ध/रुन्द्ध
उत्तमपुरुषः रुणध्मि रुन्ध्वः रुन्ध्मः
रुध् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रुन्धे/रुन्द्धे रुन्धाते रुन्धते
मध्यमपुरुषः रुन्त्से रुन्धाथे रुन्ध्वे/रुन्द्ध्वे
उत्तमपुरुषः रुन्धे रुन्ध्वहे रुन्ध्महे

अन्यानि रुपाणि इत्येव -

अरुणत्, अरौत्सीत्, रुरोध, रुन्ध्यात्, रुध्यात्, रुणद्धु, रोद्धा, रोत्स्यति, अरोत्स्यत्।

अरुन्द्ध, अरुद्ध, रुरुधे, रुन्धीत, रुत्सीष्ट, रुन्द्धाम्, रोद्धा, रोत्स्यते, अरोत्स्यत।

तनादयः तन्-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययः उकारोऽस्ति। केषुचित् समयेषु अयम् प्रत्ययो गण्यते (उ → ओ)। अतो लट् लकाराय तनादयः इत्येवं क्रियन्ते -

तन् + उ + ति → गुण → तनो + ति → तनोति

तन् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनोति तनुतः तन्वन्ति
मध्यमपुरुषः तनोषि तनुथः तनुथ
उत्तमपुरुषः तनोमि तन्वः/तनुवः तन्मः/तनुमः
तन् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तनुते तन्वाते तन्वते
मध्यमपुरुषः तनुषे तन्वाथे तनुध्वे
उत्तमपुरुषः तन्वे तन्वहे/तनुवहे तन्महे/तनुमहे

अन्यानि रुपाणि इत्येव -

अतनोत्, अतानीत्, ततान, तनुयात्, तन्यात्, तनोतु, तनिता, तनिष्यति, अतनिष्यत्।

अतनोत, अतनिष्ट, तेने, तन्वीत, तनिषीष्ट, तनुताम्, तनिता, तनिष्यते, अतनिष्यत।

क्र्यादिः

सम्पादयतु

क्र्यादयः क्री-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययः 'ना' अस्ति। केषुचित् समयेषु अयम् प्रत्ययः 'नी' उत 'न' इति भवति। अतो लट् लकाराय क्र्यादयः इत्येवं क्रियन्ते -

क्री + ना + ति → सन्धि → क्रीणा + ति → क्रीणाति

तन् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रीणाति क्रीणीतः क्रीणन्ति
मध्यमपुरुषः क्रीणासि क्रीणीथः क्रीणीथ
उत्तमपुरुषः क्रीणामि क्रीणीवः क्रीणीमः
तन् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्रीणीते क्रीणातः क्रीणते
मध्यमपुरुषः क्रीणीषे क्रीणाथः क्रीणीध्वे
उत्तमपुरुषः क्रीणे क्रीणीवहे क्रीणीमहे

अन्यानि रुपाणि इत्येव -

अक्रीणात्, अक्रैषीत्, चिक्राय, क्रीणीयात्, क्रीयात्, क्रीणातु, क्रेता, क्रेष्यति, अक्रेष्यत्।

अक्रीणात, अक्रेष्ट, चिक्रीये, क्रीणीत, क्रेषीष्ट, क्रीणीताम्, क्रेता, क्रेष्यते, अक्रेष्यत।

चुरादिः

सम्पादयतु

चरादयः चुर्-धातुरिव सन्ति। एतस्मै गणाय गणप्रत्ययः 'अय' अस्ति। सर्वदा एते धातवो गुण्यन्ते। अतो लट् लकाराय चुरादयः इत्येवं क्रियन्ते -

चुर् + अय + ति → गुण → चोर् + अय + ति → चोरयति

तन् धातोः लट् लकारे रूपाणि (परस्मैपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चोरयति चोरयतः चोरयन्ति
मध्यमपुरुषः चोरयसि चोरयथः चोरयथ
उत्तमपुरुषः चोरयामि चोरयावः चोरयामः
तन् धातोः लट् लकारे रूपाणि (आत्मनेपदी)
लट् लकारः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चोरयते चोरयेते चोरयन्ते
मध्यमपुरुषः चोरयसे चोरयेथे चोरयध्वे
उत्तमपुरुषः चोरये चोरयावहे चोरयामहे

अन्यानि रुपाणि इत्येव -

अचोरयत्, अचूचुरत्, चोरयाञ्चकार, चोरयेत्, चोर्यात्, चोरयतु, चोरयिता, चोरयिष्यति, अचोरयिष्यत्।

अचोरयत, अचूचुरत, चोरयाञ्चकार, चोरयेत, चोरयिषीष्ट, चोरयताम्, चोरयिता, चोरयिष्यते, अचोरयिष्यत।

"https://sa.wikipedia.org/w/index.php?title=क्रियापदरूपाणि&oldid=489637" इत्यस्माद् प्रतिप्राप्तम्