क्षीरिणीसस्यम्
इदं क्षीरिणीसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारते सर्वत्र वर्धते । अस्य सस्यस्य पर्णानि २ – ४ अङ्गुलं यावत् दीर्घाणि, हरितवर्णीयानि च भवन्ति । अस्य पुष्पाणि हरितमिश्रित – नीललोहितवर्णीयानि भवन्ति । फलानि च ४ – ६ अङ्गुलं यावत् दीर्घाणि भवन्ति । फलानाम् अन्तः सपादैकम् अङ्गुलं यावत् दीर्घाणि, कृष्णवर्णीयानि बीजानि भवन्ति । इदं सस्यं द्विविधं भवति । श्वेतं (पेमिडिस्मस् इण्डिकस्), कृष्णम् (इकोकार्डस् प्रटिसेन्स्) च इति । अधिकतया श्वेतसस्यम् एव औषधत्वेन उपयुज्यते ।
क्षीरिणीसस्यम् | ||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||||
| ||||||||||||||||||
द्विपदनाम | ||||||||||||||||||
Hemidesmus indicus L. R.Br. | ||||||||||||||||||
पर्यायपदानि | ||||||||||||||||||
| ||||||||||||||||||
इतरभाषाभिः अस्य क्षीरिणीसस्यस्य नामानि
सम्पादयतुइदं क्षीरिणी-सस्यम् आङ्ग्लभाषयाHemidesmus Indicus इति उच्यते । हिन्दीभाषया“कालीसर” इति, तमिळ्भाषायां “नन्नारिम्” इति, मलयाळभाषया“नन्नारिवर्” इति, कन्नडभाषया“नामद बेरु” अथवा “सारीव” इति उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य क्षीरिणी-सस्यस्य प्रयोजनानि
सम्पादयतुअस्य क्षीरिणी-सस्यस्य रसः मधुरः तिक्तः च । इदं शीतवीर्ययुक्तं, गुरुगुणयुक्तं चापि । विपाके मधुरः एव भवति । अस्य सस्यस्य मूलम् एव औषधत्वेन उपयुज्यते । ॑॑॑# इदं क्षीरिणी-सस्यं वातं, वातजन्यं दोषं, पित्तं, पित्तजन्यं दोषं चापि परिहरति ।
- इदं शरीरस्य ज्वलनं, ज्वरं च शमयति ।
- नेत्ररोगेषु, चर्मरोगेषु च अस्य उपयोगः हितकरः ।
- इदं मूत्रविकारान्, रक्तहीनतां च निवारयति ।
- इदं बलहीनतां निवार्य बलं वर्धयति ।
- अस्य कषायं ३० एम्. एल्. यावत्, कल्कं ५ ग्रां यावत् सेवनीयम् ।
- अनेन निर्मितानि “सारीवादिकाषायं”, “सारीवादिवटी”, “सारीवादिपानकं”, “सारीवादि आसवम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।