खरोष्ठीलिपिः
खरोष्ठीलिपिः(Kharoshthi वा Kharoṣṭhī) भारतीयप्राचीनलिपिषु अन्यतमा । 'शाहबाजगढ़ी'प्रदेशे तथा 'मनसेहरा'प्रदेशे च प्राप्तेषु अशोकशिलालेखेषु खरोष्ठीलिप्या उत्कीर्णाः नीतयः सन्ति । अस्याः लिपेः प्रभावः वायव्यभारतमात्रे आसीत् । वस्तुतः ब्राह्मीलिपिरपेक्षया सङ्कुचितरूपत्वात् खरोष्ठीलिपितः प्रतिनिधिलिपेः उत्पत्तिः न जातः।
खरोष्ठीलिपिः | |
---|---|
तारिम द्रोणी इति स्थाने प्राप्ता खरोष्ठीलिप्यां लिखितमातृका (क्रैस्तवीय द्वितीयशतकम्) | |
प्रकारः | अल्फासिलैबरी Alphasyllabary |
भाषा(ः) | गान्धारी, प्राकृतभाषा |
स्थितिकालः | प्रायः क्रैस्तपूर्वं ४००तः क्रैस्तवीय ३०० शतकम् |
जननस्रोतः |
प्रोटो-सिनेटिक् वर्णाः
|
समकालीनलिपिः | ब्राह्मीलिपिः,पल्लवलिपिः, |
लेखनगतिः | वर्णानां वामतो गतिः |
युनिकोड सूची | Unicode.org chart |
खरोष्टी पूर्वीकभारस्य गान्धारदेशे प्रयुक्तः लिपिः। जनाः संस्कृतम् गान्धारीप्राकृतम् च अस्याम् लिप्याम् अलिखन्। गान्धारदेशे एषा लिपिः तृतीयशतब्धिः पर्यन्तम् उपयुक्तः। एषाः दक्षिणभागात् आरभ्य वामभागम् प्रति लिखितम्। अस्य अक्षराणि अ र प च न द ब ड ष य ष्ट क स म ग स्थ ज श्व ध श ख क्ष ज्ञ र्थ(ह) भ छ ह्व त्स घ ठ न फ स्क य्स श्च ट ढ इति अनुक्रमे अभवन्। व्यञ्जन अक्षराणि ह्रस्वस्वरसहितानि आसन्।
नामेतिहासः
सम्पादयतुआविष्कारपूर्वं पाश्चत्यपण्डिताः( यूरोपीय) खरोष्ठीलिपेः 'बैक्ट्रियन्', 'इंडो-बैक्ट्रो-पालि', 'एरियनो-पालि' इत्यादीनि नामानि दत्तवन्तः । ललितविस्वारः इति लिपिविषयकमातृकायां(Manuscript) ६४ उल्लिखितासु लिपिषु खरोष्ठी लिपेर्नामस्ति । अस्य खरोष्ठीपदस्य व्युत्पत्तिविषये मतान्तराणि सन्ति । तेषु मतेषु 'प्रजलुत्स्की' महोदयस्य मतमेव सर्वाधिकमान्यम् । तस्य मतानुसारं 'खरपोस्त'(ऊखरपोस्त ऊखरोष्ठ) इति शब्दात् खरोष्ठीपदमागतम् । 'पोस्त' ईरान्-देशीयपदम् यस्यार्थः 'चर्म' । भारतस्य उत्तरपश्चिमदिशि एकनगरदेवतायाः नामापि 'खरपोस्त' इति अस्ति । चीनदेशीयपरम्परानुसारम् ऋषिः 'खरोष्ठ' अस्याः लिपेः आविष्कारं कृतवान् । ततः लिपेः 'खरोष्ठी' इति नाम प्राप्तम् ।
कालः
सम्पादयतुमुख्यसीमातः एवञ्च उत्तरपूर्वप्रदेशतः प्राप्तनिदर्शनेभ्य बुधैः अनुमीयते यत् खरोष्ठीलिपेः कालः प्रायः क्रैस्तपूर्वं चतुर्थशतकमासीत् । क्रैस्तपूर्वं तृतीयशतकतः क्रैस्तवीय तृतीयशतकपर्यन्तम् अस्याः लिपेः प्रभावः उत्तरपश्चिमभारते अधिकः आसीत् । परन्तु 'कुषाण'शासनकालानन्तरम् एषा लिपिः भारतखण्डतः बहिः चीन-तुर्किस्तानं प्रति स्थानान्तरिता आसीत् । तत्र एकशतकपर्यन्तं खरोष्ठीलिपिः जीवितासीत् । क्रैस्तवीय पञ्चमशतकपर्यन्तम् एषा लिपिः लुप्तासीत् ।
खरोष्ठीलिपेः निदर्शनानि
सम्पादयतुखरोष्ठीलिपेः निदर्शनानि प्रस्तरशिल्पेषु, धातुनिर्मितभाण्ड-मूर्ति-पात्रेषु भूर्जपत्रादिषु उपलब्धानि । खरोष्ठीलिपेः प्राचीनतमलेखः तक्षशिलायां प्राप्तः । तथा प्राय समकालिकचत्वारः लेखाः पुष्कलावत्यामपि लब्धाः । परन्तु अस्याः लिपेः मुख्यक्षेत्रम् उत्तरपश्चिमभारतं तथा पूर्व-अफगानिस्थानमासीत् । मथुरातः अपि खरोष्ठीलिप्याम् उत्कीर्णः अभिलेखः प्राप्तः । दक्षिणभारतप्रदेशेष्वपि अस्याः लिपेः प्रभावः असीत् । मैसूरुमण्डलस्य सिद्दापुरतः प्राप्ताभिलेखः तदेव अनुमोदयति ।
खरोष्ठीलिपेः वैशिष्ट्यम्
सम्पादयतुखरोष्ठीलिपेः मुख्यवैशिष्ट्यम् अत्र अक्षराणां दक्षिणतः गतिः । इतरवैशिष्ट्यानि यथाक्रमम्-
- प्रत्येकव्यञ्जनेषु 'अ' कारस्य विद्यमानता ।
- दीर्घस्वरस्य एवं स्वरमात्रायाः अभावः ।
- अन्यस्वरमात्राणाम् ऋजुदण्डेन अव्यक्तीकरणम् ।
- व्यञ्जनपूर्वपञ्चमवर्णानां सर्वत्र अनुस्वाररूपप्राप्तिः ।
- संयुक्ताक्षराणां स्वल्पता इत्यादीनि खरोष्ठीलिपेः प्रमुखवैशिष्ट्यानि ।
वर्णमाला
सम्पादयतुअ | इ | उ | ए | ओ | ऋ |
क | ख | ग | घ | |
च | छ | ज | ञ | |
ट | ठ | ड | ढ | ण |
त | थ | द | ध | न |
प | फ | ब | भ | म |
य | र | ल | व | |
श | ष | स | ह |
ḱ | ṭ́h |
अक्षराणि
सम्पादयतु𐨀 a | 𐨁 i | 𐨂 u | 𐨅 e | 𐨆 o | 𐨃 ṛ |
𐨐 क | 𐨑 ख | 𐨒 ग | 𐨓 घ | |
𐨕 च | 𐨖 छ | 𐨗 ज | 𐨙 ञ | |
𐨚 ट | 𐨛 ठ | 𐨜 ड | 𐨝 ढ | 𐨞 ण |
𐨟 त | 𐨠 थ | 𐨡 द | 𐨢 ध | 𐨣 न |
𐨤 प | 𐨥 फ | 𐨦 ब | 𐨧 भ | 𐨨 म |
𐨩 य | 𐨪 र | 𐨫 ल | 𐨬 व | |
𐨭 श | 𐨮 ष | 𐨯 स | 𐨱 ह |
𐨲 ḱ | 𐨳 ṭ́h |
संख्याः
सम्पादयतु۱ | ۲ | ۳ | ㄨ | ۱ㄨ | ۲ㄨ | ۳ㄨ | ㄨㄨ | ۱ㄨㄨ |
---|---|---|---|---|---|---|---|---|
१ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ |
੭ | Ȝ | ੭Ȝ | ȜȜ | ੭ȜȜ | ȜȜȜ | ੭ȜȜȜ | ||
१० | २० | ३० | ४० | ५० | ६० | ७० | ||
ʎ۱ | ʎ۲ | |||||||
१०० | २०० |
खरोष्ठीलिपेः यूनिकोड संकेतपुटम्
सम्पादयतुखरोष्ठीलिपिः Unicode.org chart (PDF) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+10A0x | 𐨀 | 𐨁 | 𐨂 | 𐨃 | 𐨅 | 𐨆 | 𐨌 | 𐨍 | 𐨎 | 𐨏 | ||||||
U+10A1x | 𐨐 | 𐨑 | 𐨒 | 𐨓 | 𐨕 | 𐨖 | 𐨗 | 𐨙 | 𐨚 | 𐨛 | 𐨜 | 𐨝 | 𐨞 | 𐨟 | ||
U+10A2x | 𐨠 | 𐨡 | 𐨢 | 𐨣 | 𐨤 | 𐨥 | 𐨦 | 𐨧 | 𐨨 | 𐨩 | 𐨪 | 𐨫 | 𐨬 | 𐨭 | 𐨮 | 𐨯 |
U+10A3x | 𐨰 | 𐨱 | 𐨲 | 𐨳 | 𐨸 | 𐨹 | 𐨺 | 𐨿 | ||||||||
U+10A4x | 𐩀 | 𐩁 | 𐩂 | 𐩃 | 𐩄 | 𐩅 | 𐩆 | 𐩇 | ||||||||
U+10A5x | 𐩐 | 𐩑 | 𐩒 | 𐩓 | 𐩔 | 𐩕 | 𐩖 | 𐩗 | 𐩘 | |||||||
Notes
|