गजः
एकः आफ्रिकीयगजः
एकः आफ्रिकीयगजः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) जन्तवः
सङ्घः Chordata
उपसङ्घ: कशेरुकाः
वर्गः सस्तनः
विशेषश्रेणिः Afrotheria
गणः Proboscidea
कुलम् Elephantidae
Gray, 18211
उपविभागीयस्तरः
आफ्रिकादेशीयः गजः

शारीरकलक्षणानि, विविधानि नामानि चसंपादित करें

मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः । अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि । अस्य पादाः स्तम्भाः इव अतीव स्थूलाः । कर्णौ शूर्पे इव अति विशालौ । नेत्रे तु ल्घ्वाकारकौ । तथापि सः सूक्ष्माण्यपि वस्तूनि द्रष्टुं शक्नोति । अस्य मुखे अनेके दन्ताः सन्ति । मुखात् बहिः निर्गतौ दृढौ तीक्ष्णै च द्वौ दन्तौ स्तः । तस्मात् एव अस्य द्विरदः, दन्ती, दन्तावलः इति नामानि प्राप्तानि । गजस्य आनने लम्बमानः एकः दीर्घावयवः अस्ति । सः अवयवः शुण्डा इत्युच्यते । एषा शुण्डा गजस्य हस्तः इति कथ्यते । तेन कारणेन दन्तावलस्य हस्ती करी इति च नामनी स्तः । अस्माभिः हस्तः यथा उपयुज्यते तथैव गजेन शुण्डा उपयुज्यते । शुण्डया अयं बहूनि कार्याणि कर्तुं शक्नोति । भूमौ स्थितां सूचीमपि हस्ती पश्यति, करेण गृह्णाति च । गजानां शुण्डा एव नासिका । तया एव जिघ्राति । शुण्डायाः अन्ते रन्ध्रमस्ति । तेन जलं गृहीत्वा मुखे निक्षिप्य पिबति । एवं द्वाभ्याम् अवयवाभ्यां जलं पिबतीति गजस्य 'द्विपः' इति संज्ञा वर्तते । द्विपस्य कटाभ्यां करात् च मदः स्रवति । अतः अस्य 'गजः' इति 'इभः' इति च पदप्रयोगः दृश्यते । गजवत्सानां कलभाः इति, गजस्त्रीणां करेणवः इति च व्यवहारः ।

 
भारते जयपुरस्य सालङ्कृतगजः

स्वभावःसंपादित करें

करी शाकाहारी । गजस्य शरीरं विशालं, धूसरवर्णञ्च । सहजसाधुरयं गम्भीरस्वभावः । गमनं तु प्रायः मन्दं भवति । गजस्य रवः घीङ्कारः इत्युच्यते । सामूहिकस्वेच्छाजीवनं, दीर्घकालपर्यन्तं स्नानकरणञ्च गजानाम् अभीष्टम् । यः हस्तिनं चालयति सः हस्तिपकः इति कथ्यते । राजानः गजान् आरुह्य विहरन्ति स्म । मृगयार्थम् अपि गच्छन्ति स्म । युद्धेषु गजसेनायाः प्राधान्यम् आसीत् । गजानां दन्तैः विविधानि पेटिकादीनि वस्तूनि कुर्वन्ति ।

गजजातिः प्राचुर्येण केरल-कर्णाटकराज्ययोः अरण्येषु दृश्यते ।
१९८२ तमे संवत्सरे अस्मद्देशे प्रचालितेषु नवम-एषियाड्-क्रीडोत्सवेषु 'अप्पु'इति मनोहरः गजः चिह्नत्त्वेन स्वीकृतः आसीत् । गज:

पुराणेषु हस्तीसंपादित करें

यथा भौतिक सूर्यः स्वरश्मिभ्यः जलस्य कर्षणं करोति, एवमेव आध्यात्मिकः सूर्यः पापेभ्यः पुण्यानां कर्षणं करोति। पुराणकथनानुसारेण, ब्रह्माण्डे यः ऊर्जा आसीत्, तस्मात् सूर्यस्य प्रादुर्भावमभवत्। ऊर्जायाः यः भागं उच्छिष्टमासीत्, तस्मात् हस्तिनः प्रादुर्भावमभवत्(ब्रह्माण्डपुराणम्)। अतएव, ये दिव्याः गुणाः आध्यात्मिके सूर्ये सन्ति, ते न्यूनाधिकरूपेण आध्यात्मिक हस्तिने अपि भवितुं शक्यन्ते। हस्ती स्वशुण्डेन जलस्य आकर्षणं करोति। किं आध्यात्मिकः हस्ती पापेभ्यः पुण्यानां कर्षणं कर्तुं शक्यते, अयं विचारणीयः। मनुष्यस्य हस्ती सह किं साम्यत्वमस्ति, अस्य निदर्शनं गणेश पुराणस्य १.५६ आख्यानेन भवति। अस्मिन् आख्याने भ्रूशुण्ड संज्ञकः भक्तः गणेशेन सह सायुज्यं प्राप्नोति। भ्रूशुण्ड संज्ञा संकेतमस्ति यत् भ्रूमध्ये यः ज्योतिरस्ति, तत् लघु सूर्यस्य रूपमस्ति एवं अस्मात् विनिर्गताः रश्मयः हस्तिनः शुण्डा रूपा भवन्ति। पुराणेषु पूर्वादि दिशानुसारेण दिग्गजानां नामनिर्धारणमस्ति एवं तेषां विशिष्टाः कार्याणि भवन्ति। ते देवानां वाहनाः सन्ति। कथासरित्सागरे चक्रवर्ती राज्ञस्य एकं रत्नं हस्ती अस्ति। द्वितीयं रत्नं अश्वमस्ति। हस्तिरत्नस्य गतिः अश्वरत्न्यापेक्षापि अधिकं भवितुं शक्यते।

 
दिग्गज1

बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=गजः&oldid=467604" इत्यस्माद् प्रतिप्राप्तम्