गीतिकाव्यम्
गीतकाव्यं संस्कृतसाहित्यस्य नितरां रमणीयः प्रकारः वर्तते । इदं मुक्तकरूपेण प्रबन्धरूपेण च उपलभ्यते । अनेन प्रकारेण रमणीनां रूपहृदययोः सुन्दरं चित्रणं कृतं दृश्यते । अस्मिन् शृङ्गाररसस्य विभिन्नाः अवस्थाः मार्मिकरूपेण वर्णिताः दृश्यन्ते । एतेन नारीप्रेम्णः उदात्तता विशुद्धता च ज्ञाता भवति । प्रकृतिवर्णनम् अपि अत्र प्रमुखं स्थानम् आवहति । प्राकृतिकसौन्दर्यम् आन्तरिकसौन्दर्यस्य अनावरणाय कल्प्यते । सङ्गीतसंयोजनम् अस्य प्रकारस्य वैशिष्ट्यं वर्तते । नृत्ययोजनस्य साध्यताः अपि अत्र विद्यन्ते । सङ्गीतमपि साहित्यञ्च सरस्वत्या स्तनद्वयम् इत्येषा उक्तिः प्रसिद्धा । एतेषु गीतकाव्येषु सङ्गीतसाहित्यानां समागमः दृश्यते । अत्रत्यं सङ्गीतं भवति आपातमधुरम् । साहित्यं भवति आवलोचनामृतम् । अतः एव जनसामान्यैः अपि अयं प्रकारः आनन्ददायकः भवति । अत्रत्य प्रेम लौकिकप्रेमपरिधिम् अतिरिच्य भक्तिभावं प्रति प्रवहति । अस्य गीतकाव्यपरम्परायाः मूलकर्ता वर्तते जयदेवः (गीतगोविन्दरचयिता) । अनेन रचितं गीतगोविन्दम् इत्येतत् अस्ति जगत्प्रसिद्धं गीतकाव्यम् ।